सर्वेषां नो जननी...


सर्वेषां नो जननी
भारतधरणी कल्पलतेयम्
जननी-वत्सल-तनय-गणैस्तत्
सम्यक् शर्म विधेयम् ॥

हिमगिरि-सीमन्तित-मस्तकमिदम्
अम्बुधि-परिगत-पार्श्वम्
अस्मज्जन्मदमन्नदमनिशं
श्रौतपुरातनमार्षम् ॥

विजनितहर्षं भारतवर्षं
विश्वोत्कर्षनिदानम्
भारतशर्मणि कृतमस्माभि:
नवमिदमैक्यविधानम् ॥

भारतहितसम्पादनमेव हि
कार्यं त्विष्टविपाकम्
भारतवर्जं न किमपि कार्यं
निश्चितमित्यस्माकम् ॥

भारतमेका गतिरस्माकं
नापरास्ति भुवि नाम ।
सर्वादौ हृदयेन च मनसा
भारतमेव नमाम ॥ 4 ॥


- राधानाथराय्


"https://sa.wikiquote.org/w/index.php?title=सर्वेषां_नो_जननी...&oldid=15436" इत्यस्माद् प्रतिप्राप्तम्