सादरं समीहताम्...


सादरं समीहताम् वन्दना विधीयताम्

श्रद्धया स्वमातृभू-समर्चना विधीयताम् ॥


आपदो भवन्तु वा, विद्युतो लसन्तु वा
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा
धीरता न हीयतां, वीरता विधीयतां
निर्भयेन चेतसा पदं पुरो निधीयताम् ॥१॥


प्राणदायिनी इयं त्राणदायिनी इयं
शक्तिमुक्तिभक्तिदा सुधाप्रदायिनी इयम्
एतदीयवन्दने सेवनेऽभिनन्दने

साभिमानमात्मनो जीवनं प्रदीयताम् ॥२॥
- वासुदेव द्विवेदी शास्त्री


"https://sa.wikiquote.org/w/index.php?title=सादरं_समीहताम्...&oldid=15201" इत्यस्माद् प्रतिप्राप्तम्