सुभाषितरत्नभाण्डागारम् (७ सङ्कीर्णकप्रकरणम्)

फलकम्:Header

सुभाषितरत्नभाण्डागारम्


• का.नी. = कामन्दकीनीतिः.
• कथा. = कथासरित्सागर
• कु.सं. = कुमारसम्भव.
• चा.नी.सा. = चाणक्यनीतिसार.
• नी.श. = नीतिशतक.
• पञ्च. = पञ्चतन्त्र.
• प.पु. = पद्मपुराण.
• प्र. = प्रसङ्गाभरणम्.
• बृ.चा. = बृहत् चाणकयनीति.
• भर्तृ. = भर्तृहरिशतकत्रयं
• भर्तृ.सं. = भर्तृहरिसुभाषितसङ्ग्रह (एद्. द्.द्. Kओसम्बि).
• भा.पु. = भागवतपुराण.
• भोज. = भोजप्रबन्ध.
• म.भा. = महाभारत.
• म नु = मनुस्मृति.
• रा. = रामायण.
• रा.त. = राजतरङ्गिणी.
• विक्रम. = विक्रमचरितम्
• वे. = वेतालपञ्चविंशति.
• वै.श. = वैराग्यशतक.
• शा. = आभिज्ञानशकुन्तला (Kअलिदस्)
• शा.प. = शार्ङ्गधारपद्धति.
• शृ.ति. = शृङ्गारतिलक.
• शृ.श. = शृङ्गारशतक.
• सं.पा. = संस्कृतपाठोपकारकतत्त्वबोधिनी.
• सु. = सुभाषितावलि वल्लभदेवस्य.
• हि. = हितोपदेश.






सप्तमं सङ्कीर्णकप्रकरणं

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥१॥ [म.भा. ५.३४.४६]

महतो हि क्षयं लब्ध्वा श्लाघां नीचोऽपि गच्छति ।
दानार्थी मधुपो यद्वद्गजकर्णसमाहतः ॥२॥ [भाव. ३१]

महद्भिः स्पर्धमानस्य विपदेव गरीयसी ।
दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे ॥३॥ [पञ्च. १.४०४]

पञ्चास्यस्य पराभवाय भषको मांसेन गोर्भूयसा ।
दध्यन्नैरपि पायसैः प्रतिदिनं संवर्धितो यो मया ॥४॥ [?]
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् ।
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ॥५॥ [म.भा. ५.२०४७]

पञ्चैव पूजयन्लोके यशः प्राप्नोति केवलम् ।
देवान्पित्èन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान॥६॥ [म.भा. ५.२०४५]

यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा ।
आयासो वा यतो मूलस्तदेकाङ्गमपि त्यजेत॥७॥ [शा.प. १४६१]

यन्निःशब्दजला घनाश्मपरुषे देशेऽतिघोरारवा
यच्चाच्छाः समये पयोदमलिने कालुष्यसन्दूषिताः ।
दृश्यन्ते कुलनिम्नगा अपि परं दिग्देशकालाविमौ
तत्सत्यं महतामपि स्वसदृशाचारप्रवृत्तिप्रदौ ॥८॥ [रा.त. ४.३०८]

यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् ।
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥९॥ [म.भा. १.३०१८]

भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत॥१०॥ [म.भा. १.५६२२]

भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो
गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः ।
यश्चाभ्यन्तरसम्भृतोष्मविकृतिः प्रोक्तः शमी स द्रुमो
लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ॥११॥ [रा.त. ३.१९४]

पतिव्रता पतिप्राणा पत्युः प्रियहिते रता ।
यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि ॥१२॥ [पञ्च. ३.१४४]

संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण तु ।
परोपकारः पुण्याय पापाय परपीडनम् ॥१३॥ [?]

शुभ्रं सद्य सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला
लक्ष्मीरित्यनुभूयते स्थिरमिव स्फीते शुभे कर्मणि ।
विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं
मुक्ताजालमिव प्रयाति झटिति भ्रश्यद्दिशो दृश्यताम् ॥१४॥ [भर्तृ. १.९५]

यन्नम्रं सरलं चापि यच्चापत्सु न सीदति ।
धनुर्मित्रं कलत्रं च दुर्लभं शुद्धवंशजम् ॥१५॥ [पञ्च. २.१८८]

यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते ॥१६॥ [हि. ०.८]

यदप्युच्चैर्विजानीयान्नीचैस्तदपि कीर्तयेत।
कर्मणा तस्य वैशिष्ट्यं कथयेद्विनयान्वितः ॥१७॥ [?]

सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः ।
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत॥१८॥ [वे. ३४]
 
मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य चिह्नम् ॥१९॥ [हि. २.५९]

पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि ।
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥२०॥ [म.भा. ५.१०४६]

परेषामात्मनश्चैव योऽविचार्य बलाबलम् ।
कार्यायोत्तिष्ठते मोहादापदः स समीहते ॥२१॥ [पञ्च. ३.८७]

बलीयसा हीनबलो विरोधं
न भूतिकामो मनसापि वाञ्छेत्।
न वध्यतेऽत्यन्तबलो हि यस्माद्
व्यक्तं प्रणाशोऽस्ति पतङ्गवृत्तेः ॥२२॥ [पञ्च. ३.१२६]

बलोपपन्नोऽपि हि बुद्धिमान्नरः
परं नयेन्न स्वयमेव वैरिताम् ।
भिषङ्ममास्तीति विचिन्त्य भक्षयेद्
अकारणात्को हि विचक्सणो विषम् ॥२३॥ [पञ्च. ३.१११]

मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः ।
आपन्निकषपाषाणे नरो जानाति सारताम् ॥२४॥ [भो.प्र. १५६]

मित्राण्येव हि रक्षन्ति मित्रवान्नावसीदति ।
मित्रादुत्पादितं वैरमपि मूलं निकृन्तति ॥२५॥ [रा. ४.२०.१८]

मित्रार्थे बान्धवार्थे च बुद्धिमान्यतते सदा ।
जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥२६॥ [पञ्च. १.३४६]

प्रत्यासत्तिं मदकरटिनो दानगन्धेन वायुर्
गर्जोद्भूतिं प्रकटितरुचिश्चञ्चलेवाम्बुदस्य ।
चेष्टा स्पष्टं वदति मतिमन्नैपुणोन्नेयतत्त्वा
जन्तोर्जन्मान्तरपरिचितां निश्चलां चित्तवृत्तिम् ॥२७॥ [रा.त. ४.३५४]

प्रसादः कुरुते पत्युः सम्पत्तिं नाभिजानताम् ।
कालिमा कालकूटस्य नापैति हरसङ्गमात॥२८॥ [हि. ३.१९]

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥२९॥ [भो.प्र. ५७।
प्रजावृद्धं धर्मवृद्धं स्वबन्धुं
विद्यावृद्धं वयसा चापि वृद्धम् ।
कार्याकार्ये पूजयित्वा प्रसाद्य
यः सम्पृच्छेन्न स मुह्येत्कदाचित॥३०॥ [म.भा. ५.१५५]

यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्वचिद्वसेत्।
उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥३१॥
एवमेव मनुष्याणां पिता माता गृहं वसु ।
आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥३२॥ [रा. २.१०८.५६]

यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् ।
एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥३३॥ [पञ्च. २.१३६]

यथा फलानां पक्वानां नान्यस्य पतनाद्भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥३४॥ [?]

यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् ।
तथा पुरुषकारेण विना दैवं न सिध्यति ॥३५॥ [म.भा. १३.३०१]

योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ।
स पापकृत्तमो लोके तेनात्मापहारकः ॥३६॥ [मनु. ४.२५५]

शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावली
निर्मुक्तेऽमृतसागराम्भसि मनाङ्मग्नोऽपि नाचामति ।
निःसारे मृगतृष्णिकार्णवजले श्रान्तो विमूढः पिबत्य्
आचामत्यवागहतेऽभिरमते मज्जत्यथोन्मज्जति ॥३७॥ [?]

वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा
शुचालं तप्यन्ते भृशमुदरताडं जडधियः ।
असारे संसारे विरसपरिणामे तु विदुषां
वियोगो वैराग्यं द्रढयति वितन्वन्शमसुखम् ॥३८॥ [प्र. ९५]

विधिरेव हि जागर्ति भव्यानामर्थसिद्धये ।
असंचेतयमानानां सद्भृत्याः स्वामिनामिव ॥३९॥ [?]

लीलायन्त्यः कुलं घ्नन्ति कुलानीव सरिद्वराः
दोषान्सर्वांश्च मत्याशु प्रजापतिरभाषत ॥४०॥ [म.भा. १३.१४७५]

रामो हेममृगं न वेत्ति नहुषो नो यान्युनक्ति द्विजान्
विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने ।
द्यूते भ्रातृचतुष्टयस्वमहिषीं धर्मात्मजो दत्तवान्
प्रायः सत्पुरुषो विनाशसमये बुद्ध्या परित्यज्यते ॥४१॥ [वे. १५]

पुरा विद्वत्तासीदमलिनधियां क्लेशहतये
गता कालेनासौ विषयसुखसिद्धौ विषयिणाम् ।
इदानीं सम्प्रेक्ष्य क्षितिलवभुजः शास्त्रविमुखान्
अहो कष्टं सापि प्रतिदिनमधोऽधः प्रविशति ॥४२॥ [भर्तृ. ३.१००]

राजा धर्मं विना द्विजः शुचिं विना ज्ञानं विना योगिनः
कान्ता सत्यं विना हयो गतिं विना ज्योतिर्विना भूषणम् ।
योद्धा शूरं विना तपो व्रतं विना छन्दो विना गायनं
भ्राता स्नेहं विना नरो हरिं विना मुञ्चन्ति शीघ्रं बुधाः ॥४३॥ [सप्तरत्न २]

प्रियवचनकृतोऽपि योषितां
दयितजनानुनयो रसादृते ।
प्रविशति हृदयं न तद्विदां
मणिरिव कृत्रिमरागयोजितः ॥४४॥ [?]

मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर्वा ।
सर्वं प्रणश्यति समं वित्तविहीनो यदा पुरुषः ॥४५॥

परां विनीतः समुपैति सेव्यतां
महीपतीनां विनयो विभूषणम् ।
प्रवृत्तदानो मृदुसञ्चरत्करः
करीव भद्रो विनयेन शोभते ॥४६॥ [का.नी. १.६५]

प्रीणाति यः सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितमिच्छति तत्कलत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं
यदेतत्त्रयं जगति पुण्यकृतो लभन्ते ॥४७॥ [भर्तृ.सं. २७९]

भार्यायां जनितं पुत्रमादर्शेष्विव चाननम् ।
ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत॥४८॥ [?]

हिंसकान्यपि भूतानि यो हिनस्ति स निर्घृणः ।
स याति नरकं घोरं किं पुनर्यः शुभानि च ॥४९॥ [पञ्च. ३.१६]

सुखास्वादपरो यस्तु संसारे सत्समागमः ।
स वियोगावसानत्वाद्दुःखानां धुरि युज्यते ॥५०॥ [हि. ४.७७]

पूज्यो बन्धुरपि प्रियोऽपि तनयो भ्राता वयस्योऽपि वा
मोहादनवद्यकार्यविमुखो हेयः स कार्यार्थिना ।
लोके हि प्रथिता ननु श्रुतिरियं नार्योऽपि गायन्ति यां
किं कार्यं कनकेन तेन भवति च्छेदाय कर्णस्य यत॥५१॥ [पञ्च. १.२४०]

सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभि ।
स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥५२॥

भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः ।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥५३॥ [म.भा. १.३०२९]

मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥५४॥ [विक्रम. ६४]

बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं
श्रोणी तीर्थशिला च नेत्रशफरं धम्मिल्लशैवालकम् ।
कान्तायाः स्तनचक्रवाकयुगलं कन्दर्पबाणानलैर्
दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम् ॥५५॥ [शृ.ति. १]

भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः ।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥५६॥ [मनु. ८.४१६]

प्रिया हिताश्च ये राज्ञो ग्राह्यवाक्या विशेषतः ।
आश्रयेत्पार्थिवं विद्वांस्तद्द्वारेण नान्यथा ॥५७॥ [पञ्च. १.३२?]

भवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं
बली कालश्चौरो नियतमसिता मोहरजनी ।
गृहीत्वा ज्ञानासि विरतिफलकं शीलकवचं
समाधानं कृत्वा स्थिरतरदृशो जाग्रत जनाः ॥५८॥ [?]

प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।
अनागतसुखाशा च नैव बुद्धिमता नयः ॥५९॥ [म.भा. १२.५२८०]

प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।
पूर्वं मृतं च भर्तारं पश्चात्साद्यनुगच्छति ॥६०॥ [म.भा. १.३०३३]

प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति (ते/सि/से) ॥६१॥ [चा.नी.सा. ९३]

रागी बिम्बाधरोऽसौ स्तनकलशयुगं यौवनारूढगर्वं
नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् ।
कुर्वन्त्वेतानि नाम प्रसभमिह मनश्चिन्तितान्याशु स्वेदं
यन्मां तस्या कपोलौ दहत इति मुहुः स्वच्छकौ तन्न युक्तम् ॥६२॥ [पञ्च. १.२२१]

यो नानाद्युतिमत्पदार्थरसिकोऽसारेऽपि शक्रायुधे
सप्रेमा स विलोक्य बर्हमिह मे किं किं न कुर्यात्प्रियम् ।
इत्याविष्कृतबर्हराजि नटते यो बर्हिणोऽम्भोलवान्
नान्यन्मुञ्चति तं विहाय जलदं कोऽन्योऽस्ति शून्याशयः ॥६३॥ [रा.त. ३.२१८]

शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् ।
यद्यच्छरीरेण करोति कर्म तेनैव देही समुपाश्नुते ततः॥६४॥ [म.भा. १२.५४७८]

विनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥६५॥ [?]

शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते ।
प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥६६॥ [कु.सं. ४.३३]

वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिर्
वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥६७॥ [हि. १.१३७]

पुरो रेवापारे गिरिरतिरादुरोहशिखरो
धनुर्बाणैः पश्चाच्छबरकवरो धावति भृशम् ।
सरः सव्येऽसव्ये दवदहनदाहव्यतिकरो
न गन्तुं न स्थातुं हरिणशिशुरेवं विलपति ॥६८॥ [नीतिरत्न ५]

लीलावतीनां सहजा विलासास्
त एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्गसिद्धस्
तत्र भ्रमत्येव सुधा षडङ्घ्रिः ॥६९॥ [?]

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात।
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥७०॥ [म.भा. ३.३०]

विस्तीर्णव्यवसायसाध्यमहतां स्निग्धप्रयुक्ताशिषां
कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम् ।
मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्गताः
सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥७१॥ [पञ्च. ३.२५३]

लोको वहति किं राजन्न मूर्ध्ना दग्धुमिन्धनम् ।
क्षालयन्नपि वृक्षाङ्घ्रीन्नदीवेगो निकृन्तति ॥७२॥ [हि. ४.६०]

वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते ।
तथा पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम् ॥७३॥ [रा. २.१२२.१२]

लाक्षालक्ष्म ललाटाट्टमभितः केयूरमुद्रा गले
वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोदयः ।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
लीलातामरसोदरे मृददृशः श्वासाः समाप्तिं गताः ॥७४॥ [अमरु. ६०]

लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः
कान्तासङ्गो यजनसमता दुःखहानिर्विलासः ।
धर्मः शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता
पूर्णे सर्वे जठरपिठरे प्राणिनां सम्भवन्ति ॥७५॥ [पञ्च. ५.९१]

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीकपालीं
आदाय न्यायगर्भं द्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् ।
द्वारं द्वारं प्रविष्टो दरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणी सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥७६॥ [भर्तृ. ३.२४]

अदेशकालार्थमनायतिक्षमं
यदप्रियं लाघवकारि चात्मनः ।
विचिन्त्य बुद्ध्या मुहुरप्यवैम्यहं
न तद्वचो हालाहलं हि तद्विषम् ॥७७॥ [पञ्च. ३.११२]

अदृष्टपूर्वानादाय भावानपरिशङ्कितान।
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥७८॥ [म.भा. १२.१२५१९]

सत्क्षेत्रप्रतिपादितः प्रियवचोबद्धालवालावलिर्
निर्दोषेण मनःप्रसादपयसा निष्पन्नसेकक्रियः ।
दातुस्तत्तदभीप्सितं किल फलन्कालेऽतिचालोऽप्यसौ
राजन्दानमहीरुहो विजयते कल्पद्रुमादीनपि ॥७९॥ [सु. ३०२८]

अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ।
नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥८०॥ [भा.पु. ७.२.४९]

अत्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा ।
स विनश्यत्यसन्देहमाहैवमुशना नृपः ॥८१॥ [सं.पा. ५७]

क्षेत्रग्रामवनाद्रिपत्तनपुरीद्वीपक्षमामण्डल
प्रत्याशाधनसूत्रबद्धमनसां लब्धादिकं ध्यायताम् ।
तृष्णे देवि यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत्
तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥८२॥ [प्र. ३५]

अत्युदात्तगणेष्वेषा कृतपुण्यैः प्ररोपिता ।
शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥८३॥ [रा.त. ३.३०४]

अत्युत्सेकेन महसा साहसाध्यवसायिनाम् ।
श्रीरारोहति सन्देहं महतामपि भूभृताम् ॥८४॥ [रा.त. ४.५१७]

ज्ञातुं वपुःपरिमितः क्षमते त्रिलोकीं
जीवः कथं कथय सङ्गतिमन्तरेण ।
शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो
भावान्प्रकाशयितुमप्युदरे गृहस्य ॥८५॥ [?]

अनादरपरो विद्वानीहमानः स्थिरां श्रियम् ।
अग्नेः शेषं ऋणाच्छेषं शत्रोः शेषं न शेषयेत्॥८६॥ [?]

अत्यम्बुपानं कठिनासनं च
धातुक्षयो वेगविधारणं च ।
दिवाशयो जागरणं च रात्रौ
षड्भिर्नराणां निवसन्ति रोगाः ॥८७॥ [विक्रम. २३७]

आश्रिताश्चैव लोकेन समृद्धिं यान्ति विद्विषः ।
समृद्धाश्च विनाशाय तस्मान्नोद्वेजयेत्प्रजाः ॥८८॥ [?]

अत्यन्तचञ्चलस्येह पारदस्य निबन्धने ।
कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥८९॥ [कथा. ३७.२३२]

अतुष्टिदानं कृतपूर्वनाशनं
अमाननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृतिर्
विरक्तभावस्य जनस्य लक्षणम् ॥९०॥ [हि. १.११४]

दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुरजनस्तु पदे पदे ॥९१॥ [बृ.चा. ३.४]

अतीव गुणसम्पन्नो न जातु विनयान्वितः ।
सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ॥९२॥ [म.भा. ५.१४५५]

अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।
तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥९३॥ [म.भा. १.२४४]

धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः ।
तिर्यगीक्षा शुष्कमुखः पापको भ्रुकुटीमुखः ॥९४॥ [हि. १.१२३]

अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन ।
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्॥९५॥ [मनु. ६.४७]

अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् ।
परपीडा च या वृत्तिर्नैव साधुषु विद्यते ॥९६॥ [म.भा. ५.१५२१]

निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता ।
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥९७॥ [?]

अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥९८॥ [मनु १२.१०३]

अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ।
तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत॥९९॥ [मनु ११.२३२]

मा कुरु धनजनयौवनगर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं प्रविशाशु विदित्वा ॥१००॥ [मोहमुद्गर]

अजाखरखुरोत्सर्गमार्जनीरेणुवज्जनैः ।
दीपखट्वोत्थच्छायेव त्यज्यते निर्धनो जनः ॥१०१॥ [पञ्च. २.१०८]

अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥१०२॥ [म.भा. १२.६७५६]

नाकालतो भानुरुपैति योगं
नाकालतोऽस्तं गिरिमभ्युपैति ।
नाकालतो हीयते वर्धते च
चन्द्रः समुद्रोऽपि महोर्मिमाली ॥१०३॥ [म.भा. १२.२६.१२]

अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात।
यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥१०४॥ [मनु. ३.११८]

अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः ।
लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥१०५॥ [म.भा. १.५५६०]

नाकालतो म्रियते जायते वा
नाकालतो व्याहरते च बालः ।
नाकालतो यौवनमभ्युपैति
नाकालतो रोहति बीजमुप्तम् ॥१०६॥ [म.भा. १२.२६.११]

अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ।
तस्मात्तु पुरुषो यत्नाद्धर्मं संचिनुयाच्छनैः ॥१०७॥ [म.भा. ५.१५५०]

अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।
प्रज्ञापौरुषहीनानां जीविकेति बृहस्पतिः ॥१०८॥ [प्र. ३०]

नाकालमत्ताः खगपन्नगाश्च
मृगद्विपाः शैलमृगाश्च लोके ।
नाकालतः स्त्रीषु भवन्ति गर्भा
नायान्त्यकाले शिशिरोष्णवर्षाः ॥१०९॥ [म.भा. १२.२६.१०]

एवमेव कुले जाताः पावकोपमतेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥११०॥ [?]

स एव खलु दारुभ्य यदा निर्मथ्य दीप्यते ।
तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥१११॥ [म.भा. ५.३७.५७]

नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी ।
न चाभिमानी न च हीनवृत्तो रूक्षां वाचमुषतीं वर्जयति ॥११२॥ [म.भा. ५.३६.६]

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥११३॥ [म.भा. ५.१३९४]

अग्निं प्राप्य यथा सद्यस्तूलराशिर्विनश्यति ।
तथा गङ्गाप्रवाहेण सर्वं पापं विनश्यति ॥११४॥ [विक्रम. १८३]

व्याधिभिर्मथ्यमानानां त्यजतां विपुलं धनम् ।
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥११५॥ [म.भा. १२.३१८.३०]

अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति ।
अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत्॥११६॥ [मनु. १०.७१]

अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसङ्क्षयः ।
अभिध्याप्रख्यता चैव सर्वं लोभात्प्रवर्तते ॥११७॥ [म.भा. १२.५८८१]

शमयति गजानन्यान्गन्धद्विपः कलभोऽपि सन्
प्रभूतितरां वेगोदग्रं भुजङ्गशिशोर्विषम् ।
भुवमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं
न खलु वयसा जात्यैवायं स्वकार्यसहो गणः ॥११८॥ [विक्रमोर्वशीय ५.१८]

अक्षमः क्षमतामानी क्रियायां यः प्रवर्तते ।
स हि हास्यास्पदत्वं च लभते प्राणसंशयम् ॥११९॥ [सं. ३९]

अक्रोधेन जयेत्क्रुद्धमसाधुं साधुना जयेत।
जयेत्कदर्थं दानेन जयेत्सत्येन चानृतम् ॥१२०॥ [म.भा. ५.१५१८]

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ।
दाम्भिको दुष्कृतप्राज्ञः शूद्रेण सदृशो भवेत॥१२१॥ [म.भा. ३.२०६.११]

अक्रोधनः क्रोधनेभ्यो विशिष्टस्
तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना
विद्वांस्रथैवाविदुषः प्रधानः ॥१२२॥ [म.भा. १.३५५६]

अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ।
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ॥१२३॥ [म.भा. १२.९९४२]

यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः ।
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥१२४॥ [म.भा. ३.२०६.१२]

अकीर्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥१२५॥ [म.भा. ५.१४८८]

अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वशः ।
अवेक्षमाणस्त्रींल्लोकान्न तुल्यमुपलक्षये ॥१२६॥ [म.भा. १२.६५७०]

सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः
सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा ।
अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो
युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥१२७॥ [दशरूपक ३.१८]

अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि ।
अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह ॥१२८॥ [म.भा. १२.६५६८]

अकाले कृत्यमारब्धं कऋतुं नार्थाय कल्पते ।
तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥१२९॥ [म.भा. १२.५००६]

ह्यः पश्यद्भिरकारणस्मितसितं पाथोजकोशाकृति
श्मश्रूद्बोधकठोरमद्य रभसादुत्तप्तताम्रप्रभम् ।
प्रातर्जीर्णबलक्षकेशविकृतं वृद्धाजशीर्षोपमं
वक्त्रं नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायिभिः ॥१३०॥ [?]

अकालसहमत्यल्पं मूर्खव्यसनिनायकम् ।
अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते ॥१३१॥ [हि. ३.१३५]

अकार्याण्यपि पर्याप्य कृत्वापि वृजिनार्जनम् ।
विधीयते हितं यस्य स देहः कस्य सुस्थिरः ॥१३२॥ [रा.त. ४.३८३]

स्तनतटमिदमुत्तुङ्गं
निम्नो मध्यः समुन्नतं जघनम् ।
विषमे मृगशावाक्ष्या
वपुषि नवे क इव न स्खलति ॥१३३॥

अकार्यकरणाद्भीतः कार्याणां च विवर्जनात।
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत॥१३४॥

अकामान्कामयति यः कामयानान्परित्यजेतस्मै ।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥१३५॥

स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव ।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ॥१३६॥ [काव्या. २.२१७]

अकामां कामयानस्य शरीरमुपतप्यते ।
इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥१३७॥

अकामस्य क्रिया काचिद्दृश्यते नेह कऋहिचित।
यद्यद्धि कुरुते किञ्चित्तत्तत्कामस्य चेष्टितम् ॥१३८॥

प्रथमा गतिरात्मैव द्वितीया गतिरात्मजः ।
सन्तो गतिस्तृतीयोक्ता चतुर्थी धर्मसञ्चयः ॥१३९॥ [रा. २.६२]

अकस्मात्प्रक्रिया नृणामकस्माच्चापकर्षणम् ।
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात॥१४०॥

अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् ।
अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयीत ॥१४१॥

प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।
तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥१४२॥ [म.भा. ५.२४४१]

अद्यैव कुरु यच्छ्रेयो वृद्धः सन्किं करिष्यसि ।
स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥१४३॥

अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥१४४॥

चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् ।
मृगया पानमक्षाश्च ग्राम्ये चैवातिरक्तता ॥१४५॥

अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥१४६॥

अध्रुवेण शरीरेण प्रतिक्षणविनाशिना ।
ध्रुवं यो नार्जयेद्धर्मं स शोच्यो मूढचेतनः ॥१४७॥

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥१४८॥ [म.भा. १२.१६९.२४]

अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असम्भोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ॥१४९॥

अनधिगतमनोरथस्य पूर्वं६
शतगुणितेव गता मम त्रियामा ।
यदि तु तव समागमे तथैव
प्रसरति सुभ्रु ततः कृती भवेयम् ॥१५०॥

मृदुरार्द्रः कृशो भूत्वा शनैः संलीयते रिपुः ।
वल्मीक इव वृक्षस्य पश्चान्मूलानि कृन्तति ॥१५१॥ [ह.वं. ११६८]

अनध्वन्याः काव्येष्वलसगतयः शास्त्रगहनेष्व्
अदुःखज्ञा वाचां परिणतिषु मूकाः परगुणे ।
विदग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये
भवेयुस्ते किं वा परभणितिकण्डूतिनिकषाः ॥१५२॥

अनभ्यासेन विद्यानामसंसर्गेण धीमताम् ।
अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ॥१५३॥

मौढ्येन विपदापन्नं मध्यस्थं सुहृदं तथा ।
शक्त्या ततः समुद्धृत्य हितार्थं भर्त्सयेत्सुधीः ॥१५४॥ [कविता ७६]

अनर्थकं विप्रवासं गृहेभ्यः
पापैः सन्धिं परदाराभिमर्शनम् ।
दैन्यं स्तैन्यं पैशुनं मद्यपानं
न सेवते यश्च सुखी सदैव ॥१५५॥

अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः ।
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥१५६॥

बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु ।
आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः ॥१५७॥

अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥१५८॥

अनातुरोत्कण्ठितयोः प्रसिध्यता
समागमेनापि रतिर्न मां प्रति ।
परस्परप्राप्तिनिराशयोर्वरं
शरीरनाशोऽपि समानुरागयोः ॥१५९॥

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्धि ज्ञानसामर्थ्यं न बालैः समतामियात्॥१६०॥ [म.भा. ३.१४०७९]

अनात्मवान्नयद्वेषी वर्धयन्नरिसम्पदः ।
प्राप्यापि महदैश्वर्यं सह तेन विनश्यति ॥१६१॥

अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत॥१६२॥

न च रात्रौ सुखं शेते ससर्प इव वेश्मनि ।
यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥१६३॥ [म.भा. ५.३८.३७]

अनादेयस्य चादानादादेयस्य च वर्जनात्।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥१६४॥

अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् ।
विनाशयति सम्भूता अयोनिज इवानलः ॥१६५॥

न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥१६६॥ [म.भा. १२.५८.१७]

अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।
मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलम् ॥१६७॥

अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः ।
कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥१६८॥

द्वेषादि वै कृतवतः प्रतिभासतेऽन्यो
मिथ्यैव चित्रमधिको विशदात्मनोऽपि ।
चन्द्रादि पश्यति पुरो द्विगुणं प्रकृत्या
तेजोमयं तिमिरदोषहतं हि चक्षुः ॥१६९॥

अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् ।
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥१७०॥

अनावृतनवद्वारपञ्जरे विहगानिलः ।
यत्तिष्ठति तदाश्चर्यं वियोगे तस्य का कथा ॥१७१॥

परोक्तमात्रं यस्तथ्यं मन्यते बुद्धिवर्जितः ।
हसनीयः परेषां स शाखारूढो जटी यथा ॥१७२॥ [वृ.चा. ४.४९]

अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ।
पथि संगतमेवैतद्भ्राता माता पिता सखा ॥१७३॥

अनिर्वाच्यमनिर्भिन्नमपरिच्छिन्नमव्ययम् ।
ब्रह्मेव सुजनप्रेम दुःखमूलनिकृन्तनम् ॥१७४॥

अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत।
श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥१७५॥

अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोहसंनिभा ।
अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥१७६॥

अनिश्चितैरध्यवसायभीरुभिर्
पदे पदे दोषशतानुदर्शिभिः ।
फलैर्विसंवादमुपागता गिरः
प्रयान्ति लोके परिहासवस्तुताम् ॥१७७॥

मित्रं परित्यजति मुञ्चति बन्धुवर्गं
शीघ्रं विहाय जननीमपि जन्मभूमिम् ।
संसज्य गच्छति विदेशमनिष्टलोकं
वित्ताकुलीकृतमतिः पुरुषोऽविलम्ब्य ॥१७८॥७ [पञ्च. ५.२६]

अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च ।
मानुष्या मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ॥१७९॥

अनीर्ष्युर्गुप्तदारश्च सम्विभागी प्रियंवदः ।
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत॥१८०॥

न पिता नात्मजो नात्मा न माता न सखीजनः ।
इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥१८१॥

अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् ।
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥१८२॥

अनुबन्धानवेक्षेत८ सानुबन्धेषु कर्मसु ।
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत॥१८३॥

सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति माम् ।
पित्èन्समनुजायन्ते नरा मातरमङ्गनाः ॥१८४॥ [रा. २.३५.२८]

अनुयाति न भर्तारं यदि दैवात्कथंचन ।
तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥१८५॥

अनेकचित्तमन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् ।
अनवस्थितचित्तत्वात्कर्ये तैः स उपेक्ष्यते ॥१८६॥

मूढ जहीहि धनागमतृष्णां
कुरु तनुबुद्धिमनःसु वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥१८७॥ [मोहमुद्गर]

अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥१८८॥

अन्तर्ये सततं लुथन्त्यगणितास्तानेव पाथोधरैर्
आत्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।
व्यक्तं मौक्तिकरत्नतां जलकणान्सम्प्रापयत्यम्बुधिः
प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते स्वामिभिः ॥१८९॥

मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् ।
दम्पत्योः कलहो नास्ति तत्रश्रीः स्वयमागता ॥१९०॥ [बृ.चा. ३.२१]

अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्त्यप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्त्ययोः ॥१९१॥

मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः ।
ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम् ॥१९२॥ [म.भा. १.५५५७?]

अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः ।
कस्मान्न लज्जामवहञ् शौचचिन्तां न वा दधुः ॥१९३॥

अन्यो धनं प्रेतगतस्य भुङ्क्ते
वयांसि चाग्निश्च शरीरधातून।
द्वाभ्यामयं सह गच्छत्यमुत्र
पुण्येन पापेन च वेष्ट्यमानः ॥१९४॥

चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा ।
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा श्रियः ॥१९५॥

अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च ।
ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ॥१९६॥

अन्यो हि नाश्नाति कृतं हि कर्म
स एव कर्ता सुखदुःखभागी ।
यत्तेन किञ्चिद्धि कृतं हि कर्म
तदश्नुते नास्ति कृतस्य नाशः ॥१९७॥ [म.भा. ३.१३८६८]

उद्योगेन विना नैव कार्यं किमपि सिध्यति ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥१९८॥

अपकारिणि विस्रम्भं यः करोति नराधमः ।
अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥१९९॥ [ह.वं. ११६३]

लोभादेव नरा मूढा धनविद्यान्विता अपि ।
अकृत्येषु वियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥२००॥ [हि. १.३४]

अन्यो हि नाश्नाति कृतं हि कर्म
स एव कर्ता सुखदुःखभागी ।
यत्तेन किञ्चिद्धि कृतं हि कर्म
तदश्नुते नास्ति कृतस्य नाशः ॥२०१॥ [म.भा. ३.?]

अपहत्य तमस्तीव्रं यथा भात्युदरे रविः ।
तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥२०२॥ [विक्रम. १८१]

अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्रसः ।
भवत्यवश्यं तद्विद्वान्नाश्रयेदशुभात्मकम् ॥२०३॥ [का.नी. ५.८]

सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम् ।
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥२०४॥ [म.भा. १२.७५५?]

अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात।
प्रायेण प्राणिनां भूयो दुःखवेगोऽधिको भवेत॥२०५॥ [पञ्च. २.१७४]

अपि मार्दवभावेन गात्रं संलीय बुद्धिमान।
अरिं नाशयते नित्यं यथा वल्ली महाद्रुमम् ॥२०६॥ [हरि. ११६७]

सुखार्थी नागारिप्रतिभयशमात्प्रत्युत सुखं
जहौ शेषस्तल्पीकृततनु निषेव्यासुररिपुम् ।
यतस्तेनामुष्मिन्नधिगतवता क्लेशसहतां
श्रमाधायि न्यस्तं निरवधि धराभारवहनम् ॥२०७॥ [रा.त. ३.२१५]

अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्मात्पुत्रमुखं दृष्ट्वा भवेत्पश्चाद्धि तापसः ॥२०८॥ [विक्रम. ८५]

अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ॥२०९॥ [म.भा.१२.२८३.५]

सुखदुःखानि भूतानामजरो जरयत्यसौ ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥२१०॥ [म.भा. १२.३१८.७]

अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः ।
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥२११॥ [म.भा. ५]

अप्रसादोऽनधिष्ठानं देयांशहरणं च यत।
कालयापोऽप्रतीकारस्तद्वैराग्यस्य कारणम् ॥२१२॥ [हि. ३.९०]

सुखदुःखे समे स्यातां जन्तूनां क्लेशहेतुके ।
मूर्ध्नि तापिन्केशानां भवेतां स्नेहच्छेदने ॥२१३॥ [दृ.श. ४७]

अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः ।
ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥२१४॥ [रा.त. ३.२८३]

अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥२१५॥ [म.भा. १२]

सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ।
न ह्यनन्तं सुखं कश्चित्प्राप्नोति पुरुषर्षभ ॥२१६॥ [बृ.चा. ४.१३]

अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि ।
असावञ्जनसंकाशस्त्वं तु चामीकरद्युतिः ॥२१७॥ [काव्या. २.१८३]

अभिप्रायं यो विदित्वा तु भर्तुः
सर्वाणि कार्याणि करोत्यतन्द्रीः ।
वक्ता हितानामनुरक्त आर्यः
शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥२१८॥ [म.भा. ५.१३५८]

सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् ।
भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत ॥२१९॥ [म.भा. १२.२७.३०]

वाक्यं तु यो नाद्रियतेऽनुशिष्टः
प्रत्याह यश्चापि नियुज्यमानः ।
प्रज्ञाभिमानी प्रतिकूलवादी
त्याज्यः स तादृक्त्वरयैव भृत्यः ॥२२०॥ [?]

अभिमानवतां पुंसामात्मसारमजानताम् ।
अन्धानामिव दृश्यन्ते पतनान्ताः प्रवृत्तयः ॥२२१॥

सुखमापतितं सेवेद्दुःखमापतितं सहेत।
कालप्राप्तमुपासीत सस्यानामिव कर्षकः ॥२२२॥ [म.भा. ३.२४५.१५]

अभिमानं श्रियं हन्ति पुरुषस्याल्पमेधसः ।
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥२२३॥

अभियुक्तं बलवता दुर्लभं हीनसाधनम् ।
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥२२४॥

सुकरं सर्वथा मैत्रं दुष्करं प्रतिपालनम् ।
अनित्यत्वाद्हि चित्तानां प्रीतिरल्पेन भिद्यते ॥२२५॥

अभियोक्ता बली यस्मादलब्ध्वा न निवर्तते ।
उपहारादृते तस्मात्सन्धिरन्यो न विद्यते ॥२२६॥

अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सद्भिर्निषेवितम् ।
सेवेत सिद्धिमन्विच्छञ् श्लाघ्यं विन्ध्यमिवेश्वरम् ॥२२७॥

यथा शरीरमेवेदं जलबुद्बुदसंनिभम् ।
प्रवातदीपचपलास्तथा कस्य कृते श्रियः ॥२२८॥ [कथा.स. २२.४०]

यथा हि पुरुषः कुर्याच्छरीरे यत्नमुत्तमम् ।
वसनाद्यैरुपायैस्तु तथा राज्ये नराधिपः ॥२२९॥ [सं.पाठोप. ५६]

अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि ।
दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् ॥२३०॥

अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत।
तस्मात्प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः ॥२३१॥

यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् ।
नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥२३२॥ [याज्ञ. ३.१६२]

अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन।
कृपा तस्मिन्न कर्तव्या हन्यादेवापकारिणम् ॥२३३॥

अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः ॥२३४॥

बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च ।
व्यवसायश्च यस्य स्यात्तस्यावृत्ति भयं कुतः ॥२३५॥ [म.भा. ५.३७.३७]

अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥२३६॥

बुद्धिमन्तं कृतप्रज्ञं शुश्रूसुमनसूयकम् ।
दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ॥२३७॥ [म.भा. १२.१६८.३२]

बुद्धिमन्तं च मूढं च शूरं भीरुं जदं कविम् ।
दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥२३८॥ [म.भा. १२.१६८.२२]

बुद्धिरूपगुणायुष्मत्पुत्रान्विद्याविशारदान।
प्राप्नुवन्ति नराः सर्वे सुकृतैः पूर्वजन्मनि ॥२३९॥ [प्रसङ्गा.

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घा जघन्यानि भारप्रत्यवराणि च ॥२४०॥ [म.भा. ५.३५.६५]

दिशो वासः पात्रं करकुहरमेणाः प्रणयिनः
समाधानं निद्रा शयनमवनी मूलमशनम् ।
कदैतत्सम्पूर्णं मम हृदयवृत्तेरभिमतं
भविष्यत्युग्रं परमपरितोषोपचितये ॥२४१॥

तपःसीमा मुक्तिः सकलगुणसीमा वितरणं
कलासीमा काव्यं जननसुखसीमा सुवदना ।
भियः सीमा मृत्युः सुकृतकुलसीमाश्रितभृतिः
क्षुधासीमान्नान्तः श्रुतिमुखसीमा हरिकथा ॥२४२॥ [प्रसङ्गा. १०]

यदा विनाशकालो वै लक्ष्यते दैवनिर्मितः ।
तदा वै विपरीतेषु मनः प्रकुरुते नरः ॥२४३॥ [रा. ३.६२.२०]

व्यालाश्रयापि विकलापि सकण्टकापि
वक्रापि पङ्किलभवापि दुरासदापि ।
गन्धेन बन्धुरसि केतकि सर्वजन्तोर्
एको गुणः खलु निहन्ति समस्तदोषान॥२४४॥ [बृ.चा. १७.२१]

प्रेयांस्तेऽहं त्वमपि च मे प्रेयसीति प्रवादस्
त्वं मे प्राणा अहमपि तवास्मीति हन्त प्रलापः ।
त्वं मे ते स्यामहमपि च यत्तच्च नो साधु राधे
व्याहारे नौ नहि समुचितो युष्मदस्मत्प्रयोगः ॥२४५॥

उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः ।
शत्रुवत्पतितं को नु वन्दते मानवं पुनः ॥२४६॥

उत्पततोऽप्यन्तरिक्षं गच्छतोऽपि महीतलम् ।
धावतः पृथिवीं सर्वां नादत्तमुपतिष्ठति ॥२४७॥

उत्पन्नमापदं यस्तु समाधत्ते स बुद्धिमान।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥२४८॥

उपशमफलाद्विद्याबीजात्फलं धनमिच्छतां
भवति विफलः प्रारम्भो यत्तदत्र किमद्भुतम् ।
नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां
जनयितुमलं शालेर्बीजं न जातु यवाङ्कुरम् ॥२४९॥

एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात॥२५०॥

एकाकी गृहसन्त्यक्तः पाणिपात्रो दिगम्बरः ।
सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ॥२५१॥

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥२५२॥

द्वाविमौ न विराजेते विपरीतेन कर्मणा ।
गृहस्थश्च न्रारम्भः कार्यवांश्चैव भिक्षुकः ॥२५३॥

आहरयति न स्वस्थो विनिद्रो न प्रबुध्यते ।
वक्ति न स्वेच्छया किञ्चित्सेवकोऽपीह जीवति ॥२५४॥

आयस्य तुर्यभागेन व्ययकर्म प्रवर्तयन।
अन्यूनतैलदीपोऽपि चिरं भद्राणि पश्यति ॥२५५॥

आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥२५६॥

आयत्यां च तदात्वे च यत्स्यादास्वादपेशलम् ।
तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत॥२५७॥

एतत्कामफलं लोके यद्द्वयोरेकचित्तता ।
अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥२५८॥

एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सद्गुणः
कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता ।
इत्यादि प्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता
अस्माभिस्तु न दृष्टमत्र जलधौ मिष्टं पयोऽपि क्वचित॥२५९॥

धैर्यं हि कार्यं सततं महद्भिः
कृच्छ्रेऽपि कष्टेऽप्यतिसङ्कटेऽपि ।
कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति
धैर्योच्छ्रिता ये प्रतिपत्तिदक्षाः ॥२६०॥

देहि देहीति जल्पन्ति त्यागिनोऽर्थार्थिनोऽपि च ।
आलोकयन्ति यावत्स्यादस्ति नास्तीति न क्वचित॥२६१॥

एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जामीमहे ॥२६२॥

देवस्याम्बुमुचश्च नास्ति नियमः कोऽप्यानुकूल्यं प्रति
व्यञ्जन्यः प्रियमुत्कटं घटयते जन्तोः क्षणादप्रियम् ।
क्षिप्रं दीर्घनिदाघवासरवियत्सन्तापनिर्वापणां
प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्विसर्गं च सः ॥२६३॥ [सूक्ति. १०५.२]

देवी श्रीर्जनकात्मजा दशमुखस्यासीद्गृहे रक्षसो
नीता चैव रसातलं भगवती वेदत्रयी दानवैः ।
गन्धर्वस्य मदालसां च तनयां पातालकेतुच्छलाद्
दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥२६४॥

किमशक्यं बुद्धिमतां
किमसाध्यं निश्चयं दृढं दधताम् ।
किमशक्यं प्रियवचसां
किमलभ्यंमिहोद्यमस्थानाम् ॥२६५॥

गन्धाप्यसौ भुवनविदिता केतकी स्वर्णवर्णा
पद्मभ्रान्त्या चपलमधुपः पुष्पमध्ये पपात ।
अन्धीभूतः कुसुमरजसा कण्टकैर्लूनपक्षः
स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥२६६॥ [पद्म.सृ. १९]

गवार्थे ब्राह्मणार्थे च स्वाम्यर्थे स्त्रीकृतेऽथवा ।
स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥२६७॥

गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥२६८॥ [विक्र्. ११७]

त्यागो गुणो गुणशताभ्यधिको मतो मे
विद्यापि भूषयति तं यदि किं ब्रवीमि ।
शौर्यं च नाम यदि तत्र नमोऽस्तु तस्मै
तच्च त्रयं न च यदीर्ष्यति चित्रमेतत॥२६९॥

त्याज्यं सुखं विषयसङ्गमजन्म पुंसां
दुःखोपसृष्टमिति मूर्ख विचारणैषा ।
व्रीहीं जिहासति सिस्थिततुण्डलाढ्यान्
को नाम भोस्तुषकणोपहितान्हितार्थी ॥२७०॥

दुर्गं त्रिकूटः परिखा समुद्रो
रक्षांसि योधा धनदाच्च वित्तम् ।
शास्त्रं च यस्योशनसा प्रणीतं
स रावणो दैववशाद्विपन्नः ॥२७१॥ [गरुड.अ. ११३]

कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।
तस्मात्परोक्षवृत्तीनां फलैः कर्म विभावयेत॥२७२॥ [हि. ४.१०६]

किं गजेन प्रभिन्नेन राजकर्माण्यकुर्वता ।
स्थूलोऽपि यदि वास्थूलः श्रेयान्कृत्यकरः पुमान॥२७३॥

किं चन्दनैः सकर्पूरैस्तुहिनैः शीतैश्च किम् ।
सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥२७४॥ [शृ.ति. २.२]

नोपभोक्तुं न च त्यक्तुं शक्नोति विषयान्जरी ।
अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥२७५॥ [हि. १.११३]

नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर
द्वन्द्वं लोचनतां गत न कनकैरप्यङ्गयष्टिः कृता ।
किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥२७६॥ [शृ.श. ४६]

दायादा व्ययभीरुतापरिहृतारब्धेर्भवन्त्युन्नता
भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न कोऽपि प्रियम् ।
राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा
भूभर्तुः क्रियते द्विषेव रभसाल्लोभेन किं नाप्रियम् ॥२७७॥ [रा.त. ५.१९०]

कोकिलोऽहं भवान्काकः समानः कालिमावयोः ।
अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः ॥२७८॥ [सा.द. १०.५९]

क्व स दशरथः स्वर्गे भूत्वा महेन्द्रसुहृद्गतः
क्व स जलनिधेर्वेलां बद्ध्वा नृपः सगरस्तथा ।
क्व स करतलाज्जातो वैण्यः क्व सूर्यतनुर्मनुर्
ननु बलवता कालेनैते प्रबध्य निमीलिताः ॥२७९॥ [पञ्च. ३.२५३]

आदीर्घेण चलेन वक्रगतिना तेजस्विना योगिना
नीलाब्जद्युतिनाहिना वरमहं दृश्यो९ न तच्चक्षुषा ।
दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न चाप्यौषधम् ॥२८०॥ [शृ.श. ५५]

आदौ चित्ते ततः काये सतां संजायते जरा ।
असतां च पुनः काये नैव चित्ते कदाचन ॥२८१॥ [पञ्च. १.१७७]

अत्युक्तिं रहसि गतं विचित्रमत्येन भाषमाणं च ।
उचितप्रणयमपि नृपं सहसार्या नोपसर्पन्ति ॥२८२॥

दुर्जनसङ्गतिरनर्थपरम्पराया
हेतुः सतामधिगतं वचनीयमत्र ।
लङ्केश्वरे हरति दाशरथेः कलत्रं
प्राप्नोति बन्धमघ दक्षिणसिन्धुराजः ॥२८३॥ [विक्रम १९७]

जलौकयोपनीयन्ते प्रमदा मन्दबुद्धिभिः ।
मृगीदृशां जलाकानां विचारान्महदन्तरम् ॥२८४॥ [काशीखण्ड ६.८५]

जलौका केवलं रक्तमाददाना तपस्विनाम् ।
प्रमदा सर्वमादत्ते चित्तं वित्तं बलं सुखम् ॥२८५॥ [काशीखण्ड ६.८६]

कुलं वृत्तं च शौर्यं च समेतन्न गण्यते ।
दुर्वृत्तेऽप्यकुलीनेऽपि जनो दातरि रज्यते ॥२८६॥ [कामं. नी. ५.६०]

दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या ।
कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न समुद्रः ॥२८७॥ [पञ्च ६.८५]

निःश्वासोद्गीर्णहुतभुग्धूमधूम्रीकृताननैः ।
वरमाशीविषैः सङ्गं कुर्यान्न त्वेव दुर्जनैः ॥२८८॥ [का.नी. ३.१८]

किं रुद्धः प्रियया कयाचिदथवा सख्या तयोद्वेजितः
किं वा कारणगौरवं किमपि यन्नाद्यागतो वल्लभः ।
इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं
दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥२८९॥ [शृङ्गारतिलकः १.७५]

कालिदासकविता नवं वयो
माहिषं दधि सशर्करं पयः ।
एणमांसमबला च कोमला
सम्भवन्तु मम जन्मजन्मनि ॥२९०॥ [पद्य.सं. १५]

उपायो न जयो यादृग्रिपोस्तादृङ्न हेतिभिः ।
उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥२९१॥ [?]

आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत।
विजयस्य ह्यनित्यत्वाद्रभसेन न सम्पतेत॥२९२॥ [का.नी. १०.३१]

नैतद्विचित्रं मनुजार्भमायिनः
परावराणां परमस्य वेधसः ।
अघोऽपि यत्स्पर्शनधौतपातकः
प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥२९३॥ [भा.पु. १०.१२.३८]

ये बालभावान्न पठन्ति विद्यां
ये यौवनश्ता ह्यधनात्मदाराः ।
ते शोचनीया इह जीवलोके
मनुष्यरूपेण मृगाश्चरन्ति ॥२९४॥ [विक्रम १२३]

दमेन हीनं न पुनन्ति वेदा
यद्यप्यधीताः सह षड्भिरङ्गैः ।
साङ्ख्यं च योगश्च कुलं च जन्म
तीर्थाभिषेकश्च निरर्थकानि ॥२९५॥ [पद्म.सृष्टि. १९]

कालो दैवं कर्म जीवः स्वभावो
द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्संघातो बीजरोहप्रवाहस्
त्वन्मायैषा तन्निषेधं प्रपद्ये ॥२९६॥

शत्रोरपत्यानि प्रियंवदानि
नोपेक्षितव्यानि बुधैर्मनुष्यैः ।
तान्येव कालेषु विपत्कराणि
विषस्य पात्राण्यपि दारुणानि ॥२९७॥ [बृ.नीति. ११०]

ऋतेन जीवेदनृतेन जीवेन्
मितेन जीवेत्प्रमितेन जीवेत।
सत्यानृताभ्यामथवापि जीवेत्
श्ववृत्तिमेकां परिवर्जयेत्तु ॥२९८॥ [?]

अक्रोधनः क्रोधनेभ्यो विशिष्टस्
तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना
विद्वांस्तथैवाविदुषः प्रधानः ॥२९९॥ [म.भा. १.८२.६]

नास्तीदृशं संवननं त्रिषु लोकेषु किञ्चन ।
यथा मैत्री च लोकेषु दानं च मधुरा च वाक॥३००॥ [मत्स्य.अ. ३६]
न तथा तप्यते विद्धः पुमान्बाणैस्तु मर्मगैः ।
यथा तुदन्ति मर्मस्था ह्यसतां परुषेषवः ॥३०१॥ [भा.पु. ११.२३.३]

शूरत्वयुक्ता मृदुमन्दवाक्या
जितेन्द्रियाः सत्यपराक्रमाश्च ।
प्रागेव पश्चाद्विपरीतरूपा
ये ते तु भृत्या न हिता भवन्ति ॥३०२॥ [?]

यस्यात्मबुद्धिः कुणपे त्रिधातुके
स्वधीः कलत्रादिषु भौम इज्यधीः ।
यत्तीर्थबुद्धिः सलिले न कर्हिचिज्
जनेष्वभिज्ञेषु स एव गोखरः ॥३०३॥ [भा.पु. १०.८४.१३]

कं योजयेन्मनुजोऽर्थं लभेत
निपातयन्नष्टदशं हि गर्ते ।
एवं नराणां विषयस्पृहा च
निपातयन्निरये त्वन्धकूपे ॥३०४॥ [?]

तान्वीक्ष्य कृष्णः सकलाभयप्रदो
ह्यनन्यनाथान्स्वकरादवच्युतान।
दीनांश्च मृत्योर्जठराग्निघासान्
घृणार्दितो दिष्टकृतेन विस्मितः ॥३०५॥ [भा.पु. १०.१२.२७]

लोकः स्वयं श्रेयसि नष्टदृष्टिर्
योऽर्थान्समीहेत निकामकामः ।
अन्योन्यवैरः सुखलेशहेतोर्
अनन्तदुःखं च न वेद मूढः ॥३०६॥ [भा.पु. ५.५.१६]

सत्यां क्षितौ किं कशिपोः प्रयासैर्
बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ।
सत्यञ्जलौ किं पुरुधान्नपात्र्या
दिग्वल्कलादौ सति किं दुकूलैः ॥३०७॥ [भा.पु. २.२.४]

भूतैराक्र्मयमाणोऽपि धीरो दैववशानुगैः ।
तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् ॥३०८॥ [भा.पु. ११.७.३७]

प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः ।
ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥३०९॥ [भा.पु. ११.७.३९]

गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति ।
न तेषु युज्यते योगी गोभिर्गा इव गोपतिःच॥३१०॥ [भा.पु. ११.७.५०]

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं
स्पृशत्यनर्थापगमो यदर्थः ।
महीयसां पादरजोऽभिषेकं
निष्किञ्चनानां न वृणीत यावत॥३११॥ [भा.पु. ७.५.३२]

नवनीतोपमा वाणी करुणाकोमलं मनः ।
धर्मबीजप्रसूतानामेतत्प्रत्यक्षलक्षणम् ॥३१२॥ [सूक्ति १३०.२]

कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥३१३॥

किं जीवितेन धनमानविवर्जितेन
मित्रेण किं भवति भीतिसशङ्कितेन ।
सिंहव्रतं चरत गच्छत मा विषादं
काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥३१४॥

तन्मङ्गलं यत्र मनः प्रसन्नं
तज्जीवनं यन्न परस्य सेवा ।
तद्गर्जितं यत्स्वजनेन भुक्तं
तद्वर्जितं यत्समरे रिपूणाम् ॥३१५॥ [?]

वेदादिशास्त्रमखिलं प्रपठन्तु लोकाः
कुर्वन्तु नाम क्षितिपालसेवाम् ।
उग्रं तपः प्रतिदिवं प्रतिसाधयन्तु
न श्रीस्तथापि च भजत्यतिभाग्यहीनम् ॥३१६॥ [प.पु. ७.५.१५६]

त्यक्त्वालसान्दैवपरान्मनुष्यान्
उत्थानयुक्तान्पुरुषाद्धि लक्ष्मीः ।
अन्विष्य यत्नाद्वृणुयान्नृपेन्द्र
त्स्मात्सदोत्थानवता हि भाव्यम् ॥३१७॥ [?]

नित्यं छेदस्तृणानां धरणिविलिल्खनं पादयोश्चापमार्ष्टिर्
दन्तानामल्पशौचं मलिनवसनता रूक्षता मूर्धजानाम् ।
द्वैसन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः
स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्ष्मीम् ॥३१८॥ [अष्टरत्न ३]

कुचैलिनं दन्तमलोपधारिणं
बह्वाशिनं निष्ठुरभाषिणं च ।
सूर्योदये चास्तमिते शयानं
विमुञ्चति श्रीर्यदि चक्रपाणिः ॥३१९॥ [बृ.चा. १५.४]

तद्वीर्यादधिकं यस्तु पुनरन्यत्स्वशक्तितः ।
निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम् ॥३२०॥ [?]

भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा
दानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णजीर्णवसनैरास्यूतकन्थाधरो
निर्मानो निरहङ्कृतिः शमसुधाभोगैकबद्धस्पृहः ॥३२१॥ [?]

रोहते सायकैर्विद्धं छिन्नं रोहति चासिना ।
वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्क्षतम् ॥३२२॥ [पञ्च. ३.१११]

शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः
सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोमलैः ।
येसां निर्झरमम्बुपानमुचितं रत्यै तु विद्याङ्गना
मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ॥३२३॥ [वै.श. ८७]

स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये ।
सुहृदि निरन्तरचित्ते निवेद्य दुःखं सुखी भवति ॥३२४॥ [पञ्च. १.२२०]

ताम्बूलं कटुतिक्तमिश्रमधुरं क्षारं कषायान्वितं
वातघ्नं कफनाशनं कृमिहरं दौर्गन्ध्यदोषापहम् ।
वक्त्रस्याभरणं मलापहरणं कामाग्निसन्दीपनं
ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽप्यमी दुर्लभाः ॥३२५॥ [शा.प. १४१६]

यः पित्रा समुपात्तानि धनवीर्ययशांसि वै ।
न्यूनतां नयति प्राज्ञस्तमाहुः पुरुषाधमम् ॥३२६॥ [मार्क.पु. २१.९५]

भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्
तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।
आशापाशशतापशान्तिविशदं चेतःसमाधीयतां
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥३२७॥ [वै.श. ३९]

लज्जां गुणौघजननीं जननीमिव स्वां
अत्यन्तशुद्धहृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥३२८॥ [भर्तृ.सं ३१८]

शीघ्रकृत्येषु कार्येषु विलम्बयति यो नरः ।
तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥३२९॥ [पञ्च. ३.२१८]

आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी सार्थतः पुमान॥३३०॥ [?]

दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेशसहिष्णुता ।
सन्तोषः शीलमुत्साहो मण्डयन्त्यनुजीविनम् ॥३३१॥

यदुपात्तं यशः पित्रा धनं वीर्यमथापि वा ।
तन्न हापयते यस्तु स नरो मध्यमः स्मृतः ॥३३२॥

प्रियमेवाभिधातव्यं नित्यं सत्सु द्विषत्सु च ।
शिखीव केकामधुरः प्रियवाक्कस्य न प्रियः ॥३३३॥

राज्ञो विपद्बन्धुवियोगदुःखं
देशच्युतिर्दुर्गममार्गखेदः ।
आस्वाद्यतेऽस्याः कटु निष्फलायाः
फलं मयैतच्चिरजीवितायाः ॥३३४॥ [दशरूपक]

वीतव्यसनमश्रान्तं महोत्साहं महामतिम् ।
प्रविशन्ति सदा लक्ष्म्यः सरित्पतिमिवापगाः ॥३३५॥

स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥३३६॥

के वा न सन्ति तामरसावतंसा
हंसावलीवलयिनो जलसंनिवेशाः ।
किं चातकः फलमपेक्ष्य सवज्रपातां
पौरन्दरीमुपगतो नववारिधाराम् ॥३३७॥

मानमुद्वहतः पुंसो वरमापत्पदे पदे ।
मानहीनं सुरैह्सार्धं विमानमपि सन्त्यजेत॥३३८॥ [भर्तृ.सं. ६४८]

पुनर्दाराः पुनर्वित्तं पुनर्क्षेत्रं पुनः पुनः ।
पुनः शुभाशुभं कर्म शरीरं न पुनः पुनः ॥३३९॥ [बृ.चा. १४.३]१०

रथः शरीरं पुरुषस्य राजन्न्
आत्मा नियन्तेन्द्रियान्यस्य चाश्वाः ।
तैरप्रमत्तः कुशली सदश्वैर्
दान्तैः सुखं याति रथीव धीरः ॥३४०॥ [म.भा. ५.३४.५७]

विधात्रा रचिता रेखा ललाटेऽक्षरमालिका ।
न तां मार्जयितुं शक्तः स्वबुद्ध्याप्यतिपण्डितः ॥३४१॥ [पञ्च. २.१८०]

सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सर्वेषु च११ तथ्यमेतत।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखस्य हेतुर्न च कश्चिदन्यः ॥३४२॥ [शृ.श. ४०]

एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा
तं मोहाच्छ्रयते मदः स च मदाद्दास्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥३४३॥

सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा ।
कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् ॥३४४॥ [महानिर्वाणतन्त्र २१]

परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।
यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ॥३४५॥ [म.भा. ५.३३.३६]

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत।
सन्निमित्तं वरं त्यागो विनाशे नियते सति ॥३४६॥

संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः ।
स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥३४७॥ [म.भा. ५.३७.४७]

परिचरितव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् ।
यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥३४८॥

श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते ।
दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥३४९॥ [म.भा. ५.३५.४४]

पञ्चभिः सम्भृतः कायो यदि पञ्चत्वमागतः ।
कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥३५०॥ [हि. ४.७७]१२

धनहेतोर्य ईहते तस्यानीहा गरीयसी ।
भूयान्दोषो हि वित्तस्य यश्च धर्मस्तदाश्रयः ॥३५१॥

वाचां शौचं च मनसः शौचमिन्द्रियनिग्रहः ।
सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् ॥३५२॥ [बृ.चा. ७.२०]

हृष्यन्ति देवताः सर्वा गयन्ति ऋषयस्तथा ।
नृत्यन्ति पितरः सर्वे ह्यतिथौ गृहमागते ॥३५३॥ [चा.नी.सा. ५१]

दुर्वृत्तं वा सुवृत्तं वा सर्वपापरतं तथा ।
भर्तारं तारयत्येव भार्या धर्मेषु निष्ठिता ॥३५४॥

न भिक्षा दुष्प्रापा पथि मम महारामचरिते
फलैः सम्पूर्णा भूरपि मृगसुचर्मापि वसनम् ।
सुखैर्वा दुःखैर्वा सदृशपरिपाकः खलु सदा
त्रिनेत्रं कस्त्यक्त्वा धनलवमदान्धं प्रणमति ॥३५५॥ [भर्तृ.सं.]

यद्यपि भ्रातरः क्रुद्धा मार्या वा कारणान्तरे ।
स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः ॥३५६॥ [म.भा. १२.१३६.१४७]

ललाटदेशे रुधिरं स्रवत्तु
शूरस्य यस्य प्रविशेच्च वक्त्रे ।
तत्सोमपानेन समं भवेच्च
सङ्ग्रामयज्ञे विधिवत्प्रदिष्टम् ॥३५७]॥ [पञ्च. १.३३४]

मीनः स्नानपरः फणी पवनभुङ्मेषश्च पर्णाशनो
गर्ते तिष्ठति मूषिकोऽपि विनिप्ने सिंहो बको ध्यानवान।
शश्वद्भ्राम्यति चक्रिगौः परिचरन्दैवः सदा देवलः
किं तेषां फलं स्ति तेन तपसा तद्भावशुद्धिं कुरु ॥३५८॥ [कविता. ६०]

बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्राह्मविद्बली ।
रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥३५९॥ [बृ.चा. ६.११]

नश्यतो युध्यतो वापि तावद्भवति जीवितम् ।
यावद्धातासृजत्पूर्वं न यावन्मनसेप्सितम् ॥३६०॥ [मार्कण्डेयपु. २.४९]
 
पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते ।
जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥३६१॥ [मनु. ९.८]

दग्धं दग्धं त्यजति न पुनः काञ्चनं कान्तिवर्णं
छिन्नं छिन्नं त्यजति न पुनः स्वादुताभिक्षुदण्डम् ।
घृष्टं घृष्टं त्यजति न पुनश्चन्दनं चारुगन्धं
प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥३६२॥ [म.ना. २६२]

नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः ।
येषां भुवनलाभेऽपि निःसीमानो मनोरथाः ॥३६३॥

छादयित्वात्मभावं हि चला हि शठबुद्धयः ।
प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान्भवेत॥३६४॥ [प्र.भ. २३]

नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् ।
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ॥३६५॥ [म.भा. १२.१७०.२२]

तर्षच्छेदो न भवति पुरुषस्येह कल्मषात।
निवर्तते तदा तर्षः पापमन्तगतं यदा ॥३६६॥ [?]

दिवसे सन्निधानेन पिशुनप्रेरणा प्रभो ।
ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्यते ॥३६७॥ [?]

कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः ।
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥३६८॥ [?]

कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि ।
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥३६९॥ [?]

उर्वीपतेश्च स्फटिकाश्मनश्च
शीलोज्झितस्त्रीहृदस्य चान्तः ।
असंनिधानात्सततस्थितीनाम्
अन्योपरागः कुरुते प्रवेशम् ॥३७०॥

आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया ।
स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात॥३७१॥

कृतिनोऽपि प्रतीक्ष्यन्ते सहायं कार्यसिद्धये ।
चक्षुष्मानपि नालोकाद्विना वस्तु न पश्यति ॥३७२॥

किं देवकार्याणि नराधिपस्य कृत्वा विरोधं विषयस्थितानाम् ।
तद्देवकार्यं जपयज्ञहोमा यस्याश्रुपाता न पतन्ति राष्ट्रे ॥३७३॥

देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् ।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥३७४॥

राजन्रजन्युपाध्यायो देवी यच्छिक्षयेद्रुहः ।
तत्र प्रजागरः कर्तुमसर्वज्ञैर्न शक्यते ॥३७५॥ [रा.त. ५.३१७]

किं ते धनैर्बान्धवैर्वापि किं ते
किं ते दारैर्ब्राह्मण यो मरिष्यति ।
आत्मानमन्विच्छ गुहां प्रविष्टं
पितामहस्ते क्व गतः पिता च ॥३७६॥ [म.भा.१२.१६९.३६]

न व्याधयो नापि यमः श्रेयः प्राप्तिं प्रतीक्षते ।
यावदेव भवेत्कल्पस्तावच्छ्रेयो समाचरेत॥३७७॥ [म.भा. २.५१.९३]

न व्याधिर्न विषं तापस्तथान्यद्वापि भूतले ।
दुःखाय स्वशरीरोत्थं मौर्ख्यमेतद्यथा नृणाम् ॥३७८॥ [यो.वा.सा. २.२७]

सुखाद्बहुतरं दुःखं जीविते नात्र संशयः ।
स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥३७९॥ [म.भा. १२.३१७.१६]

सामुद्रास्तिमयो नृपाश्च सदृशा एके हृतानम्भसः
स्वस्मादेव कणान्धनस्य जहतो जानन्ति ये दातृताम् ।
सर्वस्मात्स्फुटलुण्ठिताद्वितरतो लेशान्किलान्येऽपि ये
दुष्कायस्थकुलस्य हन्त कलयन्त्यन्तर्हिताधायिताम् ॥३८०॥ [रा.त. ४.६२९]

सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वमिह स्पृशन्ति
तस्माद्धीरो नैव हृष्येन्न शोचेत॥३८१॥ [म.भा. ५.३६.४५]

कृषिका रूपनाशाय अर्थनाशाय वाजिनः ।
शालको गृहनाशाय सर्वनाशाय पावकः ॥३८२॥ [?]

एको बहूनां मूर्खाणां मध्ये निपतितो बुधः ।
पद्मः पाथस्तरङ्गाणामिव विप्लवते ध्रुवम् ॥३८३॥

निजानुत्पततः शत्रून्पञ्च पञ्च प्रयोजनान।
यो मोहान्न निघृह्णाति तमापद्ग्रसते नरम् ॥३८४॥ [म.भा. ५.३४.६८]

ज्ञानं सतां मानमदादिनाशनं
केषाञ्चिदेतन्मदमानकारणम् ।
स्थानं विविक्तं यमिनां विमुक्तये
कामातुराणामतिकामकारणम् ॥३८५॥

तद्भोजनं यद्द्विजभुक्तशेषं
तत्सौहृदं यत्क्रियते परस्मिन।
सा प्राज्ञता या न करोति पापं
दम्भं विना यः क्रियते स धर्मः ॥३८६॥ [बृ.चा. १५.८]

धर्मात्पैजवनो राजा चिराय बुभुजे भुवम् ।
अधर्माच्चैव नहुषः प्रतिपेदे रसातलम् ॥३८७॥ [का.नी. १.१४]

दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या ।
कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न समुद्रः ॥३८७*॥ [पञ्च. २.७१]

कः स्वभावगभीराणां लक्षयेद्बहिरापदम् ।
बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥३८८॥ [रा.त. १.२३०]

नास्ति धर्मसमो बन्धुर्नास्ति धर्मसमा क्रिया ।
नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् ॥३८९॥ [प्रसङ्गा. १२]

नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् ।
न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ॥३९०॥ [म.भा. १.६९.२४]

एष ते विद्रुमच्छायो मरुमार्ग इवाधरः ।
कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥३९१॥ [कुव. १६७]

नावज्ञया१३ न दातव्यं कस्यचिल्लीलयापि वा ।
अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥३९२॥ [रा. १.१२.३१]

एकीभूय स्फुटमिव किमप्याचरद्भिः प्रलीनैर्
एभिर्भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः ।
तस्मादेषां त्यज परिचयं चिन्तय स्वव्यवस्थाम्
आभाषस्ते किमु न विदितः खण्डितः पण्डितः स्यात॥३९३॥ [शान्ति. ३.८१]

नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः ।
अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत॥३९४॥ [?]

जलाहतौ विशेषेण वैद्युताग्नेरिव द्युतिः ।
आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ॥३९५॥ [कथा.स. १२.४१]

नाभूति काले च फलं ददाति
शिल्पं न मन्त्राश्च तथौषधानि ।
तान्येव कालेन समाहितानि
सिध्यन्ति चेध्यन्ति च भूतकाले ॥३९६॥ [म.भा. १२.२६०.७]

देशकालविहीनानि कर्माणि विपरीतवत।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥३९७॥ [रा. ६.६३.६]

ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥३९८॥ [म.भा. ५.३४.५१]

कुलोद्गतं सत्यमुदारविक्रमं
स्थिरं कृतज्ञं धृतिमन्तमूर्जितम् ।
अतीव दातारमुपेतवत्सलं
सुदुष्प्रसाध्यं प्रवदन्ति विद्विषाम् ॥३९९॥ [का.नी. १०.३८]

ऐश्वर्यात्सह सम्बन्धं न कुर्याच्च कदाचन ।
गते च गौरवं नास्ति आगते च धनक्षयः ॥४००॥

कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥४०१॥ [नैषधीय १०.१?]

नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः ।
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥४०२॥ [म.भा. २.५१.७]

एष स्वभावो नारीणामनुभूय पुरा सुखम् ।
अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥४०३॥

धनेन वाससा प्रेम्णा श्रद्धयामृतभाषणैः ।
सततं तोषयेद्दारान्नाप्रियं क्वचिदाचरेत॥४०४॥ [दं.श. ४४]

का ते कान्ता कस्ते पुत्रः
सम्सारोऽयमतीवविचित्रः ।
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भारत ॥४०५॥ [मोहमुद्गर ८]

ते चापि निपुना वैद्याः कुशलाः संभृतौषधाः ।
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ॥४०६॥ [म.भा. १२.३१८.३१]

काले सहिष्णुर्गिरिवदसहिष्णुश्च वह्निवत।
स्कन्धेनापि वहेच्छत्रून्प्रियाणि समुदाहरन॥४०७॥ [का.नी. १०.३६]

ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् ।
अबलाविरहक्लेशविह्वलो गणयत्ययम् ॥४०८॥

पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।
एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥४०९॥ [बृ.चा. १४.३]

कश्चिदाम्रवणं छित्त्वा पलाशांश्च निपिञ्चति ।
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥४१०॥ [रा. २.५७.६]

देवो राजा गुरुर्भार्या वैद्यनक्षत्रपाठकाः ।
रिक्तहस्ता न गच्छन्ति गते कार्यं न सिध्यति ॥४११॥ [?]

त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा ।
कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम् ॥४१२॥ [काव्या. २.१९०]

परोऽप्यपत्यं हितकृद्यथौषधं
स्वदेहजोऽप्यामयवत्सुतोऽहितः ।
छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं
शेषं सुखं जीवति यद्विवर्जनात॥४१३॥ [भा.पु. ७.५.३७]

कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति ।
शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥४१४॥ [मृच्छकटिका ५.३४]

पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः ।
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥४१५॥ [म.भा. १३.२७.२९]

तरुणिमसमारम्भे तस्याः शरीरसरोवरं
सरभसमनोहंस श्रीमन्प्रयासि कथं पुनः ।
श्रवणलतिकापाशौ पार्श्वे प्रसारितपातितौ
हतविधिवशाद्बन्धायान्धो न पश्यति किं भवान॥४१६॥ [नीति.सं. ७७]

पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषाद्
आबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे ।
गेहं मे छेदयन्ति पर्तिदिवसमुमाकान्तपूजानिमित्तं
तस्मात्खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि ॥४१७॥ [बृ.चा. १५.१६]

दूर्वाया भूषणं पत्रं वृक्षाणां भूषणं सुमम् ।
स्ववृत्तिर्भूषणं पुंसां नारीणां भूषणं पतिः ॥४१८॥ [चा. २४]

कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।
छन्नं सन्तिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥४१९॥ [?]

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥४२०॥ [म.भा. ५.३५.६३]

धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।
विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥४२१॥ [बृ.चा. १०.१]

परकाव्येन कवयः परद्रव्येण चेश्वराः ।
निर्लोठितेन स्वकृतिं पुष्णन्त्यद्यतने क्षणे ॥४२२॥ [रा.त. ५.१५९]

धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम् ।
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् ॥४२३॥ [म.भा. १२.१७१.३४]

तीर्थसेवनमौनभागपि तिमिः सक्तः स्वकुल्याशने
वाताशान्ग्रसते शिखी धनपयोमात्राशनोऽप्यन्वहम् ।
विश्वस्ताञ्जलचारिणः प्रकटितध्यानोऽपि भुङ्क्ते बकः
सत्कर्माचरणेऽपि दोषविकृतौ न प्रत्ययः पापिनाम् ॥४२४॥ [रा.त. ६.३०९]

कृतविद्योऽपि बलिना व्यक्तं रागेण रज्यते ।
रागानुरक्तचित्तस्तु किं न कुर्यादसाम्प्रतम् ॥४२५॥ [का.नी. ४.४६]

त्वया नीलोत्पलं कर्णेत्स्मरेणास्त्रं शरासवे ।
मयापि मरणे चेतस्त्रयमेतत्समं कृतम् ॥४२६॥ [काव्या. २.१०६]

धनक्षयः शिष्टगर्हा
॥४२७॥ [प्र.भ. १७]

त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया ।
पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥४२८॥ [हि. २.१२३]

निर्दहति कुलशेषं
॥४२९॥ [प्रसङ्गा. ८२]

पयोमुचः परीतापं
॥४३०॥ [काव्या. २.१७३]

त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत।
त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत॥४३१॥ [बृ.चा. ४.१६]

त्यजेत संचयांस्तस्मात्तज्जं क्लेशं सहेत कः ।
न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः ॥४३२॥ [म.भा. ३.२.४६]

नौका च खलजिह्वा
॥४३३॥ [शा.प. दुर्जन. १८]

तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।
न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः ॥४३४॥ [म.भा. १२.११२.६२]

नोपभोगो न वा दानं
॥४३५॥ [काव्या. २.३२६]

द्वावेव कथितौ सद्भिः पन्थानौ वदतां वर ।
अहिंसा चैव सत्यं च यत्र धर्मः प्रतिष्ठितः ॥४३६॥ [रा. २.६१.१७]

त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत।
त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत॥४३७॥ [बृ.चा. ४.१६]

निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।
असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥४३८॥ [बृ.चा. ८.१६]

दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता ।
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥४३९॥ [म.भा. १२.७२.१९]

मितं भुङ्क्ते संविभज्याश्रितेभ्यो
मितं स्वपित्यमितं कर्म कृत्वा ।
ददात्यमित्रेष्वपि याचितः संस्
तमात्मवन्तं प्रजहात्यनर्थाः ॥४४०॥ [म.भा. ५.३३.९९]

यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।
न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ॥४४१॥ [म.भा. ५.९०.१२]

भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे ।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥४४२॥ [म.भा. १२.१३७.५२]

मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः ।
भिद्यते वाक्यशल्येन अदृशं कण्टकं यथा ॥४४३॥ [बृ.चा. ३.७]

यत्रोदकं तत्र वसन्ति हंसास्
तथैव शुष्कं परिवर्जयन्ति ।
न हंसतुल्येन नरेण भाव्यं
पुनस्त्यजन्तः पुनराश्रयन्ते ॥४४४॥ [बृ.चा. ७.१३]

भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेनेह जीवति ॥४४५॥ [म.भा. ३.२००.१०]

मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः ।
देवामामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥४४६॥ [म.भा. १२.१६९.२३]

यः सर्वकालमबुधैः परिहस्यमानो
मूलाङ्कुराद्यपि न जातु पुरस्करोति ।
व्यापत्सु शास्त्रविटपी स फलं प्रसूय पुंसः
किलैकपद एव लुनात्यलक्ष्मीम् ॥४४७॥ [रा.त. ४.५२९]

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत।
चिन्त्यात्मानं हि न व्येति भूयश्चापि विवर्धते ॥४४८॥१४ [म.भा. ११.२.१७]

पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत।
माला कार इवारामे न यथाङ्गार कारकः ॥४४९॥ [म.भा. ५.३४.१८]

भक्तद्वेषो जडे प्रीतिः सुरुचिर्गुरुलङ्घने ।
मुखे कटुकता नित्यं धनिनां ज्वरिणामिव ॥४५०॥ [?]

यत्सङ्ग्रहो रत्नमहौषधीनां
करोति सर्वव्यसनावसानम् ।
त्यागेन तद्यस्य भवेन्नमोऽस्तु
चित्रप्रभावाय धनाय तस्मै ॥४५१॥ [शा.प. २४२, रा.त. ६.२२७]

उपकारं करोम्यस्य ममाप्येष करिष्यति ।
अयं चापि प्रतीकारो रामसुग्रीवयोरिव ॥४५२॥ [का.नी. ९.१०]

महाबलान्पश्य महानुभावान्
प्रशास्य भूमिं धनधान्यपूर्णाम् ।
राज्यानि हित्वा विपुलांश्च भोगान्
गतान्नरेन्द्रान्वशमन्तकस्य ॥४५३॥ [म.भा. ५.४०.१३]

यथा खरश्चन्दनभारवाही
भारस्य वेत्ता न तु चन्दनस्य ।
एवं हि शास्त्राणि बहून्यधीत्य
चार्थेषु मूढाः खरवद्वहन्ति ॥४५४॥ [सुश्रु. १.१३]

फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते ।
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥४५५॥

यदा विनाशो भूतानां दृश्यते कालचोदितः ।
तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥४५६॥ [रा. ३.६२.२०]

प्रिया वा मधुरा वा तु स्वाम्येष्वेव विराजते ।
श्रीरक्षणे प्रमाणं तु वाचः सुनयकर्कशाः ॥४५७॥

महादेवो देवः सरिदपि च सैवामरसरिद्
गुहा एवागारं वसनमपि ता एव हरितः ।
सुहृद्वा कालोऽयं व्रतमिदमदैन्यव्रतमिदं
कियद्वा वक्ष्यामो बटविटप एवास्तु दयिता ॥४५८॥ [भर्तृ.सं. २९९]
 यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति ।
तथा कर्म क्षयाद्दैवं प्रम्लानिमुपगच्छति ॥४५९॥ [म.भा १३.६.४४]

प्राप्य कार्यं गरीयस्तु प्रियमुत्सृज्य दूरतः ।
हितमेव हि वक्तव्यं सुहृदा मन्त्रिणा सदा ॥४६०॥

मत्या परीक्ष्य मेधावी बुद्ध्या सम्पद्य चासकृत।
श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत॥४६१॥ [म.भा. ५.?]

यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् ।
तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते ॥४६२॥ [म.भा. ११.२.२३]

भर्तारं किल या नारी छायेवानुगता सदा ।
अनुगच्छति गच्छन्तं तिष्ठन्तं चानुतिष्ठति ॥४६३॥ [रा. २.२९.२०]

महान्तमप्यर्थमधर्मयुक्तं
यः संत्यजत्यनुपाक्रुष्ट एव ।
सुखं स दुःखान्यवमुच्य शेते
जीर्णां त्वचं सर्प इवावमुच्य ॥४६४॥ [म.भा. ५.४०.२]
 
यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥४६५॥ [बृ.चा. १५.२]

मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः ।
हरन्ति न तथा वाचो यथा साधुविपश्चिताम् ॥४६६॥ [म.भा. ५.१४८४?]

प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा ।
सर्वः कालवशं याति शुभाशुभसमन्वितः ॥४६७॥

यदा शरीरस्य शरीरिणश्च
पृथक्त्वमेकान्तत एव भावि ।
आहार्ययोगेन वियुज्यमानः
परेण को नाम भवेद्विषादी ॥४६८॥ [शाकुं. ९४]

मधुरेण दृशां मानं मधुरेण सुगन्धिना ।
सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥४६९॥ [काव्या. ३२०]

तद्भावभावनिरता तत्संयोगपरायणा ।
तमेव भूयो भर्तारं सा प्रेत्याप्यनुगच्छति ॥४७०॥

मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः ।
मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत॥४७१॥ [बृ.चा. ४.६]

प्राकृतो हि प्रशंसन्वा निन्दित्वा किं करिष्यति ।
वने काक इवाबुद्धिर्वाशमानो निरर्थकम् ॥४७२॥

यस्मिन्यथा वर्तते यो मनुष्यस्
तस्मिंस्तथा वर्तितव्यं स धर्मः ।
मायाचारो मायया वर्तितव्यः
साध्वाचारः साधुना प्रत्युदेयः ॥४७३॥ [म.भा. ५.३७.७]

मयास्योपकृतं पूर्वं ममाप्येष करिष्यति ।
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥४७४॥ [कामं. नीति. ९.१०]

युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः ।
साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ॥४७५॥ [बृ.चा. १३.२१]

भवने सुहृदो यस्य समागच्छन्ति नित्यशः ।
चित्ते च तस्य सौख्यस्य न किञ्चित्प्रतिमं सुखम् ॥४७६॥ [पञ्च. २.१७]

वणिक्प्रमादी भृतकश्च मानी
भिक्षुर्विलासी ह्यधनश्च कामी ।
वराङ्गना चाप्रियवादिनी च
न ते च कर्माणि समारभन्ते ॥४७७॥ [शौनकीनीति ११५]

यस्मिन्यदा पुष्करनाभमायया
दुरन्तया स्पृष्टधियः पृथग्दृशः ।
कुर्वन्ति तत्र ह्यनुकम्पया कृपां
न साधवो दैवबलात्कृते क्रमम् ॥४७८॥ [भा.पु. ४.६.४८]

कान्तावियोगः स्वजनापमानं
ऋणस्य शेषं कुनृपस्य सेवा ।
दारिद्र्यभावाद्विमुखं च मित्रं
विनाग्निना पञ्च दहन्ति कायम् ॥४७९॥

यदा न योगोपचितासु चेतो
मायासु मिद्धस्य विषज्जतेऽङ्ग ।
अनन्यहेतुष्वथ मे गतिः स्याद्
आत्यन्तिको यत्र न मृत्युहासः ॥४८०॥

गृहेश्वरी सद्गुणभूषितां शुभां
पङ्ग्वन्धयोगेन पतिं समेताम् ।
न लालयेत्पूरयेन्नैव कामं
स किं पुमान्न पुमान्मे मृतोऽस्ति ॥४८१॥

योषिद्धिरण्याभरणाम्बरादि
द्रव्येषु मायारचितेषु मूढः ।
प्रलोभितात्मा ह्युपभोगबुद्ध्या
पतङ्गवन्नश्यति नष्टदृष्टिः ॥४८२॥ [भा.पु. ११.८.८]

एकान्तशीलस्य दृढव्रतस्य
सर्वेन्द्रियप्रीतिनिवर्तकस्य ।
अध्यात्मयोगे गतमानसस्य
मोक्षो ध्रुवं नित्यमहिंसकस्य ॥४८३॥

न शब्दशास्त्रेण निरतस्य मोक्षो
न वर्णसङ्गे निरतस्य चैव ।
न भोजनाच्छादनतत्परस्य
न लोकचित्तग्रहणे रतस्य ॥४८४॥ [पद्म.सृ. १९]

बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि ।
आयुष्कामो न सेवेत तथा संमार्जनी रजः ॥४८५॥ [गरुड.पु. १०८]

नाश्नन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः ।
मा . . . . नाश्नन्ति यस्य चोपपतिर्गृहे ॥४८६॥ [गरुड.पु. १०८]

सङ्गं त्यजेत मिथुनव्रतिनां मुमुक्षुः
सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि ।
एकश्चरन्रहसि चित्तमनन्त ईशे
युञ्जीत तद्व्रतिषु साधुषु चेत्प्रसङ्गः ॥४८७॥ [शौनकी ३०]

धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं
पृथ्वी बन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः ।
मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नता
हा कष्टं खलु जीवितं कलियुगे धन्या जना ये स्मृताः ॥४८८॥ [गरुड.पु. ११५]

यस्मिन्यदा पुष्करनाभमायया
दुरन्तया स्पृष्टधियः पृथग्दृशः ।
कुर्वन्ति तत्र ह्यनुकम्पया कृपां
न साधवो दैवबलात्कृते क्रमम् ॥४८९॥ [भा.पु. ४.६.४८]

यो धर्मशीलो जितमानरोषो
विद्याविनीतो न परोपतापी ।
स्वदारतुष्टः परद्दारवर्जितो
न तस्य लोके भवमस्ति किञ्चित॥४९०॥ [प.पु. १.२२४]

अतः कविर्नामसु यावदर्थः
स्यादप्रमत्तो व्यवसायबुद्धिः ।
सिद्धेऽन्यथार्थे न यतेत तत्र
परिश्रमं तत्र समीक्षमाणः ॥४९१॥ [भा.पु. २.२.३]

भयं प्रमत्तस्य वनेष्वपि स्याद्
यतः स आस्ते सहषट्सपत्नः ।
जितेन्द्रियस्यात्मरतेर्बुधस्य
गृहाश्रमः किं नु करोत्यवद्यम् ॥४९२॥ [भा.पु. ५.१.१७]


यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥४९३॥ [म.भा. १३.२८८८?]
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।
एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥४९४॥ [बृ.चा. १४.४]

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥४९५॥ [म.भा. ५.३३.१८]

ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा ।
पूर्वावासं हरन्त्यन्ये राजधर्मं हि तं विदुः ॥४९६॥ [म.भा. २.?]

प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ।
उदयास्तमयज्ञो हि न शोचति न हृष्यति ॥४९७॥ [म.भा. ३.२४५.१४]

यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी ।
विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥४९८॥ [प्र. १४]

भोक्तुं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् ।
व्यवसायं सदैवेच्छेन्न हि क्लीबवदाचरेत॥४९९॥ [का.नी. १३.१०]

मार्दवं सर्वभूतानामनसूया क्षमा धृतिः ।
आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥५००॥ [म.भा. ५.३९.३९]

पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥५०१॥ [म.भा. १.६८.३८]

यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥५०२॥ [म.भा. १२.५५०९?]

भस्मना शुद्ध्यते कास्यं ताम्रमम्लेन शुद्ध्यति ।
रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ॥५०३॥ [बृ.चा. ६.३]

मा वनं छिन्धि स व्याघ्रं मा व्याघ्रान्नीनशो वनात।
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ॥५०४॥ [म.भा. ५.२९.४८]

यत्क्रोधनो यजते यद्ददाति
यद्वा तपस्तप्यति यज्जुहोति ।
वैवस्वतस्तद्धरतेऽस्य सर्वं
मोघः श्रमो भवति क्रोधनस्य ॥५०५॥ [म.भा. १२.२८८.२७]

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च ।
न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥५०६॥

भार्या मूलं गृहस्थस्य भार्या मूलं सुतस्य च ।
भार्या धर्मफलावाप्त्यै भार्या सन्तानहेतवे ॥५०७॥

ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च ।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥५०८॥ [म.भा. १.७४.११]

वध्यन्ते न ह विश्वस्ताः शत्रुभिर्दुर्बला अपि ।
विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥५०९॥ [?]

पुरतः कृच्छ्रकालस्य धीमान्जागर्ति पूरुषः ।
स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित॥५१०॥

बन्धनानि खलु सन्ति बहूनि
प्रेमरज्जुकृतबन्धनमन्यत। दारुभेदनिपुणोऽपि षडङ्घ्रिर्
निष्क्रियो भवति पङ्कजकोशे ॥५११॥ [बृ.चा. १५.१७]

यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते ।
स कृच्छ्रकाले व्यथितो न प्रजानाति किंचन ॥५१२॥ [म.भा. १.२२३.२]

ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।
वृन्दादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥५१३॥

यत्तु सम्यगुपक्रान्तं कार्यमेति विपर्ययम् ।
पुमांस्तत्रानुपालभ्यो दैवान्तरितपौरुषः ॥५१४॥ [का.नी. ११.३९]

पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् ।
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥५१५॥ [बृ.चा. ७.२१]

मुखं पद्मदलाकारं वाक्यं चन्दनशीतलम् ।
हृदयं वह्निसदृशं त्रिविधं धूर्तलक्षणम् ॥५१६॥ [चा.नी.सा. ७१]

भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः ।
जायाया इति जायात्वं पुराणाः कवयो विदुः ॥५१७॥ [म.भा. १.६८.३६]

पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ।
सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ॥५१८॥ [बृ.चा. १७.१]

यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् ।
स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत्सुखम् ॥५१९॥ [बृ.चा. १३.५]

ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा ।
अमात्यं नृपतिर्वेद राजा राजानमेव च ॥५२०॥ [म.भा. ५.३८.२५]

यस्य स्त्रीषु रतेः शक्तिर्जीर्णशक्तिश्च भोजने ।
देहेऽधिकबला शकित्स्तस्यारोग्यं प्रचक्षते ॥५२१॥ [प्र. १३]

प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम् ।
ज्ञानाङ्कुशेन कुर्वीत वाच्यमिन्द्रियदन्तिनम् ॥५२२॥ [का.नी. १.२५]

प्रकुप्यत्यप्रतीकार्थे स्वतेजस्तप्तचेतसाम् ।
शरणं मरणं त्यक्त्वा किमिवान्यद्यशोऽर्थिनाम् ॥५२३॥ [रा.त. ६.२७८]

सज्जमानमकार्येषु सुहृदो वारयन्ति ते ।
सत्यं ते नैव सुहृदो गुरवो गुरवो हि ते ॥५२४॥ [का.नी. ४.४५]

फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।
न नामग्रहणादेव तस्य वारि प्रसीदति ॥५२५॥ [मनु. ६.६७]

प्राप्ते भार्ये परित्राणं प्रीतिविश्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥५२६॥ [पञ्च. २.१९०]

सत्यं वक्तुमशेषमस्ति सुलभा वाणी मनोहारिणी
दातुं दानवरं शरण्यमभयं स्वच्छं पितृभ्यो जलम् ।
पूजार्थं परमेश्वरस्य विमलः स्वाध्याययज्ञः परम्
क्षुद्व्याधेः पूर्वमूलमस्ति शमनं क्लेशात्मकिः किं धनैः ॥५२७॥ [शान्तिश. ४.५]

फलतीह पूर्वसुकृतं विद्यावन्तोऽपि कुलसमुद्भूताः ।
यस्य यदा विभवः स्यात्तस्य तदा दासतां यान्ति ॥५२८॥ [पञ्च. ५.८]

सर्वनाशे च सञ्जाते प्राणानामपि संशये ।
अपि शत्रुं प्रणम्यापि रक्षेत्प्राणान्धनानि च ॥५२९॥ [पञ्च. ४.२२]

प्रमाणाभ्यधिकस्यापि गण्डश्याममदच्युतेः ।
पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः ॥५३०॥ [पञ्च. १.३१८१६]

सञ्चये च विनाशान्ते मरणान्ते च जीविते ।
संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः ॥५३१॥ [म.भा. १२.१०५.४४]

प्राप्तविद्यार्थशिल्पानां देशान्तरनिवासिनाम् ।
क्रोशमात्रोऽपि भूभागः शतयोजनवद्भवेत॥५३२॥ [पञ्च. १.४३२]

सतां मतमतिक्रम्य योऽसतां वर्तते मते ।
कालेन व्यसनं प्राप्य पश्चात्तापं स गच्छति ॥५३३॥ [म.भा. ३.४१४७?]

पृथिवी रत्नसम्पूर्णा हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत॥५३४॥ [म.भा. १.३१७५?]

व्यथयन्ति परं चेतो मनोरथशतैर्जनाः ।
नानुष्ठानैर्धनैर्हीनाः कुलजाः विधवा इव ॥५३५॥ [पञ्च. २.१०१]

बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपहताः चान्ये जीर्णमङ्गे सुभाषितम् ॥५३६॥ [नी.श. २]

विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा
पुरुष इह न शक्तः कर्म हीनोऽपि भोक्तुम् ।
सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं
व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥५३७॥ [म.भा. १३.६.४५]

फलं धर्मस्य विभवो विभवस्य फलं सुखम् ।
सुखमूलं तु तन्वङ्ग्यो विना ताभिः कुतः सुखम् ॥५३८॥ [शुक. ४०]

वणिगालोक्य निजे हृदि सोत्साहं परिचितग्रहीतारम् ।
हृष्यति तद्धनलुब्धो यद्वत्पुत्रेण जातेन ॥५३९॥ [?]

बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः ।
कथञ्चिन्न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः ॥५४०॥ [पञ्च. ३.७५]

श्यामा प्रिया केशव एव देवो
मानो धनं मन्मथ एव धन्वी ।
वाणी सखी वारण एव यानं
कालो वसन्तः कवितैव विद्या ॥५४१॥ [प्र. ११]

बुभुक्षितः किं न करोति पापं
क्षीणा जना निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रियदर्शनस्य
न गङ्गदत्तः पुनरेति कूपम् ॥५४२॥ [पञ्च. ४.१६]

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।
दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ॥५४३॥ [म.भा. ५.३४.४९]

शत्रुणा योजयेच्छत्रुं बलिना बलवत्तरम् ।
स्वकार्याय यतो न स्यात्काचित्पीडात्र तत्क्षये ॥१८॥ [पञ्च. ४.१८]

प्रायः कन्दुकपातेनोत्पतत्यार्यः पतन्नपि ।
तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥५४५॥

बहूनामप्यसाराणां समवायो बलावहः ।
तृणैरावेष्ट्यते रज्जुस्तया नागोऽपि बध्यते ॥५४६॥ [सु. २७४२]

वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः ।
आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ॥५४७॥ [म.भा. ३.६८.८]

प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमजना न परित्यजन्ति ॥५४८॥

शक्याशक्यमविज्ञाय यस्त्वसाध्ये प्रवर्तते ।
स केवलमवाप्नोति निजजीवितसंक्षयम् ॥५४९॥ [सं.पा. ४२]

प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु ।
स सुप्त इव वृक्षाग्रात्पतितः प्रतिबुध्यते ॥५५०॥ [हि. ४.१०]

विप्रो वृक्षस्तस्य मूलं च सन्ध्या
वेदः शाखा धर्मकर्माणि पत्रम् ।
तस्मान्मूलं यत्नतो रक्षणीयं
छिन्ने मूले नैव शाखा न पत्रम् ॥५५१॥ [बृ.चा. १०.१३]

शक्ष्यामि कर्तुमिदमल्पमयत्नसाध्यम्
अनादरः क इति कृत्यमुपेक्षमाणाः ।
केचित्प्रमत्तमनसः परितापदुःखम्
आपत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ॥५५२॥ [पञ्च. ३.२५१]

विश्राम्यन्ति महात्मानो यत्र कल्पतराविव ।
स श्लाघ्यं जीवति श्रीमान्सत्सम्भोगफलाः श्रियः ॥५५३॥ [का.नी. ५.७२]

सञ्चिन्त्य सञ्चिन्त्य तमुग्रदण्डं
मृत्युं मनुष्यस्य विचक्षणस्य ।
वर्षाम्बुसिक्ता इव चर्मबन्धाः
सर्वे प्रयत्नाः शिथिलीभवन्ति ॥५५४॥ [भोज.प्र. ९०]

प्रविष्टः सर्वभूतानि यथा चरति मारुतः ।
चारेणैवं चरेद्राजा स्मृतं तन्मारुतं व्रतम् ॥५५५॥ [राम. २.१२२.२०]

विहितस्याननुष्ठानान्निन्दितस्य च सेवनात।
अनिग्रहाच्चेन्द्रियाणां नरः पतनं ऋच्छति ॥५५६॥ [याज्ञ. ३.२१९]

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।
गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ॥५५७॥ [रा. ३.१३.६]

व्यञ्जनं हन्ति वै पूर्वं चैव पयोधरौ ।
रतिरिष्टांस्तथा लोकान्हन्याच्च पितरं रजः ॥५५८॥ [पञ्च. ३.२०४?]

प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः ।
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥५५९॥ [म.भा. १३.१.१५]

सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थे शुचिर्हि स शुचिर्न मृत्वारिशुचिः शुचिः ॥५६०॥ [मनु. ५.१०६]

शठस्तु समयं प्राप्य नोपाकारं हि मन्यते ।
वरं तमुपकर्तारं दोषदृष्ट्या च दूषयेत॥५६१॥ [सं. पाठोप. ४७]

सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥५६२॥ [मनु. २.१६३]

प्रयाति शमनं यस्य तेजस्तेजस्वितेजसाम् ।
वृथा जातेन किं तेन मातुर्यौवनहारिणा ॥५६३॥ [पञ्च. ३.३२]

॥५६४॥

विकारं याति नो चित्तं वित्ते यस्य कदाचन ।
मित्रं स्यात्सर्वकाले च कारयेन्मित्रमुत्तमम् ॥५६५॥ [पञ्च. २.११४]

॥५६६॥

विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा
पुरुष इह न शक्तः कर्म हीनोऽपि भोक्तुम् ।
सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं
व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥५६७॥ [म.भा. १३.६.४५]

योऽभ्यर्थितः सद्भिरसज्जमानः
करोत्यर्थं शक्तिमहापयित्वा ।
क्षिप्रं यशस्तं समुपैति सन्तं
अलं प्रसन्ना हि सुखाय सन्तः ॥५६८॥ [म.भा. ५.४०.१]

षण्णामात्मनि युक्तानामिन्द्रियाणां प्रमाथिनाम् ।
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥५६९॥ [?]

वेदाः प्रमाणं स्मृतयः प्रमाणं
धर्मार्थयुक्तं वचनं प्रमाणम् ।
यस्य प्रमाणं न भवेत्प्रमाणकस्
तस्य कुर्याद्वचनं प्रमाणम् ॥५७०॥ [दं.श. २४]

सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥५७१॥ [म.भा. ५.३७.३४]

वैराग्ये संचरत्येको नीतौ भ्रमति चापरः ।
शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥५७२॥ [शृ.श. १०२]

हृदि विद्ध इवात्यर्थं यथा सन्तप्यते जनः ।
पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत॥५७३॥ [का.नीति. ३.२४]

विद्वद्भिः सुहृदामत्र चिह्नैरेतैरसंशयम् ।
परीक्षाकरणं प्रोक्तं होमाग्नेरिव पण्डितैः ॥५७४॥ [पञ्च. २.११५]

सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।
त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥५७५॥ [बृ.चा. ७.३]

प्रसारितकरे मित्रे जगदुद्द्योतकारिणि ।
किं न कैरव लज्जा ते कुर्वतः कोशसंवृतिम् ॥५७६॥ [शा.प. ११३८]
 यो यत्र सततं याति भुङ्क्ते चैव निरन्तरम् ।
स तत्र लघुतां याति यदि शक्रसमो भवेत॥५७७॥ [चा.नी. ४२]

लब्धव्यमर्थं लभते मनुष्यो
देवोऽपि तं वारयितुं न शक्तः ।
अतो न शोचामि न विस्मयो मे
ललाटलेखा न पुनः प्रयाति ॥५७८॥ [महा.ना. २१४?]

ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ॥५७९॥ [म.भा. १२.१६८.२४]

वरं न राज्यं न कुराजराज्यं
वरं न मित्रं न कुमित्रमित्रम् ।
वरं न शिष्यो न कुशिष्यशिष्यो
वरं न दारा न कुदारदारः ॥५८०॥ [बृ.चा. ६.१३]

यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना ।
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराड॥५८१॥ [म.भा. ५.३४.५३]

प्रालेयलेशमिश्रे मरुति प्राभातिके च वाति जडे ।
गुणदोषज्ञः पुरुषो जलेन कः शीतमपनयति ॥५८२॥ [पञ्च. ३.३४१]

प्राणत्यागे समुत्पन्ने यदि स्यान्मित्रदर्शनम् ।
तद्द्वाभ्यां सुखदं पश्चाज्जीवतोऽपि मृतस्य च ॥५८३॥ [पञ्च. २.१७५]

सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतां
शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।
सद्धियो ह्युपसर्प्यतां प्रतिदिनं तत्पादुका सेव्यतां
बह्यैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥५८४॥ [साधनपञ्चक २]

विरहोऽपि सङ्गमः खलु
परस्परं सङ्गतं मनो येषाम् ।
यदि हृदयं तु विघट्टितं
समागमोऽपि विरहं विशेषयति ॥५८५॥ [शृ.श. ६५ (८०)]

प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनी
रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥५८६॥ [शृ.श. २०]

शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् ।
हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥५८७॥ [भा.पु. ६.१८.४१]

यो नोद्धतं कुरुते जातु वेषं
न पौरुषेणापि विकत्थतेऽन्यान।
न मूर्च्छितः कटुकान्याह किञ्चित्
प्रियं सदा तं कुरुते जनो हि ॥५८८॥ [म.भा. ५.३३.९२]

प्रतीपं कृष्णमाणो हि नोत्तरेदुत्तरेन्नरः ।
बाह्यमानोऽनुकूलं तु नद्योघाद्वद्यसनात्तथा ॥५८९॥ [कथा.स. ३१.८७]

संप्राप्य पण्डितः कृच्छ्रं प्रज्ञया हि विगाहते ।
बालस्तु कृच्छ्रमासाद्य शिलेवाम्भसि मज्जति ॥५९०॥ {रा. ३.६८.५३]

प्रणिपातेन हि गुरून्सतोऽनूचानचेष्टितैः ।
कुर्वीताभिमुखान्भूत्यै देवान्सुकृतकर्मणा ॥५९१॥
 सम्मानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव ।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥५९२॥ [मनु २.१६२]

प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।
भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥५९३॥
 सर्वौषधीनाममृता प्रधाना
सर्वेषु सौख्येष्वशनं प्रधानम् ।
सर्वेन्द्रियाणां नयनं प्रधानं
सर्वेषु गात्रेषु शिरः प्रधानम् ॥५९४॥ [बृ.चा. ९.४]

राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः ।
भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥५९५॥
 
यो नात्युक्तः प्राह रूक्षं प्रियं वा
यो वा हतो न प्रतिहन्ति धैर्यात।
पापं च यो नेच्छति तस्य हन्तुस्
तस्मै देवाः स्पृहयन्ते सदैव ॥५९६॥ [म.भा. १२.२८८.१७]

प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते ।
आमकुम्भ इवाम्भःस्थो विशीर्णः सन्विभाव्यते ॥५९७॥ [हि. ४.७२]

वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित्
प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा ।
जीवान्स्थावरजङ्गमांश्च सकलान्संजीव्य भूमण्डलं
भूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भोनिधिम् ॥५९८॥ [बृ.चा. ८.५]

प्रियमनुचितं क्ष्मापण्यस्त्रीक्षणप्रभुरीश्वरो
रमयति यतो धिक्तान्भृत्यान्स्ववृत्तिसुखार्थिनः ।
नृपमपथगं पान्ति प्राणानुपेक्ष्य निजान्
अपि प्रसभमिह ये तैः पूतेयं महात्मभिरुर्वरी ॥५९९॥

प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत।
एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं परम् ॥६००॥
 संसारश्रान्तचित्तानां तिस्रो विश्रान्तिभूमयः ।
अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥६०१॥ [प्रसङ्गाभ २]

वाति गन्धः सुमनसां प्रतिवातं कथञ्चन ।
धर्मजस्तु मनुष्याणां वाति गन्धः समन्ततः ॥६०२॥ [रा. २.६१.१९]

शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति ।
अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥६०३॥ [रा. २.६१.१९]

विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् ।
ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा त्यज्यः ॥६०४॥ [पञ्च. ?]

यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत।
अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि ॥६०५॥ [म.भा. ३.३३.१२]

राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः ।
भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥६०६?॥ [बृ.चा. ६.१०]

राजा वेश्या यमश्चाग्निस्तस्करो बालयाचकौ ।
परदुःखं न जानन्ति अष्टमो ग्रामकण्टकः ॥६०६॥ [बृ.चा. १७.१९]

विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः ।
भाण्डारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत॥६१०॥ [बृ.चा. ९.६]

शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः ।
घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥६११॥ [बृ.चा. १०.२०]

श्लाघ्यं जन्म सुरूपता धनिकता नीरोगता प्राज्ञता
स्वाचारस्थिरता दया सुकुलता दाक्षिण्यवद्दारता ।
आयुष्मद्गुणिपुत्रता स्ववशता सौन्जन्यवन्मित्रता
श्रीशे भक्तिरती च यस्य स नरः स्यान्मानवानन्दवान॥६१२॥ [प्रसङ्गाभ १२]

वयसः परिणामेऽपि यः खलः खल एव सः ।
सम्पक्वमपि माधुर्यं नोपयातीन्द्रवारुणम् ॥६१३॥ [बृ.चा. १२.२३]

शुचि भूषयति श्रुतं वपुः
प्रशमतस्तस्य भवत्यलं क्रिया ।
प्रशमाभरणं पराक्रमः
स नयापादितसिद्धिभूषणः ॥६१४॥ [किरात. २.३२]

यो हि वेदे च शास्त्रे च ग्रन्थ धारण तत्परः ।
न च ग्रन्थार्थ तत्त्वज्ञस्तस्य तद्धारणं वृथा ॥६१५॥ [म.भा. १२.२९३.२४]

रुजन्ति हि शरीराणि रोगाः शारीरमानसाः ।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृधधन्विभिः ॥६१६॥ [म.भा. १२.३१८.३]

भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस्तु ग्रन्थार्थ तत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥६१७॥ [म.भा. १२.२९३.२५]

रम्याणि वीक्ष्य मधुरांश्च निशम्य
शब्दान्पर्युत्सुकीभवति यत्सुखेतेऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि ॥६१८॥ [अ.शाकुं]

सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥६१९॥ [मनु ३.६०]

शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः ।
अग्निभीता च या नारी त्रयः स्वर्गं न यान्ति हि ॥६२०॥ [चाणक्य ९६]

रसायनविदश्चैव सुप्रयुक्तरसायनाः ।
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥६२२॥ [म.भा. १२.२८.४६]

योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।
शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥६२३॥ [म.भा. ५.१२२.२३]

लक्ष्म्या लक्ष्मीवतां लोके विकाशिन्या च किं तया ।
बन्धुभिश्च सुहृद्भिश्च विश्रब्धं वा न भुज्यते ॥६२४॥ [का.नी. ५.७६]

लक्ष्मीर्धर्मश्च सन्तानः कीर्तिश्चायुष्यवैभवम् ।
वर्धते दयया नित्यं राजन्भूतदयां कुरु ॥६२६॥ [प्र. १७]

प्रतिदिवसं याति लयं वसन्तवाताहतेव शिशिरश्रीः ।
बुद्धिर्बुद्धिमतामपि कुटुम्बभारस्य चिन्ताभिः ॥६२७॥

रम्या रामा यदि कुलवधूस्त्यागभोगाय वित्ते
वक्त्रे वाणी सरलकविता केशवे चित्तवृत्तिः ।
सद्भिः सङ्गो वपुषि दृढता सत्कुले जन्म पुंसां
धिग्धिग्दूरादनशनपथं सर्गमेकान्तदुर्गम् ॥६२८॥ [प्र. १३]

पूर्णापूर्णे माने परिचितजनवञ्चनं तथा नित्यम् ।
मिथ्याक्रयस्य कथनं प्रकृतिरियं स्यात्किरातानाम् ॥६२९॥ [पञ्च १.१७]

विवेकिनमनुप्राप्ता गुणा यान्ति मनोज्ञताम् ।
सुतरां रत्नमाभाति चामीकरनियोजितम् ॥६३०॥ [बृ.चा. १६.९]

पूर्णेन्दुमालोक्य यथा प्रीतिमाञ्जायते नरः ।
एवं यत्र प्रजाः सर्वा निर्वृत्तास्तच्छशिव्रतम् ॥६३१॥

सत्कृता लालिताश्चैव वैदेहि प्राकृताः स्त्रियः ।
दरिद्रमवमन्यन्ते भर्तारं न तु सत्स्त्रियः ॥६३२॥ [भाव. २०]

कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् ।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥६३३॥
कुमुदान्येव शशाङ्कः स्वैता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥६३४॥ [अ.शा. ५.३८]

निर्गत्य न विशेद्भूयो महतां दन्तिदन्तवत।
कूर्मग्रीवेव नीचानां वच आयाति याति च ॥६३५॥ [?]

बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।
स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥६३६॥ [रा. ४.७.१०]

कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।
कुराज्ये निर्वृतिर्नास्ति कुदेशे जीविका ॥६३७॥ [म.भा. १२.?]

जीवितं न शरीरेण जात्यैव सह जायते ।
उभे सह विवर्तेते उभे सह विनश्यतः ॥६३८॥ (नोतिनिन्देश्रुत्)

प्रज्ञाशरेणाभिहतस्य जन्तोश्
चिकित्सकाः सन्ति न चौषधानि ।
न होममन्त्रा न च मङ्गलानि
नाथर्वणा नाप्यगदाः सुसिद्धाः ॥६३९॥ [म.भा. ५.३७.५४]

बन्धनानि खलु सन्ति बहूनि
प्रेमरज्जुकृतबन्धनमन्यत।
दारुभेदनिपुणोऽपि षडङ्घ्रिर्
निष्क्रियो भवति पङ्कजकोशे ॥६४०॥ [बृ.चा. १५.१७]


भार्या हि परमो नाथः पुरुषस्येह पठ्यते ।
असहायस्य लोकेऽस्मिंल्लोकयात्रा सहायिनी ॥६४१॥ [म.भा. १२.१४२.८]

कोशद्वन्द्वमियं दधाती नलिनी कादम्बचञ्चूक्षतं
धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् ।
इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घकायास्तते
चैलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥६४१॥ [कुव. ६७]

जानाति विश्वासयितुं मनुष्यान्
विज्ञात दोषेषु दधाति दण्डम् ।
जानाति मात्रां च तथा क्षमां च
तं तादृशं श्रीर्जुषते समग्रा ॥६४३॥ [म.भा. ५.३३.८६]

एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
राजन्राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत॥६४४॥

कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ।
अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥६४५॥ [रा. २.१०९.२८]

न किञ्चित्सहसा कार्यं कार्यं कार्यविदा क्वचित।
क्रियते चेद्विविच्यैव तस्य श्रेयः करस्थितम् ॥६४६॥ [का.नी. ११.४७]

दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैर्
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् ।
किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया
संसारे नसतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥६४७॥ [स.कं. ४.७१]

एकान्ते सुखमास्यता परतरे चेतः समाधीयतां
प्राणात्मा सुसमीक्ष्यतां जगदिदं तद्व्यापितं दृश्यताम् ।
प्राक्कर्म प्रविलोप्यतां चितिबलान्नाप्युत्तरे श्लिष्यतां
प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मनास्थीयताम् ॥६४८॥

धूमाद्गाढमलीमसाच्छुचिपयः सूते घनस्योद्गमो
लोहस्यातिशितस्य जातिरचलात्कुष्ठाश्ममालामयात।
किं चात्यन्तजडाज्जलाद्द्युतिमतो ज्वालाध्वजस्योद्भवो
जन्मावध्यनुकारिणो न महतां सत्यं स्वभावाः क्वचित॥६४९॥ [रा.त. ४.११]

भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते ॥६५०॥ [म.भा. १२.३१८.१२]

एकामिषप्रभवमेव सहोदराणाम्
उज्जृम्भते जगति वैरमिति प्रसिद्धम् ।
पृथ्वीनिमित्तमभवत्कुरुपाण्डवानां
तीव्रस्तथा हि भुवनक्षयकृद्विरोधः ॥६५१॥

ते पिबन्तः कषायांश्च सर्पींषि विविधानि च ।
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥६५२॥ [म.भा. ३?]

न कालस्य प्रियः कश्चिन्न द्वेष्योऽपि कपीश्वर ।
कालः कालयते सर्वान्सर्वः कालेन बध्यते ॥६५३॥ [रा. ४.२७.७]

एकाकिना न गन्तव्यं यदि कार्यशतं भवेत।
एककुक्कुटमात्रेण ब्राह्मणः परिरक्षितः ॥६५४॥ [चा.नी. ५६]

न दानैः शुध्यते नारी नोपवासशतैरपि ।
न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥६५५॥ [बृ.चा. १७.१०]

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत।
चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते ॥६५६॥ [म.भा. ११.२.१७]

न दिष्टमप्यतिक्रान्तुं शक्यं भूतेन केनचित।
दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ॥६५७॥ [म. ६.७८]

भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे ।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥६५८॥ [म.भा. १२.१३७.५२]

भार्या यस्य गृहे नित्यमतीव परिगर्विता ।
तस्य लक्ष्मीः क्षयं याति कृष्णपक्षे यथा शशी ॥६५९॥ [?]

न कर्मणा लभ्यते चिन्तया वा
नाप्यस्य दाता पुरुषस्य कश्चित।
पर्याय योगाद्विहितं विधात्रा
कालेन सर्वं लभते मनुष्यः ॥६६०॥ [म.भा. १२.२६.५]

भोक्तुं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् ।
व्यवसायं सदैवेच्छेन्न हि क्लीबवदाचरेत॥६६१॥ [का.नी. १३.१०]

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥६६२॥ [म.भा. ५.३६.५८]

कुर्मः किल्बिषमेतदेव हृदये कृत्वेति कौतूहलात्
स्वैरिण्यः क्षितिपाश्च धिक्चपलतां क्रौर्यं च कुर्युः सकृत।
पापाक्रान्तधियो भवन्त्यथ यथा नान्त्यान्स्पृशन्त्योऽपि ता
दूयन्ते न च ते यथा स्वपितरौ घ्नन्तोऽपि शान्तत्रपाः ॥६६३॥ [रा.त. ४.६२६]

दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ।
मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः ॥६६४॥ [म.भा. १२.१७४.३]

बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ।
वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥६६५॥ [मनु. ७.४०]

जलरेखा खलप्रीतिरर्धवारिघटस्थता ।
शिरसा धार्यमाणोऽपि खलः खलखलायते ॥६६६॥ [?]

जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् ।
मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः ॥६६७॥ [बृ.चा. १३.९]

न वाचा दुर्गमः पारः कार्याणां राक्षसाधम ।
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान॥६६८॥

नयेन जाग्रत्यनिशं नरेश्वरे
सुखं स्वपन्तीह निराधयः प्रजाः ।
प्रमत्तचित्ते स्वपतीह सम्भ्रमात्
प्रजागरेणास्य जगत्प्रबुध्यते ॥६६९॥ [का.नी. ७.५८]

चिता दहति निर्जीवं चिन्ता जीवं दहत्यहो ।
बिन्दुनैवाधिका चिन्ता चितात्यल्पा हि भूतले ॥६७०॥ [प्र.भ. १७]

न कुलं वृत्ति हीनस्य प्रमाणमिति मे मतिः ।
अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥६७१॥ [म.भा. ५.३२.२२]

दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव ।
विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥६७२॥ [म.भा. ५.३९.३५]

न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः ।
अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥६७३॥ [म.भा. १३.२७.५९]

तीर्थस्थितः स्वकुलजांस्तिमिरत्ति भुङ्क्ते
मौनी बकस्तिमिमुपेत्य वनान्तवासी ।
व्याधो निहन्ति तु बकं प्रभवन्ति ते ते
पात्राण्युपर्युपरि वञ्चनचञ्चुतायाम् ॥६७४॥ [रा.त. ५.३०४]

एतल्लब्धमिदं च लभ्यमधिकं च मूल्यलभ्यं ततो
लभ्यं चापरमित्यनारतमहो लभ्यं धनं ध्यायसि ।
नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची बलात्
सर्वग्रासमियं ग्रसिष्यति महामोहान्धकारावृतम् ॥६७५॥ [?]

पूर्वं सम्मानना यत्र पश्चाच्चैव विमानना ।
जह्यात्तत्सत्त्ववान्स्थानं शत्रोः संमानितोऽपि सन॥६७६॥

धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् ।
धर्मेण लभ्यते सर्वं धर्मसारमिदं जगत॥६७७॥ [रा. ३.९.३०]

न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान।
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥६७८॥ [म.भा. २.६५.६]

क्षीणो रविमवति शशी
वृद्धौ च वर्धयति पयसां नाथम् ।
अन्ये विपदि सहाया
धनिनां श्रियमनुभवन्त्यन्ये ॥६७९॥ [पञ्च. ५.]

कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् ।
कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत॥६८०॥ [म.भा. १२]

किं कुलेन विशालेन शीलमेवात्र कारणम् ।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥६८१॥ [शा.प. १४८५]

न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये ।
काले कार्यवाशात्सर्वे भवन्त्येवाप्रियाः प्रियाः ॥६८२॥ [ब्र.वै.पु. जन्मखण्ड]

तीक्ष्णोपायप्रान्तगम्योऽपि योऽर्थस्
तस्याप्यादौ संश्रयः साधुयुक्तः ।
उत्तुङ्गाग्रः सारभूतो वनानां
सालोऽभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥६८३॥ [?]

नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् ।
आत्मरूपं जले पश्यन्शक्रस्यापि श्रियं हरेत॥६८४॥ [?]

पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः ।
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥६८५॥ [म.भा. १.६८.३८]

धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत।
सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात॥६८६॥ [बृ.चा. १४.६]

कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ।
स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥६८७॥ [म.भा. १२.१३६.१५१]

न स्वे सुखे वै कुरुते प्रहर्षं
नान्यस्य दुःखे भवति प्रतीतः ।
दत्त्वा न पश्चात्कुरुतेऽनुतापं
न कत्थते सत्पुरुषार्य शीलः ॥६८८॥ [म.भा. ५.३३.९४]

तिलार्धं स्वीयभागश्च निःसारं बदरीफलम् ।
आहारात्परतः श्रेयो धूलिः परगृहादपि ॥६८९॥ [चाणक्य ६६]

धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् ।
सैव नौः सागरस्येव वणिजः पारं ऋच्छतः ॥६९०॥ [म.भा. ३.३२.२२]

न स्कन्दते न व्यथते न विनश्यति कर्हि चित।
वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥६९१॥ [मनु. ७.८४]

दोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित।
येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥६९२॥ [?]

किं करिष्यति संसर्गः स्वभावो दुरतिक्रमः ।
पश्याम्रफलसंसर्गी कषायो मधुरः कुतः ॥६९३॥ [?]

धर्मात्मनः शुभैर्वृत्तैः क्रतुभिश्चाप्तदक्षिणैः ।
धूतपापा गताः स्वर्गं पितामहनिषेवितम् ॥६९४॥ [र.गो. २.११४.१८]

न विश्वासाज्जातु परस्य गेहं
गच्छेन्नरश्चेतयानो विकाले ।
न चत्वरे निशि तिष्ठेन्निगूढो
न राजन्यां योषितं प्रार्थयीत ॥६९५॥ [म.भा. ५.३७.२६]

वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि ।
विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥६९६॥ [?]

न वैरमुद्दीपयति प्रशान्तं
न दर्ममारोहति नास्तमेति ।
न दुर्गतोऽस्मीति करोति मन्युं
तमार्य शीलं परमाहुरग्र्यम् ॥६९७॥ [म.भा. ५.३३.९३]

काले मृदुर्यो भवति काले भवति दारुणः ।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥६९८॥ [म.भा. १२.१३८.६६]

चिकीर्षितं विप्रकृतं च यस्य
नान्ये जनाः कर्म जानन्ति किञ्चित।
मन्त्रे गुप्ते सम्यगनुष्ठिते च
स्वल्पो नास्य व्यथते कश्चिदर्थः ॥६९९॥ [म.भा. ५.३३.१००]

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥७००॥ [म.भा. ५.३५.६०]

मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः ।
हरन्ति न तथा वाचो यथा साधु विपश्चिताम् ॥७०१॥ [म.भा. ५.?]

न स्पृशत्यायुधं जातु न स्त्रीणां स्तनमण्डलम् ।
अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ॥७०२॥ [काव्या. ३.१२१]

कोशमूलो हि राजेति प्रवादः सार्वलौकिकः ।
एतत्सर्वं जहातीह कोशव्यसनवान्नृपः ॥७०३॥ [का.नी. १३.३३]

कालेन शीघ्राः प्रविवान्ति वाताः
कालेन वृष्टिर्जलदानुपैति ।
कालेन पद्मोत्पलवज्जलं च
कालेन पुष्पन्ति नगा वनेषु ॥७०४॥ [म.भा. १२.२६.८]

त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः ।
अनाख्यातं न ते किञ्चिन्नाथ केनोपमीयसे ॥७०५॥ [सर्वस्व.टी. १६.७५१]

क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसम्पन्नसस्या
पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः ।
मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः
श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ॥७०६॥

इति श्रीसुभाषितरत्नभाण्डागारे सप्तमं सङ्कीर्णप्रकरणं

॥ समाप्तोऽयं ग्रन्थः ॥