- आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया ।
- आचरिष्यसि चेत्कर्म महतोऽर्थान् अवाप्स्यसि ।
- आचारहीनं न पुनन्ति वेदाः ।
- आचार्यः कस्मादाचारं ग्राहयतीति ।
- आचार्यशिष्टा याजातिस्सानित्या साजरामरा ।
- आचार्याद्देव खलु विदिता विद्या साधिष्यं प्रापत् ।
- आचार्यो ब्रह्मणो मूर्तिः ।
- आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
- आत्मोद्धारं विना लोके परोद्धारः सुदुष्करः ।
- आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ।
- आदानं हि विसर्गाय सतां वारिमुचामिव ।
- आ नो भद्राः क्रतवो यन्तु विश्वतः ।
- आपत्काले च कष्टे च नोत्साहस्त्यज्यते बुधैः ।
- आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।
- आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः ।
- आरभन्तेऽल्पमेवाज्ञाः कार्यव्यग्रा भवन्ति च।
- आरोहणम् आक्रमणं जीवतो जीयतोऽयनम् ।
- आशा येषां दासी तेषां दासायते लोकः ।
- आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।