जयिनी भव सुरवाणि...

(सुरसरस्वती... इत्यस्मात् पुनर्निर्दिष्टम्)

जयिनी भव सुरवाणि...


जयिनी भव सुरवाणि

स्तवनं तव करवाणि
शरणं त्वा करवाणि
जगति भव त्वं शुभवाणी ॥ ॥१॥


श्रुतिसुखनिनदे शिवदे
कविवर-विलसित-वरदे
सर्वाङ्गे च्युतिविधुरे
नवरसकलिते मधुरे
कामदुघा, त्वं ज्ञानसुधा ॥ ॥२॥


धरसि सनातनधर्मम्
जनयसि भाषाजालम्
वर्षसि गीतामृतधाराम्
वदसि सदा श्रुतिमखिलाम्

ह्लादयुता, त्वं वृद्धिमिता ॥ ॥३॥
- श्री गणपय्यहोळ्ळ:


"https://sa.wikiquote.org/w/index.php?title=जयिनी_भव_सुरवाणि...&oldid=15231" इत्यस्माद् प्रतिप्राप्तम्