स्तुहि देवं सवितारम् ॥
स्तुहि देवं सवितारम् ॥ (ऋग्वेदः ६-१-१)
सम्पाद्यताम्सर्वोत्पादकः सः सर्वदाता स्तूयताम् ।
- स्तुतिः नाम श्लाघनम् इति सामान्यतः चिन्त्यते । युक्तं वा अयुक्तं वा श्लाघनेन अस्माकं कार्यणि कारयितुं प्रयतामहे । श्लाघनप्रियाणां मानवानां विषये इदं साध्यं भवेत् चेदपि भगवतः विचारे इदं तन्त्रं न भवति फलदायकम् !! अस्माकं स्तुत्या भगवता प्राप्तव्यं न किमपि विद्यते । सः अस्ति आनन्दस्वरूपः, नित्यतृप्तश्च । तेन स्तुतिः कदापि न इष्यते एव । तर्हि भगवतः स्तुतिः कुतः ? स्तुतिः नाम गुणवर्णनम् । भगवतः गुणस्मरणम् अस्माकं लाभाय क्रियते । तान् दैवीगुणान् आत्मनि वर्धयितुं श्रद्धापूर्वकं परिश्रमः कर्तव्यः । सः सर्वोत्पादकः इत्येतत् अस्माकम् आलस्यं निवार्य अस्मान् सर्जनात्मकेषु (प्रकृतिसम्पत्तेः रक्षणे, वर्धने) कार्येषु संयोजयेत् । सः भगवान् सर्वदाता इत्येतत् सर्वैः सह संविभज्य जीवनं कर्तव्यम् इति स्मारयेत् प्रेरयेच्च । दैवीगुणानां संविभागः एव वस्तुतः 'भक्तिः' । अवशिष्टं सर्वम् आडम्बरं नाटकम् आत्मवञ्चनं वा भवेत् ।