सूत्रबद्धशकुनिन्यायः

सूत्रेण कुत्रचिद् बद्धः पक्षी यावत्प्रमाणं सूत्रं तावद् दूरम् एव गत्वा पुनः बन्धनस्थानम् एव प्रत्यागच्छति एवम् एव चञ्चलं मनः सर्वत्र भ्रमित्वा प्राणबन्धनम् एव प्रत्यागच्छति इति भावः । यथा – “ स यथा शकुनिः सूत्रेण प्रबद्धः दिशं दिशं पतित्वा अन्यत्र आयतनम् अप्राप्य बन्धनम् एव उपाश्रयते एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वा अन्यत्र आयतनम् अलब्ध्वा प्राणम् एव आश्रयते प्राणाबन्धनं हि सोम्य मनः” इति (छान्दोग्योपनिषदि ६-८-२)