सोऽहं सत्यकामो...
सोऽहं सत्यकामो जाबालोऽस्मि भोः इति । - छान्दोग्योपनिषत् ४-४-४
भोः गुरवः, अहं सत्यकामजाबालोऽस्मि इति शिष्यः अवदत् ।
सत्यकामो नाम बालकः गुरोः समीपं गत्वा 'भगवन्, अहं भवत्कुले ब्रह्मचर्यवासं कर्तुमिच्छामि,
कृपया अनुमन्यताम्' इति प्रार्थितवान् । तदा गुरुः 'तव गोत्रं किम्?' इति अपृच्छत् । तदा
सः बालकः सविनयम् एवम् अवदत् ॥
तद्यथा 'भोः आचार्य, यदा अहम् इमं विषयमधिकृत्य मम मातरम् अपृच्छं, तदा सा ’बालिकावस्थायामेव
मम विवाहो जातः, अहम् अनेकेषु गृहेषु परिचारिका सती कर्माणि कुर्वती आसम्, तदा एव त्वं मयि जातः,
अतः अहम् न तव गोत्रं वा पितरं वा जानामि; अपि तु अहं जबाला, त्वं च सत्यकामः । जबालायाः अपत्यं
पुमान्, त्वं सत्यकामजाबालः इत्येव आत्मानं कथय इति उक्तवती' इति सत्यमेव अवदत् । अतः ‘अहं
सत्यकामजाबालोऽस्मि भोः’ इति अब्रवीत् । इदं हि शिष्यस्य सत्यव्रतित्वं सत्यनिष्ठता च इदमेव हि सच्छिष्यस्य लक्षणम् ॥