- न कञ्च न वसतौ प्रत्याचक्षीत ।
- न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ।
- न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते।
- न जातु कामः कामानामुपभोगे न शाम्यति।
- न जातु कामः कामानाम् उपभोगे न शाम्यति।
- न तद् दानं प्रशंसन्ति ये न वृत्तिर्विपद्यते ।
- न नश्यति तमो नाम कृतया दीपवार्तया ।
- न रत्नम् अन्विष्यति मृग्यते हि तत्।
- न वक्तुमिच्छन्ति मृषा हितैषिणः ।
- न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
- न वारिणा शुद्ध्यति चान्तरात्मा ।
- न विश्वसेत् अविश्वस्ते विश्वस्ते नाति विश्वसेत्।
- न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ।
- न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ।
- न हि कृतमुपकारं साधवो विस्मरन्ति ।
- न हि दुष्करमस्तीह किञ्चदध्यवसायिनाम् ।
- न हि निर्विण्णमागम्य कश्चित् प्राप्नोति शोभनम् ।
- न हि सर्वः सर्वं जानाति ।
- न ह्येको भागः कुक्कुट्याः पाकाय, अपरो भागः प्रसवाय कल्पते ।
- नाकार्यमस्ति क्षुद्रस्य नावाच्यं विद्यते क्वचित् ।
- नाद्रव्यविहिता काचित् क्रियाभवति शोभना ।
- नाधनो धर्मकृत्या नि यथावदनुतिष्ठति ।
- नायं लोकोऽस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ।
- नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
- नाराजके जनपदे योगक्षेमः प्रवर्तते ।
- नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्।
- निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।
- निसर्गः हि धीराणां यदापद्यधिकं धृढम् ।
- निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
- नीचो वदति न कुरुते, वदति न साधुः करोत्येव ।
- नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥
- नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।