• यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
  • यत्र विद्वज्जनो नास्ति प्राज्ञस्तत्राल्पधीरपि ।
  • यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ।
  • यद्धात्रा निजभावपट्टलिखितं तन्मार्जितुं कः क्षमः।
  • यद्यपि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयम्।
  • यया कया च विधया बह्वन्नं प्राप्नुयात् ।
  • यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ।
  • याज्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ।
  • यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
  • योग्यत्वाद् यः समुत्कर्षो निरपायः सः सर्वथा ।
  • यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।
  • योऽर्थे शुचिस्सः हि शुचिर्न मृद्वारिशुचिः शुचिः ।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(यकारादिः)&oldid=4515" इत्यस्माद् प्रतिप्राप्तम्