स्मृतिसूक्तयः(वेदः)
<poem> १. इतिहासपुराणाभ्यां
- वेदं समुपबृंहयेत् ।
- वशिष्ठस्मृतिः नित्याचारप्रदीपः भागः २, पृ.११
२. बिभेत्यल्पश्रुताद्वेदो
- मामयं प्रहरिष्यति ॥
- वशिष्ठस्मृतिः नित्याचारप्रदीपः भागः २, पृ.११
३. नास्ति वेदात्परं शास्त्रम् ।
- अत्रिसंहिताः, श्लोकः १५१
४. यथा जातबलो बह्नि –
- र्दहत्यार्द्रानपि द्रुमान् ।
- तथा दहति वेदज्ञः
- कर्मजं दोषमात्मनः ॥
- मनुस्मृतिः १२/१०१
५. वेदप्रदानाचार्यं पितरं परिचक्षते ।
- मनुस्मृतिः, २/ १४६
६. वेद एव द्विजातीनां
- निःश्रेयसकरः परः ।
- याज्ञवल्क्यस्मृतिः , नित्याचारप्रदीपः, द्वितीयभागः, पृ.३
७. वेदविप्लावनात् तेन
- वरं मौनं समाश्रितम् ।
- लघुव्यासस्मृतिः, नित्याचारप्रदीपः, द्वितीयभागः पृ.९