सुभाषितरत्नकरण्डकम् (ऊज्ज्वालिकादानकथा)


॥ अथ ऊज्ज्वालिकादानकथा ॥

नानासारङ्गरूपप्रभवमृदुमहद्रोमसंश्लाघ्यवस्त्रा
हेमन्ते गर्भगेहे प्रियतमवनिताबाहुयुग्मोपगूढाः ।
यत्क्रीडन्ति क्षितीशा विविधरसवरैरन्नपानैः समृद्धास्
तत्स्यादुज्ज्वालिकायाः फलं अतिमधुरं भिक्षुसंघार्पितायाः । । ९१ । ।

ज्वालातरङ्गविकसद्दहनोपगूढां भीमस्वनां शिशिरशीतविनाशकर्त्रीं ।
उज्ज्वालिकां मुनिवरप्रवराय दत्त्वा दीप्तप्रभो भवति देवमनुष्यलोके । । ९२ । ।

गन्धर्वासुरकिन्नरैः सहचरा देदीप्यमानानना
विद्युज्ज्वालशरच्छशाङ्कसदृशाः कान्ताभिरालिङ्गिताः ।
स्वर्गे यद्विचरन्ति दीप्तवपुषो लीलायमानाः सुरास्
तद्दत्त्वार्यगणाय शीतसमये चोज्ज्वालिकां श्रद्धया । । ९३ । ।

जित्वा रिपून्ये गजवाजियुक्तान्पृथ्वीं समन्तादनुशासयन्ति ।
दीप्तानना हेमविभूषिताङ्गा उज्ज्वालिकायाः फलं एव तेषां । । ९४ । ।

 । । इत्युज्ज्वालिकादानकथा । ।