सुन्दः उपसुन्दः च इति द्वौ राक्षसौ सोदरौ आस्ताम् । तौ तिलोत्तमानामकां अप्सरसं वाञ्छन्तौ तस्याः कृते प्रयत्नम् आरब्धवन्तौ । तदा तयोः स्पर्धा जाता अचिरेण द्वयोः युद्धं भूत्वा परस्परप्रहारेण द्वौ अपि मृतौ । यथाः – न चैव रसाङ्गापत्तिः शान्तशृङ्गारयोश्च विरोधः इति रसगङ्गाधरोक्तेः सुन्दोपसुन्दन्यायेन उभयोरपि ध्वंससंभवात् इति वाच्यम् ॥ अच्युतरायमोडकस्य सहित्यसारे सरसामोदटीकायाम् पृष्ठे १४

"https://sa.wikiquote.org/w/index.php?title=सुन्दोपसुन्दन्यायः&oldid=11306" इत्यस्माद् प्रतिप्राप्तम्