सुभाषितरत्नकरण्डकम् (पुण्यकथा)
॥ अथ पुण्यकथा ॥
यद्दृश्यते जगति चारुतरं प्रियं वा रूपं कुलं प्रियजनो विभवाः सुखं वा ।
तत्पुण्यशिल्पिकृतं एव वदन्ति सन्तः कल्याणकारिपुरुषस्य न पुण्यतुल्यं । । ३४ । ।
अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर्नागाश्वपत्तिरथसंक्षुभितैर्बलौघैः ।
उद्धूतचामरविराजितगात्रशोभाः पुण्याधिकाः क्षितिभुजो भुवि संचरन्ति । । ३५ । ।
कौशेयकाशिकदुकूलविचित्रवस्त्रा मुक्तावलीकनकरत्नविभूषिताङ्गाः ।
यत्के चिदेव पुरुषाः श्रियं उद्वहन्ति पुण्यस्य पूर्वचरितस्य कृतज्ञता सा । । ३६ । ।
आयुः सुदीर्घं सुकुले च जन्म कान्तं वपुर्व्याधिभयं न चास्ति ।
धनं प्रभूतं परिवारसंपद्भवन्ति पुण्यस्य महाविपाकाः । । ३७ । ।
यच्चक्रवर्ती प्रवरैस्तु रत्नैः सहस्रपुत्रैश्च समन्वितोऽपि
समुद्रसीमां बुभुजे धरित्रीं तत्पुण्यरत्नस्य फलं विशालं । । ३८ । ।
विचित्रपद्मासनमध्यसंस्थितः सुरासुरेन्द्रादिनमस्कृतः सदा ।
यद्ब्रह्मलोकं त्वभिभूय तेजसा ब्रह्मा सदा भाति तदेव पुण्यतः । । ३९ । ।
यद्देवनागासुरसिद्धसंघैर्गन्धर्वयक्षोत्तमकिन्नरैश्च ।
संपूज्यते देवगुरुः सदैव तत्पुण्यरत्नस्य फलं विशालं । । ४० । ।
रूपं वीर्यं च शिल्पं च विहाय विवशा नराः ।
परलोकं इतो यान्ति कर्मवायुभिरीरिताः । । ४१ । ।
पुण्यं त्वेकं इहात्यन्तं अनुगामि सुखोदयं ।
पुण्यं अन्यैरहार्यत्वाद्धनानां प्रवरं धनं । । ४२ । ।
ये मेरुं अपि वेगेन विकिरन्ति दिशो दश ।
तेऽपि पुण्यस्य भङ्गाय नालं प्रलयवायवः । । ४३ । ।
संवर्तसलिलोद्वृत्तनिरङ्कुशविसर्पिणा ।
पुण्यं न क्लेदं आयाति चतुःसागरवारिणा । । ४४ । ।
प्रदीप्तकिरणाङ्गारैः सप्तभिर्भास्करानलैः ।
क्षितौ वा दह्यमानायां पुण्यं एकं न दह्यते । । ४५ । ।
। । इति पुण्यकथा । ।