साधनं सुमहद्यस्य...
सुभाषितम्
साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः कोऽन्यः सहेतारालिता भ्रुवम् ॥
sādhanaṃ sumahadyasya yannānyasya vilokyate ।
tasya dhīśālinaḥ ko:'nyaḥ ahetārālitā bhruvam ॥
पदच्छेदः
साधनं, सुमहत्, यस्य, यत्, न, अन्यस्य, विलोक्यते, तस्य, धीशालिनः, कः, अन्यः, सहेतारालिता, भ्रुवम् ।
तात्पर्यम्
यस्य सेना अतीव महती, तस्याः पुरस्तात् कस्यापि सेना भवतु, सा न्यूना एव । तादृशस्य बुद्धिमतः पराक्रमं को वा सहेत ? सः बहु बलवान् भवति इत्यर्थः ।