स्मृतिसूक्तयः(भाग्यम्)

<poem> १. कर्मस्थानमियं धात्री

कृतमत्रोपभुज्यते ।
बृहत्पराशरस्मृतिः, १२/२८४

२. केषां प्रभुत्वं बहुजीवितं च ।

बृहत्पराशरस्मृतिः, १२/७२

३. दैवे पुरुषकारे च

कर्मसिद्धिर्व्यवस्थिता ।
याज्ञवल्क्यस्मृतिः, आचाराध्यायः , श्लोकः ३४९

४. नैकेन चक्रेणा रथः प्रयाति

न चैकपक्षो दिवि याति पक्षी ।
एवं हि दैवेन न केवलेन
पुंसोऽर्थसिद्धिर्नरकारतो वा ॥
बृहत्पराशरस्मृतिः,१२/६८

५. प्राप्नोति नैव विधिना स पराङ्मुखेन

स्वीयोदरस्य परिपूरणमन्नमात्रम् ।
बृहत्पराशरस्मृतिः १२/७०

६. यदप्यमुष्मान्न परोऽस्ति दैवात्

कुर्यात्तथापीह नरो नृकारम् ।
बृहत्पराशरस्मृतिः १२/७७

७. शुभ्राणि हर्म्याणि वराङ्गनाश्च

नानाप्रकारो विभवो नरस्य ।
उर्वीपतित्वं च नृकारता च
सर्वं हि मंजु क्षयमेति दैवात् ॥
बृहत्पराशरस्मृतिः १२/७०