स्मृतिसूक्तयः (ज्ञानम्)

<poem> १. अज्ञं हि बालमित्याहुः । - मनुस्मृतिः २/ १२८

२. अज्ञो भवति वै बालः । - मनुस्मृतिः २/१२८

३. ज्ञानं तीर्थं तपस्तीर्थं

ब्रह्मतीर्थं सनातनम् ।
क्षमा तु परमं तीर्थं
सर्वतीर्थेषु सर्वदा ॥ - वृद्धगौतमस्मृतिः, २०/ १८

४. ज्ञानाम्बुना स्नाति च यो हि नित्यं

किन्तस्य भूयः सलिलेन कृत्यम् ॥ - वृद्धगौतमस्मृतिः २०/२४

५. ज्ञानं प्रधानं न तु कर्महीनं

कर्मप्रधानं न तु बुद्धिहीनम् ।
तस्माद् द्वयोरेव भवेत् सिद्धि-
र्न ह्येकपक्षो विहगः प्रयाति ॥ - बृहद्योगियाज्ञवल्क्यस्मृतिः ९/२९

६. देवशुश्रूषणं तीर्थं

गुरुशुश्रूषणं तथा ।
द्विजशुश्रूषणं तीर्थं
तीर्थं ज्ञानस्य धारणम् ॥ - वृद्धगौतमस्मृतिः २०/१३

७. धरादानसमं नास्ति

विद्यादानं ततोऽधिकम् । - मार्कण्डेयस्मृतिः पृ. ११६

८. विद्यावान् सर्वकामानां

भाजनं पुरुषो भवेत् । - मार्कण्डेयस्मृतिः पृ. ११६

९. विद्या चक्षुरनुत्तमम् । - मार्कण्डेयस्मृतिः पृ. ११६

१०. वेदः साक्षाद्धरिः प्रोक्तः । - लौगाक्षिस्मृतिः ,पृ.३६३

११. सम्पदन्या ततो नास्ति

मनुष्याणां महात्मनाम् ।
देवानामपि सेन्द्राणां
वेदार्थज्ञानतः परा ॥ - लौगाक्षिस्मृतिः, पृ, ३२६