सूक्तयः (जकारादिः)
- जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
- जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
- जातस्य हि ध्रुवो मृत्युः।
- जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।
- जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् ।
- ज्ञानं भारः क्रियां विना ।
- ज्ञानमार्गे ह्यहङ्कारः परिघो दुरतिक्रमः ।
- ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।