सुभाषितरत्नकरण्डकम् (वस्त्रकथा)


॥ अथ वस्त्रकथा ॥

ये नीलपीतहरितारुणशुक्लचित्रवर्णप्रभेदरचितोज्ज्वलवस्त्रमालां ।
यच्छन्ति लोकगुरवे सगणोत्तमाय ते प्राप्नुवन्त्यभिमतप्रवराम्बराणि । । ७८ । ।

यः संघायाशेषगणानां प्रवराय श्राद्धो भक्त्या चीवरमालां प्रददाति ।
स प्राप्नोति ह्रीवसनं वस्त्रवरिष्ठं काषायं च क्लेशकषायप्रतिपक्षं । । ७९ । ।

दत्त्वा सत्पिङ्गचित्रस्तबकविरचिता नीलपीतावदातै
रक्तैरन्यैश्च रम्यैः सुरुचिरवसनैश्चीवरैश्चारुमालाः ।
दिव्यं वामुक्तवस्त्रं सुगतसुतगणायाभिरूपो मनोज्ञो
ह्रीवस्त्रालंकृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः । । ८० । ।

 । । इति वस्त्रकथा । ।