सहसा विदधीत न क्रियाम्...

सुभाषितम्

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥

किरातार्जुनीयम् – २/३०

sahasā vidadhīta na kriyāmavivekaḥ paramāpadāṃ padam ।
vṛṇate hi vimṛṣyakāriṇaṃ guṇalubdhāḥ svayameva sampadaḥ ॥

पदच्छेदः

सहसा, विदधीत, न, क्रियाम्, अविवेकः, परम्, आपदाम्, पदम्, वृणते, हि, विमृष्यकारिणं, गुणलुब्धाः, स्वयम्, एव, सम्पदः ।


तात्पर्यम्

जीवने सर्वदा विचिन्त्य एव सर्वे व्यवहाराः कर्तव्याः । कोऽपि जनः अविचिन्त्य हठात् किमपि कार्यं न कुर्यात्। यदि तथा क्रियेत तर्हि तादृशम् अविवेकिनं महत्यः आपदः आवृण्वन्ति । किन्तु यः सम्यक् विचार्य पदं स्थापयति सः उत्तमफलानि एव प्राप्नोति । तस्य गुणैः आकृष्टा सम्पत्तिः स्वयमेव धावन्ती तत्समीपम् आगच्छति ।


आङ्ग्लार्थः

One should not do anything in a hurry, A person who does not deliberate faces great calamities. Fortunes which are always attached to merits, seek on their own one who acts with reflection.