• मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
  • मनः पूतं समाचरेत्।
  • मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः।
  • मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।
  • मनोरथानां न समाप्तिरस्ति ।
  • मनोरथानाम् अतटाः प्रवाहाः ।
  • महाजनो येन गतः स पन्थाः ।
  • महारम्भः कृतधियस्तिष्ठन्ति च निराकुलाः॥
  • मा गृधः कस्यस्विद्धनम्।
  • मानो हि महतां धनम्।
  • मार्गारब्धाः सर्वयत्नाः फलन्ति ।
  • मितं सारञ्च वचो हि वाग्मिता।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(मकारादिः)&oldid=4511" इत्यस्माद् प्रतिप्राप्तम्