सुभाषितम्

सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ॥
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घकालेऽपि न याति विक्रियाम् ॥




तात्पर्यम्

भोजनं सुपक्वं, पुत्रः कार्याकार्यविचारशीलः, आत्मनः अनुशासनेन सन्मार्गगामिनी स्त्री, मन्त्रिसेनापत्यादिभिः सम्यक् अनुगतः राजा, सम्यक् विचिन्त्य उक्तं वचनं, सुष्ठु विचार्य कृतं कार्यं च एतानि सर्वाणि बहुकालानन्तरमपि दुष्टानि न भवन्ति ।

"https://sa.wikiquote.org/w/index.php?title=सुजीर्णमन्नं...&oldid=15354" इत्यस्माद् प्रतिप्राप्तम्