सुभाषितरत्नकरण्डकम् (कुङ्कुमादिकथा)

॥ अथ कुङ्कुमादिकथा ॥

मज्जद्वारविलासिनीकरकुचश्रोण्यूरुविस्फारितां
यत्स्फीतस्फुटपङ्कजां सुरपतिर्मन्दाकिनीं गाहते ।
कान्ताभिः स्मरविह्वलाभिरसकृल्लोकोत्तमायादरात्
तद्गन्धोदकपाद्यधूपकुसुमस्रग्गन्धदानात्फलं । । ५६ । ।

यद्राजा चक्रवर्ती वियति गतघनैः कुङ्कुमाम्भःप्रवाहैः
कर्पूरामोदवद्भिर्मलयजसुरभिश्लेषशीतैर्युतायां ।
गङ्गायां अङ्गसौख्यं परमं अनुभवन्मोदते सुन्दरीभिस्
तत्त्यागात्कुङ्कुमादेर्गुणमणिनिधये बुद्धभट्टारकाय । । ५७ । ।

मृदङ्गवीणापटहप्रदानैः कृत्वा तु पूजां सुगतोत्तमानां ।
शृणोति शब्दान्सुरमानुषाणां श्रोत्रं च दिव्यं लभते विशिष्टं । । ५८ । ।

 । । इति कुङ्कुमादिकथा । ।