- वक्तारो दर्दुरा यत्र, तत्र मौनं हि शोभनम्।
- वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्।
- वरं विरोधोऽपि समं महात्मभिः ।
- वस्तुदोषमनादृत्य गुणांश्चिन्वन्ति तद्विदः ।
- विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
- विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
- विद्याधनं सर्वधनप्रधानम्।
- विद्याधनं सर्वधनात् प्रधानम्।
- विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
- विश्वसयत्याशु सतां हि योगः ।
- वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।
- व्यवहारेण हि जायन्ते मित्राणि रिपवस्तथा।
- व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ।