<poem> १. एकः क्षमावतां दोषो

द्वितीयो नोपपद्यते
यदेनं क्षमया युक्तम्
अशक्तं मन्यते जनः ॥ - आपस्तम्बस्मृतिः १०/५

२. क्षमा गुणो हि जन्तूनाम् । - आपस्तम्बस्मृतिः १०/५

३. क्षान्त्या शुद्धयन्ति विद्वांसः । - मनुस्मृतिः, ५/१०७

४. क्षमा जयति न क्रोधः । - वृद्धगौतमस्मृतिः, ८/ ११८

५. क्षमावान् पुरुषो भवेत् । - वृद्धगौतमस्मृतिः ८/ ११८

६. क्षमा दमः क्षमा दानं

क्षमा सत्यं क्षमा तपः ।
क्षमाऽहिंसा क्षमा धर्मः
क्षमा चेन्द्रियनिग्रहः ॥ - वृद्धगौतमस्मृतिः २०/२०
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः_(क्षमा)&oldid=7629" इत्यस्माद् प्रतिप्राप्तम्