स्थाल्यां पच्यमानस्य पुलाकस्य पक्वदशा ज्ञातव्या चेत् संपूर्णपुलाकं कोऽपि न स्पृशति परं ततः एकं कणम् एव आदाय पश्यति । एकः कणः पक्वः प्राप्तः चेत् ततः सर्वे अपि कणाः पक्वा इति अनुमातुं शक्यते । एवं यत्र समूहस्य धर्मः ज्ञातव्यः चेत् समूहस्थस्य अवयवस्य धर्मः ज्ञातव्यः इति भावः । यथा – एतन्न्यायपूर्वकं लिङ्गमेकत्रापि दृश्यमानं तुल्यन्यायानां सर्वेषां धर्मवत्तां प्रदर्शयति । यथा स्थाल्यां तुल्यपाकानां पुलकानाम् एकम् उपमृद्य अन्येषामपि सिद्धतो जानाति । (शाबरभाष्ये ७-४-१२)

"https://sa.wikiquote.org/w/index.php?title=स्थालीपुलाकन्यायः&oldid=11347" इत्यस्माद् प्रतिप्राप्तम्