सूक्तयः (शकारादिः)
- शठे शाठ्यं समाचरेत्।
- शत्रवो यान्ति मित्रत्वं विशुद्धे सति चेतसा ।
- शत्रोरपि गुणा वाच्याः दोषा वाच्या गुरोरपि ।
- शरीरं पातयामि कार्यं वा साधयामि।
- शास्त्रं हि निश्चितधियां क्व न सिद्धमेति।
- शिरो वा तद्यज्ञस्य यदातिथ्यम् ।
- शीलं हि सर्वस्य नरस्य भूषणम् ।
- शुद्धा हि बुद्धिः किल कामधेनुः ।