सूक्तयः (एकारादिः)
- एकः प्रजायते जन्तुः एकः एव प्रलीयते।
- एकयोनीप्रसूतानां तेषां गन्धं पृथक् पृथक् ।
- एति जीवन्तमानन्दो नरं वर्षशतादपि ।
- एको रसः करुण एव।
भवभूतिविरचिते उत्तररामचरितनाटके इयं उक्तिः वर्तते। तृतीये अङ्के सीता अदृश्यरूपेण रामं स्पृशति। परन्तु तस्याः दर्शनं कर्तुं रामः न शक्नोति। तदानीं रामः सीतां स्मारं स्मारं बहुधा रोदनं करोति। सीतायाः सखी तमसा रामस्य इमां स्थिति दृष्ट्वा एवं वदति-
एको रसः करुण एव निमित्तभेदा- |
वस्तुतः करुणः एकः एव रसः भवति। सः करुणरसः एव निमित्तभेदाद् शृङ्गारहास्यरौद्रवीरभयानकबीभत्साद्भुतशान्तरूपैः विभिन्नः सन् परिणमति। विवर्तान् आश्रयते इत्यस्य परिणामान् आश्रयते इत्यर्थः। यथा जले आवर्तः (जले वृत्तरूपेण चक्रमिव यज्जायते सः) बुद्बुदः (जलस्य उपरि शिलाखण्डक्षेपणादिना उत्पद्यमानः ) तरङ्गः (वीचिः ) च भवति। परन्तु आवर्तः अपि जलमेव बुद्बुदमपि जलमेव, तरङ्गमपि जलमेव। तथापि तस्य नाम भिद्यते। तद्वत् करुणः एकः एव रसः तस्य परिणमनम् एव अन्ये रसाः इति कवेः भवभूतेः अभिप्रयः। परन्तु अन्ये आलङ्कारिकाः नव अपि रसान् करुणस्य परिणामरूपेण न अभ्युपगच्छन्ति।