सुभाषितरत्नभाण्डागारम् (६ नवरसप्रकरणम्)

(सुभाषितरत्नभाण्डागारम्/६ नवरसप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)

श्रृङ्गाररसनिर्देशः
मनसिजप्रशंसा
अनङ्गेनाबलासङ्गाज्जिता येन जगत्रयी।
स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः॥१॥
एकं वस्तु द्विधा कर्तुं बहवः सन्ति धन्विनः।
धन्वी स मार एवैको द्वयोरैक्यं करोति यः॥२॥


स्त्रीप्रशंसा
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः॥१॥
न हयैर्न च मातङ्गैर्न रथैर्न च पत्तिभिः।
स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां त्रयम्॥२॥


युववर्णनम्
अधारि पद्मेषु तदङ्घ्रिणा क्व तच्छयच्छायलवोऽपि पल्लवे।
तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीश्वरः॥१॥