अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥

विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।

अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ॥


अन्नदानं श्रेष्ठं दानम् । किन्तु ततोपि श्रेष्ठं विद्यादानम् । अन्नदानेन या तृप्तिः भवति सा क्षणिका। किन्तु विद्यया प्राप्यमाणा तृप्तिः आजीवनं तिष्ठति ।

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥


प्रतिक्षणं विद्या अर्जनीया । प्रतिकणमपि धनं सङ्ग्रहणीयम् । एकं क्षणं व्यर्थं भवति चेदपि तावता प्रमाणेन विद्या न्यूना जाता इत्येव । कणमेकं न्यूनं भवति चेदपि तावत् धनं न्यूनम् इत्येव ।

रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ हितोपदेशः ३९


रूपेण यौवनेन च युक्ताः उत्तमकुले सञ्चाताः अपि जनाः विद्याविहीनाः यदि भवेयुः तर्हि ते गन्धरहितानि किंशुकपुष्पाणि इव न शोभन्ते । विद्या एव वस्तुतः व्यक्तेः शोभां वर्धयति । विद्याविहीनाः पुरुषाः तु सुगन्धविहीनानि पुष्पाणि इव आकर्षणरहितानि भवन्ति ।

विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद् धनमाप्नोति धनाद्धर्मस्ततः सुखम् ॥


विद्यया विनयः, विनयेन योग्यता, योग्यतया धनं, धनेन धर्मः, धर्मेण च सुखं प्राप्यते ।


विद्या विवादाय धनं मदाय शक्तिः परेशां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानय च रक्षणाय ॥

विद्यावतां स्फुरत्यन्तर्विवेकः स्वस्थचेतसाम्।
 विकारकाले संमोहश्चित्ते विद्या च पुस्तके॥

विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥

विद्या राज्याधिकारश्च कदापि न तोलनीयम् । राजा स्वस्य प्रदेशे केवलं गौरवं प्राप्नोति । किन्तु विद्यावान् सर्वत्र गौरवं प्राप्नोति ।

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥ उद्योगपर्व - ४०/६

बहु जनाः सुखेन जीवितुम् इच्छन्ति । परिश्रमं कर्तुं न इच्छन्ति । एतादृशाः विद्यां सम्पादयितुं न अर्हन्ति । सुखार्थी विद्यां प्राप्तुं न अर्हति । यतः विद्यायाः सम्पादनं परिश्रमं, निरन्तरं प्रयत्नञ्च अपेक्षते । विद्यां प्राप्तुं यः इच्छति सः सुखं त्यजेदेव ।

हर्तृर्न गोचरं याति दत्ता भवति विस्तृता ।
कल्पान्तेऽपि न या नश्येत् किमन्यद्विद्यया विना ॥

विद्या चोराणां कृते न दृश्यते । अन्येभ्यः दत्ता चेत् विस्तृता भवति । कल्पान्ते अपि अस्याः नाशः न भविष्यति । विद्यायाः समानं नान्यत् किमपि विद्यते ।

"https://sa.wikiquote.org/w/index.php?title=सुभाषितानि_(विद्या)&oldid=15196" इत्यस्माद् प्रतिप्राप्तम्