स्मृतिसूक्तयः(सज्जनः)

<poem> १. अति कुपिता अपि सुजना

योगेन मृदु भवन्ति ।
शार्ङ्गधरपद्धति-सज्जनखण्डः

२. अहो सुमनसां प्रीति-

र्वादक्षिणयोः समा ।
शार्ङ्गधरपद्धतिः ३

३. तृणानि भूमिरुदकं

वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे
नोच्छिद्यन्ते कदाचन ॥
मनुस्मृतिः,३/१०१

४. देवत्वं सात्त्विका यान्ति ।

मनुस्मृतिः १२/४०

५. यथैधस्तेजसा बह्निः

प्राप्तं निर्दहति क्षणात् ।
तथा ज्ञानाग्निपापं
सर्वं दहति वेदवित् ॥
मनुस्मृतिः ११/२४७

६. स्वानि कर्माणि कुर्वाणा

दूरे सन्तोऽपि मानवाः ।
प्रिया भवन्ति लोकस्य
स्वे स्वे कर्मण्यवस्थिताः ।
मनुस्मृतिः ८/४२
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः(सज्जनः)&oldid=7891" इत्यस्माद् प्रतिप्राप्तम्