सुरससुबोधा विश्वमनोज्ञा...

सुरससुबोधा विश्वमनोज्ञा...


सुरससुबोधा विश्वमनोज्ञा

ललिता हृद्या रमणीया ।
अमृतवाणी संस्कृतभाषा
नैव क्लिष्टा न च कठिना ॥१॥


कविकोकिल-वाल्मीकि-विरचिता
रामायणरमणीयकथा ।
अतीव-सरला मधुरमञ्जुला
नैव क्लिष्टा न च कठिना ॥२॥


व्यासविरचिता गणेशलिखिता
महाभारते पुण्यकथा ।
कौरव-पाण्डव-सङ्गरमथिता
नैव क्लिष्टा न च कठिना ॥३॥


कुरुक्षेत्र-समराङ्गण-गीता
विश्ववन्दिता भगवद्गीता ।
अमृतमधुरा कर्मदीपिका
नैव क्लिष्टा न च कठिना ॥४॥


कविकुलगुरु-नव-रसोन्मेषजा
ऋतु-रघु-कुमार-कविता ।
विक्रम-शाकुन्तल-मालविका

नैव क्लिष्टा न च कठिना ॥५॥
- वसन्त गाडगील: