सोऽकामयत । बहु स्यां...
सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत ।
स तपस्तप्त्वा । इदं सर्वमसृजत ॥ - तैत्तिरीयोपनिषत् २-६-४
स आत्मा अकामयत् ‘अहं बहु स्याम्, अहमेव प्रजायेय’ इति
सः तपः अकरोत् । सः तपः तप्त्वा इदं सर्वम् असृजत् ॥
सृष्टिप्रक्रियायाम् अयं मन्त्रः बहुमुख्यः । वेदान्तेषु ब्रह्मैव अस्य
जगतः उपादानकारणं निमित्तकारणं च । इदं विश्वं ब्रह्मणः जातं,
ब्रह्मणि विद्यमानं, ब्रह्मण्येव विलीयते । अतः इदं जगत् परमार्थतः
ब्रह्माभिन्नं सत् ब्रह्मैव ॥
“अहमेव विश्वं स्याम्” इति हि सः परमात्मा कामितवान्, न तु
“अहं विश्वं सृजानि” इति । एतस्य वादस्य वेदान्तेषु
अभिन्ननिमित्तोपादानमायासत्कार्यवादः इति नामधेयं भवति ।
साङ्ख्यादिदर्शनेषु अयं वादो नाङ्गीकृतः । अत एव तानि
मिथ्यादर्शनानि भवन्ति । घटस्य कुलालो निमित्तं कारणम्,
मृत् उपादानं कारणम् । अस्य जगतस्तु सर्वज्ञं सर्वशक्तं ब्रह्मैव
निमित्तकारणम् उपादानकारणं च । अयमेव वेदान्तेषु विशेषः ॥