• पदं हि सर्वत्र गुणैर्निधीयते ।
  • पयः पानं भुजङ्गानां केवलं विषवर्धनम्।
  • परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।
  • पराधीने परं दुःखं, स्वाधीने तु महत्सुखम् ।
  • परान् समुपसेवेत, न सेव्येत परं परैः ।
  • परान्नं दुर्लभं लोके शरीराणि पुनः पुनः॥
  • परोपकारः पुण्याय पापाय परपीडनम् ।
  • परोपकाराय सतां विभूतयः।
  • पर्वतखनने मूषकोपलब्धिः।
  • पाणौ पयसा दग्धे तक्रं फूत्कृत्य पिबति पामरः।
  • पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
  • पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
  • प्रकृत्यमित्रा हि सतामसधवः ।
  • प्रमादः सम्पदं हन्ति ।
  • प्रियञ्च नानृतं ब्रूयात् एष धर्मः सनातनः।
  • प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
  • प्रेमयुक्तमितरेतराश्रयम् ।
  • पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि ।
  • पञ्चभिः मिलितैः किं यत् जगतीह न साध्यते ।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(पकारादिः)&oldid=4500" इत्यस्माद् प्रतिप्राप्तम्