सुभाषितसङ्ग्रहः/सूक्तिमञ्जरी

(सूक्तिमञ्जरी इत्यस्मात् पुनर्निर्दिष्टम्)

<poem> यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । तथा सज्जनगोष्ठिषु पतिष्यसि पतिष्यसि ॥१

शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः । स एव सर्वशास्त्रज्ञः यस्य शान्तं मनः सदा ॥२

वृक्षाञ्छित्वा पशून्हत्वा कृत्वा रुदिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥३

वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥४

सदा वक्रस्सदारुष्टः सदापूजामपेक्षते । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥५

वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥६

गृहं गृहमटन् भिक्षुः शिक्षते न तु याचते । अदत्वा मादृशो मा भूः दत्वा त्वं त्वादृशो भव ॥७

इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि । इदमेव सुबुद्धित्वमायादल्पतरो व्ययः ॥८

घटं भिद्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् । येन केनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥९

उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् । प्रायः कूपस्तृषां हन्ति न कदापि तु वारिधिः ॥१०

रात्रिर्गमिष्यति भविष्यति सुप्रभातम् भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ ११

भवन्ति नम्रास्तरवः फलोद्गमैः नवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥१२

लभेत सिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥१३

प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ १४

उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति देशिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥१५

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १६

उच्चैरुच्चरितव्यं यत्किञ्चिदजानतापि पुरुषेण । मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ॥१७

उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः । न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥१८

मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥१९

यत्रोऽत्साहसमारम्भो यत्रालस्यविहीनता । नयविक्रमसम्योगस्तत्र श्रीरचला ध्रुवम् ॥२०

दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥२१

अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः । भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥२२

यदमी दशन्ति दशना रसना तत्स्वादमनुभवति । प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥२३

वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ २४

श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः । समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥ २५

सुदुर्बलं नावजानाति किञ्चित् युक्तो रिपुं सेवते बुद्धिपूर्वम् । न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥२६

एतावानेव पुरुषः कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुणं ततः ॥२७

कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः । वचो विन्यासवैचित्र्यमात्रमत्र विचार्यताम् ॥२८

को न याति वशं लोके मुखे पिण्डेन पूरितः l मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ll२९

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः l न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ll३०

असहायः समर्थोऽपि तेजस्वी किं करिष्यति l निर्वाते ज्वलिते वह्निः स्वयमेवोपशाम्यति ll ३१

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।३२

येषां न विद्या न तपो न दानं l ज्ञानं न शीलं न गुणो न धर्मः ll३३ ते मृत्युलोके भुवि भारभूतः l मनुष्यरूपेण मृगाश्र्चरन्ति ll३४

इतरतापशतानि (इतरपापफलानि) यदृच्छया विलिख तानि सहे चतुरानन l अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ll३५

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् l वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ll३६

उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः l परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः ll३७

अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च l अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ll३८

योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका l अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ll३९

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा। द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति॥४०

अकर्तव्येषु व्यापारं यो नरः कर्तुमिच्छति। अवश्यं विपदं याति कीलोत्पाटीव वानरः॥४१

अनागतवतीं चिन्तामसम्भाव्यां करोति यः। स एव पाण्डुरः शेते देवशर्मपितायथा॥४२

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।

व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥४३

चिन्तनीया हि विपदामादावेव प्रतिक्रिया। न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥४४

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥४५

पुस्तकस्था तु या विद्या परहस्तगतं धनम्।

कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥४६

छायामन्यस्य कुर्वन्ति तष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥४७

भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात्। दुग्धं यच्छन्ति लोकेभ्यो गावो लोकस्य मातर:।।४८

को न याति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥४९

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥५०

असहायः समर्थोऽपि तेजस्वी किं करिष्यति । निर्वाते ज्वलिते वह्निः स्वयमेवोपशाम्यति ॥५१

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।५२

येषां न विद्या न तपो न दानं । ज्ञानं न शीलं न गुणो न धर्मः ॥५३

ते मृत्युलोके भुवि भारभूतः । मनुष्यरूपेण मृगाश्र्चरन्ति ॥५४

इतरतापशतानि यदृच्छया विलिख तानि सहे चतुरानन । अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥५५

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥५६

उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः । परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः ॥५७

अश्र्वं नैव गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ॥५८

योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥५९

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा। द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति॥६०

अकर्तव्येषु व्यापारं यो नरः कर्तुमिच्छति। अवश्यं विपदं याति कीलोत्पाटीव वानरः॥६१

अनागतवतीं चिन्तामसम्भाव्यां करोति यः। स एव पाण्डुरः शेते देवशर्मपितायथा॥६२

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥६३

चिन्तनीया हि विपदामादावेव प्रतिक्रिया। न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥६३

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥६४

पुस्तकस्था तु या विद्या परहस्तगतं धनम्। कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥६५

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥६६

भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात्। दुग्धं यच्छन्ति लोकेभ्यो गावो लोकस्य मातर:।।६७

को न याति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥६८

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥६९

असाह्ययः समर्थोऽपि तेजस्वी किं करिष्यति । निर्वाते ज्वलिते वह्निः स्वयमेवोपशाम्यति ॥७०

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।७१

येषां न विद्या न तपो न दानं । ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूतः । मनुष्यरूपेण मृगाश्र्चरन्ति ॥ ७२

वितर तापशतानि यदृच्छया विलिख तानि सहे चतुरानन । अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ ७३

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥७४

उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः । परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः ॥७५

अश्र्वं नैव गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ॥७६

योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥७७

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा। द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति॥७८

अकर्तव्येषु व्यापारं यो नरः कर्तुमिच्छति। अवश्यं विपदं याति कीलोत्पाटीव वानरः॥७९

अनागतवतीं चिन्तामसम्भाव्यां करोति यः। स एव पाण्डुरः शेते देवशर्मपितायथा॥८०

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥८१

चिन्तनीया हि विपदामादावेव प्रतिक्रिया। न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥८२

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥८३

पुस्तकस्था तु या विद्या परहस्तगतं धनम्। कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥८४

छायामन्यस्य कुर्वन्ति तष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥८५

भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात्। दुग्धं यच्छन्ति लोकेभ्यो गावो लोकस्य मातर:।।८६


यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । तथा सज्जनगोष्ठिषु पतिष्यसि पतिष्यसि ॥८७

शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः । स एव सर्वशास्त्रज्ञः यस्य शान्तं मनः सदा ॥८८

वृक्षान् छित्वा पशून्हत्वा कृत्वा रुदिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥८९

वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥९०

सदा वक्रस्सदारुष्टः सदापूजामपेक्षते । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥९१

वलीभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥९२

गृहं गृहमटन् भिक्षुः शिक्षते न तु याचते । अदत्वा मादृशो मा भूः दत्वा त्वं त्वादृशो भव ॥९३

इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि । इदमेव सुबुद्धित्वमायादल्पतरो व्ययः ॥९४

घटं भिद्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् । येन केनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥९५

उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् । प्रायः कूपस्तृषां हन्ति न कदापि तु वारिधिः ॥९६

रात्रिर्गमिष्यति भविष्यति सुप्रभातम् भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ ९७

भवन्ति नम्रास्तरवः फलोद्गमैः नवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥९८

लभेत सिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥९९

प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ १००

उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति देशिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥१०१

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥१०२

उच्चैरुच्चरितव्यं यत्किञ्चिदजानतापि पुरुषेण । मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ॥१०३

उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः । न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥१०४

या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०५


मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥१०६

यत्रोऽत्साहसमारम्भो यत्रालस्यविहीनता । नयविक्रमसम्योगस्तत्र श्रीरचला ध्रुवम् ॥१०७

दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१०८

अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः । भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥१०९

यदमी दशन्ति दशना रसना तत्स्वादमनुभवति । प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥११०

वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ १११

प्राणमेवं परित्यज्य मानमेवाभिरक्षतु । अनित्याश्चाध्रुवाः प्राणाः मानमाचन्द्रतारकम् ॥११२

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥११३

आयुषः खण्डमादाय रविरस्तमयं गतः । अहन्यहनि बाधव्यं किमेतत् सुकृतं कृतम् ॥११४

सुखार्थी चेत् त्यजेत् विद्यां विद्यार्थी चेत् त्यजेत् सुखम्। सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥११५

सहसा विदधीत न क्रियामविवेकः परमापदां पदम्। वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥११६

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्। प्रियञ्च नानृतं ब्रूयात् एष धर्मः सनातनः॥११७

श्वः कार्यम् अद्य कुर्वीत पूर्वाह्णे वापराह्निकम्। न हि प्रतीक्षते मृत्युः कृतमस्य नवा कृतम्॥११८

शुकवद्भाषणं कुर्यात्बकवद्ध्यानमाचरेत्। अजवत् चर्वणं कुर्यात् गजवत् स्नानमाचरेत्॥११९

वृत्तं यत्नेन संरक्षेत् वित्तमायाति याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥१२०

अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि। कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि॥१२१

अजरामरवत्प्राज्ञः विद्यामर्थं च साधयेत्। गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥१२२

अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते। स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति॥१२३

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्। अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम्॥१२४

शरदि न वर्षति गर्जति वर्षति वर्षासु मेघः। नीचो वदति न कुरुते वदति न सुजनः करोत्येव॥१२५

श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमार्ष्टि। संस्कारशौचेन परं पुनीते शुद्धा हि विद्या किल कामधेनुः॥१२६

स्वच्छिद्रमनिवार्याऽपि क्षेमं कुर्यात्परस्य सन्। कलङ्की चन्द्रमा ह्याशु क्षितेर्हन्ति घनं तमः॥१२७

ग्रासाद्गलितसिक्थस्य किं गतं करिणो भवेत्। पिपीलिका तु तेनैव सकुटुम्बाऽपि जीवति॥१२८

मातृपितृकृताभ्यासो गुणितामेति बालकः। न गर्भच्युतमात्रेण पुत्रो भवति पण्डितः॥१२९

स हि गगनविहारी कल्मषध्वंसकारी दशशतकरधारी ज्योतिषां मध्यचारी। विधुरपि विधियोगाद्ग्रस्यते राहुणाऽसौ लिखितमिह ललाटे प्रोज्झितुं कः समर्थः॥१३०

ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले। आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः॥१३१

भूप्रदक्षिणषट्केन काशीयात्राऽयुतेन च। सेतुस्नानशतैर्यच्च तत्फलं मातृवन्दने॥१३२

चत्वारि राज्ञा तु महाबलेन वर्जान्याहुः पण्डितास्तानि विद्यात्। अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैः अलसैः चारणैश्च॥१३३

त्यजेद्धर्मं दयाहीनं धर्महीनां दयां तथा। त्यजेदनर्थकाभ्यासं तथानभ्यासि चिन्तनम्॥१३४

लाभप्रणयिनो नीचा मानकामा मनस्विनः। मद्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता॥१३५

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥१३६

यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते। कुठारैर्दण्डनिर्मुक्तैर्भिद्यन्ते तरवः कथम्॥१३७

उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम्। आयुषः खण्डमादाय रविरस्तं प्रयास्यति॥१३८

न कश्चिदपि जानाति किं कस्य श्वो भविष्यति। अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्॥१३९

प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम्। आत्मशक्तिसमं कोपं कुर्वाणो नावसीदति॥१४०

यदि दक्षः समारम्भात् कर्मणां नाश्नुते फलं। नास्य वाच्यं भवेत्किञ्चित् तत्त्वं चाप्यधिगच्छति॥१४१

किं दातुरखिलैर्दोषैः किं लुब्धस्याखिलैर्गुणैः। न लोभादधिको दोषो न दानादधिको गुणः॥१४२

यं येभ्यो जाताश्चिरपरिचिता एव खलु ते समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः। इदानीमेते स्मः प्रतिदिवसमासन्नपतनाद्गताः तुल्यावस्थां सिकतिलनदीतीरतरुभिः॥१४३

अज्ञाने को मतिं कुर्याद्दृष्ट्वा ज्ञानार्जनश्रमं। प्रसवार्तिभिया नारी का वन्ध्यात्वं समीहते॥१४४

ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च। पुनः पुनः प्रवर्धन्ते तस्माच्छेषन्न रक्षयेत्॥१४५

गृहमध्यनिखातेन धनेन रमते यदि। स तु तेनानुसारेण रमते किं न मेरुणा॥१४६

गवादीनां पयोऽन्येद्युः सद्यो वा दधि जायते। क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः॥१४७

तद्गोपितं स्याद्धर्मार्थं धर्मो ज्ञानार्थमेव च। ज्ञानं तु ध्यानयोगार्थमचिरात्प्रविमुच्यते॥१४८

विधौ सत्यनुकूलेऽपि ध्रुवा हि भवितव्यता। म्लायन्ति किं न पुष्पाणि मधुमासेऽपि शाखिनाम्॥१४९

तदेवास्य परं मित्रं यत्र सङ्क्रामति द्वयं। दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे॥१५०

वेदविदे खलु दत्तं दत्तं मातृहस्तेन च भुक्तं भुक्तं। स्वप्रियया सह सुप्तं सुप्तमन्यददत्तमभुक्तमसुप्तम्॥१५१

सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा। अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः॥१५२

आलस्यं कुरु पापकर्मणि भव क्रूरः क्रुधस्ताडने नैष्ठुर्यं भज लोभमोहविषये निद्रां समाधौ हरेः। जाड्यं गच्छ परापवादकथने द्रोहं विधेहि स्मरे दोषा एव गुणत्वमेवमखिला यास्यन्ति चेतस्तव॥१५३

अविश्रान्तं वहेद्भारं शीतोष्णं च न विन्दति। ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात्॥१५४

शरीररक्षणोपायाः क्रियन्ते सर्वदा बुधैः। नेच्छन्ति च पुनस्त्यागमपि कुष्ठादिरोगिणः॥१५५

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वाsर्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्॥१५६

या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥१५७

शुभा वाञ्छन्ति सत्थानं नीचा इच्छन्ति चाधमं। हंसा वसन्ति पद्मेषु प्रेतखण्डेषु गृध्रकाः॥१५२

सुवर्णघटितः श्लोकः तालपत्रेsपि शोभते। सुवर्णघटिताप्यङ्ग निन्दा नैव च नैव च॥१५३

नीलकण्ठं समासाद्य वासुकिर्वायुभक्षकः। प्राप्यापि महतां स्थानं फलं भाग्यानुसारि यत्॥१५४

नैवार्थेण न कामेन विक्रमेण न चाज्ञया। शक्या दैवगतिर्लोके निवर्ततितुमुद्यता॥१५५

सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु। सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु॥१५६

विश्लेषाय परेषां हि येषां संश्लेषणं सदा। कर्तरीप्रतिकाशेभ्यो नमस्तेभ्यो सुदूरतः॥१५७

दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरं। मुखप्रक्षालनात्पूर्वं गुदप्रक्षालनं यथा॥१५८

गुणिता शततो विद्या सहस्रावर्तिता पुनः। आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम्॥१५९

जलमभ्यासयोगेन शैलानां कुरुते क्षयं। कर्कशानां मृदुस्पर्शं किमभ्यासान्न साध्यते॥१६०

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना। किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तोsक्षमी हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः॥१६१

अन्यावादी क्रियाद्वेषी नोपस्थायी निरुत्तरः। आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः॥१६२

यद्यदालिखति मन आशावर्तिकाभिः हृदयफलके। तत्तद्बाल इव विधिर्निभृतं हसित्वा प्रोञ्छति॥१६३

तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये। आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्॥१६४

भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्ते मुखे भोगिनः। तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्तिष्ठत दैवमेव हि परं वृद्धौ क्षये कारणम्॥१६५