सुभाषितरत्नभाण्डागारम् (४ चित्रप्रकरणम्)

(सुभाषितरत्नभाण्डागारः/४ चित्रप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
समस्याख्यानम्

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
दलितश्चकितश्छन्नस्तव सैन्ये विसर्पति॥१॥
कामं कामदुघं धुङ्क्ष्व मित्राय वरुणाय च।
वयं धीरेण दानेन सर्वान्कामानशीमहि॥२॥
 

प्रहेलिकाः
अपदो दूरगामी च साक्षंरो न च पण्डितः।
अमुखस्फुटवक्ता च यो जानाति स पण्डितः॥१॥
वने जाता वने त्यक्ता वने तिष्ठति नित्यशः।
पण्यस्त्री न तु वेश्या यो जानाति स पण्डितः॥२॥