सुभाषचन्द्रबोसः (२३ जनवरी १८९७ - १८ आगस्ट् १९४५) भारतस्य स्वातन्त्र्ययोधेषु अन्यतमः । ब्रिटिषशासनात् मुक्तिनिमित्तं क्रान्तिः एव मार्गः इति तस्य दृढः विश्वासः आसीत् । तन्निमित्तं तेन भारतराष्ट्रियसेना संस्थापिता ।

सञ्चिका:Subhas Bose.jpg
जनाः धनं वस्तूनि च स्वयं जयं स्वातन्त्र्यं वा न आनयेयुः । अस्मासु कर्तृत्वशक्तिः स्यात् यया प्रेरिताः सन्तः वयं धीर-वीरकर्माणि आचरेम ।

अमृतवचनानि सम्पाद्यताम्

  • परमार्थतायाः वैशाल्यस्य अधिगमनम् असारयुक्तेन अवगमनेन असाध्यं वर्तते । अधिकसत्ययुक्तस्य तत्त्वस्य आधारेण अस्माभिः जीवनं निर्मातव्यम् । वयं तूष्णीं स्थातुं न शक्नुमः यतः तत् असाध्यम् , परमं सत्यम् अस्माभिः न ज्ञातम् इत्यतः वा ।
    • उद्धृतम् - An Indian pilgrim: an unfinished autobiography (1997) by himsel, शिशिरकुमारबोस्, सुगतबोसश्च, पृ सं १२४


  • प्रखरराष्ट्रियतायाः, परिपूर्णन्यायस्य, निष्पक्षपातस्य च आधारेणैव भारतीयस्वातन्त्र्यसेनायाः निर्माणं कर्तुं शक्यम् ।
    • भारतीयराष्ट्रियसेनायाः सेनाधिपतिपदग्रहणावसरे १९४३ तमे वर्षे आगस्ट् २६ तमे दिनाङ्के स्वभाषणे उक्तम् ।


  • वयं यदि तिष्ठेम, आझाद् हिन्द् फौझ् शिलाभित्तिः इव स्यात्, वयं यदा अग्रे चलेम, तदा आझाद् हिन्द् फौझ् स्यात् मर्षणयन्त्रम् इव ।
    • भारतीयराष्ट्रियसेनायाः सेनाधिपतिपदग्रहणावसरे १९४३ तमे वर्षे आगस्ट् २६ तमे दिनाङ्के स्वभाषणे उक्तम् ।


  • मह्यं रक्तं दीयताम्, अहं स्वातन्त्र्यं दास्यामि !


  • भारतेन रक्तम् इष्यते । उत्थीयताम्, अस्माकं समयः न विद्यते । स्कन्दौ उन्नीयेताम् ! वयं शत्रूणां व्यूहे मार्गं सृजेम, यदि भगवतः इच्छा, वीरमरणं प्राप्नुयाम । अपि च अस्माकम् अन्तिमनिद्रायाम् अस्माकं सेनां देहलीं प्रति यः मार्गः आनयेत् तं मार्गं चुम्बेम । देहलीं प्रति मार्गः एव स्वातन्त्र्यं प्रति मार्गः । 'चलो देल्ली' (देहलीं प्रति चलेम) ।
    • उद्धृतम् - India Calling (1946) by himself and आर् ऐ पाल्, पृ सं ५
"https://sa.wikiquote.org/w/index.php?title=सुभाषचन्द्रबोसः&oldid=3995" इत्यस्माद् प्रतिप्राप्तम्