एकदा एकः कस्यचन लोहकारस्य समीपं गत्वा मह्यं कटाहं कृत्वा देहि इति उक्तवान् । किञ्चित्कालानन्तरम् अन्यः कश्चन आगत्य ‘मह्यम् एकां सूचिं कृत्वा देहि’ इति उक्तवान् । तदा सः लोहकारः सूचिनिर्माणकार्यं स्वीकृतवान् । यतः सूचिनिर्माणाय अधिकसमयः न भवति इति सः ज्ञातवान् । तथैव अनेकशब्दयुक्तस्य वाक्यस्य विवरणं विलम्बेन क्रियते सरलशब्दयुक्तस्य आदौ क्रियते । (सा. १९८) { व्याकरणे भूषणशास्त्रग्रन्थे धात्वर्थप्रकरणे अयम् उल्लिखितः}

"https://sa.wikiquote.org/w/index.php?title=सूचिकटाहन्यायः&oldid=11318" इत्यस्माद् प्रतिप्राप्तम्