साधुकारी साधुर्भवति पापकारी पापो भवति ।
पुण्यः पुण्येन कर्मणा भवति, पापः पापेन ॥ - बृहदारण्यकोपनिषत् ४-४-५

साधुकारी साधुर्भवति, पापकारी तु पापो भवति । पुण्येन कर्मणा पुण्यो भवति, पापेन
कर्मणा पापो भवति ॥

कर्मणां फलानि नियतानि भवन्त्येव । सत्कर्मभिः कृतैः सत्फलानि भवन्ति, पापकर्मभिः
कृतैः अनिष्टानि फलानि भवन्ति । कर्मानुगुणानि फलानि भवन्ति । 'बीजानुगुणं फलम्' इति
प्रसिद्धमेव । निम्बे बीजे उप्ते रसालफलं लभ्यते वा ? रसालबीजेन उप्तेन निम्बफलनिरीक्षणमपि
अयुक्तमेव खलु ?

'पुण्येन पुण्यः, पापेन पापः' इति हि कर्मनियमः । अस्मिन् जन्मनि कश्चित् सुखी चेत् तत्
तस्य पूर्वार्जितपुण्यकर्मणः फलम् । अन्यः दुःखी चेत् तस्य पापकर्माण्येव कारणम् । तस्मात्
यदि वयं सदा पुण्यकर्मानुष्ठानरताः स्मः तेन अवश्यं शुभं फलमेव लभामहे । मानवैः सदा
पुण्यशीलैरेव भाव्यम् । न केनापि कारणेन विवेकिभिः पापाचरणं कर्तव्यम् ॥

"https://sa.wikiquote.org/w/index.php?title=साधुकारी_साधुर्भवति...&oldid=16532" इत्यस्माद् प्रतिप्राप्तम्