• कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा।
  • कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
  • कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
  • कामार्ता हि प्रकृतिकृपणाश्चेतनाश्चेतनेषु।
  • कार्यकाले दुर्लभः पुरुषसमुदायः ।
  • कार्यं निदानाद्धि गुणानधीते ।
  • किञ्चित्कालोपभोग्यानि यौवनानि धनानि च।
  • कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
  • कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः ।
  • कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
  • कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः ।
  • क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
  • क्षणमुज्ज्वलितं श्रेयः न तु धूमायितं चिरम् ।
  • क्षणे रुष्टा क्षणे तुष्टा रुष्टा तुष्टा क्षणे क्षणे।
  • क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(ककारादिः)&oldid=4470" इत्यस्माद् प्रतिप्राप्तम्