स्मृतिसूक्तयः(मन्त्रः)
<poem> १. अक्षरं त्वक्षरं ज्ञेयम् ।
- मनुस्मृतिः २/८४
२. अग्नौ क्रियावतां देवो
- दिवि देवो मनीषिणाम् ।
- प्रतिमास्वल्पबुद्धीनां
- योगिनां हृदये हरिः ॥
- बृहत्पराशरस्मृतिः,४/११९
३. एक एव हि विज्ञेयः
- प्रणवो योगसाधनम् ।
- बृहद्योगियाज्ञवल्क्यस्मृतिः,२/६६
४. ओंकारं विन्दते यस्तु
- तस्य जन्म न विद्यते ।
- बृहद्योगियाज्ञवल्क्यस्मृतिः २/७२
५. कर्माणि ह्यविनाशीनि
- बीजवत् प्रभवन्ति च ।
- तानि योगाग्निदग्धानि
- न प्ररोहन्ति वै पुनः ॥
- बृहद्योगियाज्ञवल्क्यस्मृतिः, ९/ ३१
६. कुलान्यकुलतां यान्ति
- यानि हीनानि मन्त्रतः ।
- नित्याचारप्रदीपः द्वितीयभागः,पृ.१५
७. गायत्रीं यो जपेन्नित्यं
- स न पापेन लिप्यते ।
- लघुहारीतस्मृतिः ४/४८
८. गायत्र्या लक्ष्य जप्येन
- सर्वपापैः प्रमुच्यते ।
- संवर्तस्मृतिः, श्लोकः २१९
९. गायत्र्यास्तु परं जप्यं
- न भूतं न भविष्यति ।
- बृहद्योगियाज्ञवल्क्यस्मृतिः, १०/११
१०. गायत्र्यास्तु परं नास्ति
- शोधनं पापकर्मणाम् ।
- संवर्तस्मृतिः श्लोकः २१८
११. गायत्र्याः परमं नास्ति
- दिवि चेह च पावनम् ।
- शंखस्मृतिः, १२/११
१२. गायन्तं त्रायते यस्माद्
- गायत्रीति ततः स्मृता ।
- बृहद्योगियाज्ञवल्क्यस्मृतिः, ४/३५
१३. जपकाले न भाषेत
- व्रतहोमादिकेषु च ।
- बृहद्योगियाज्ञवल्क्यस्मृतिः,७/ १४७
१४. तेजस्विनां सहस्त्रांशु-
- रिन्द्रियाणां यथा मनः ।
- मेरुः शिखरिणां श्रेष्ठो
- गायत्री छन्दसां तथा ॥
- बृहद्योगियाज्ञवल्क्यस्मृतिः, ४/१५
१५. ध्यानेन सदृशं नास्ति
- शोधनं पाप कर्मणाम् ।
- बृहद्योगियाज्ञवल्क्यस्मृतिः, ९/१७८
१६. न जपं प्रसभं कुर्यात् ।
- बृहत्पराशरस्मृतिः ४/५५
१७. प्रणवं हि परं ब्रह्म
- नित्यं ब्रह्मविदो विदुः ।
- वृद्धगौतमस्मृतिः २२/५
१८. प्रणवे नित्ययुक्तस्य
- न भयं विद्यते क्वचित् ।
- बृहद्योगियाज्ञवल्क्यस्मृतिः, २/६४
१९. ब्रह्मणः प्रणवं कुर्या-
- दादावन्ते च सर्वदा ।
- मनुस्मृतिः,२/७४
२०. मन्त्रगुप्तिस्तु कर्त्तव्या
- सततं मन्त्रसिद्धये ।
- जयाख्यसंहिता, १७/४४
२१. मन्त्रदाता गुरुः प्रोक्तः ।
- स्मृतिसारसंग्रहः,पृ.६५
२२. यथा पत्रं फलं पुष्पं
- शंकुनैकेन धार्यते ।
- तथा जगदिदं सर्व-
- मोंकारेणैव धार्यते ॥
- बृहद्योगियाज्ञवल्क्यस्मृतिः २/१४६
२३. यथा वै शंकुना पर्णं
- संवृतमेव सर्वतः ।
- एवं सर्वास्तु वै वाचः
- संतीर्णा प्रणवेन तु ॥
- बृहद्योगियाज्ञवल्क्यस्मृतिः, २/४२
२४. यथा हि गौर्वत्सकृतं निशम्य
- हुंकृत्य वत्साभिमुखी प्रयाति ।
- ब्रह्मापि तद्वत् प्रणवोपहूतं
- वक्तारमागच्छति आशु वक्त्रे ॥
- बृहद्योगियाज्ञवल्क्यस्मृतिः, २/४६
२५. वाङ्मयं प्रणवः सर्वं
- तस्मात्प्रणवमभ्यसेत् ।
- योगियाज्ञवल्क्यस्मृतिः, २/१४
२६. वृथा जप्यमवैदिकम् ।
- बृहत्पराशरस्मृतिः,२/१०८
२७. स्वर्गो मोक्षः सर्वमात्मन्यधीनम् ।
- वृद्धगौतमस्मृतिः,२०/२३