<poem> १. अकृते वैश्वदेवे तु

ये भुञ्जन्ति द्विजातयः ।
वृथा ते तेन पाकेन
काक योनिं व्रजन्ति ते ॥
शंखलिखितस्मृतिः, श्लोकः ३

२. अक्रोधनाः, सत्यपरा

धर्मनित्या दमे रताः ।
तादृशाः साधवो लोके
तेभ्यो दत्तं महत्फलम् ॥
वृद्धगौतमस्मृतिः, १२/२१

३. अनाहूतेषु यद्दत्तं

यच्च दत्तमयाचितम् ।
भविष्यति युगस्यान्त -
स्तस्यान्तो न भविष्यति ॥
व्यासस्मृतिः, ४/२६

४. अक्षरद्वयमभ्यस्तं

नास्ति नास्तीति यत्पुरा
तदिदं देहि देहीति
विपरीतमुपस्थितम् ॥
मार्कण्डेयस्मृतिः, पृ.९२

५. अदेशकाले यद् दान

मपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं
तत्तामसमुदाहृतम् ॥
मार्कण्डेयस्मृतिः पृ. ९७

६. अदेयं यच्च गृह्णाति

यश्चादेयं प्रयच्छति ।
उभौ तौ चोरवच्छास्यौ
दाप्यौ चोत्तमसाहसम् ॥
व्यवहारप्रकाशः,पृ.९९

७. अधमं याच्यमानं स्यात् ।

बृहत्पराशरसंहिता, १/२८

८. अन्नदः प्राणदो लोके

प्राणदः सर्वदो भवेत् ।
वृद्धगौतमस्मृतिः १२/ ३७

९. अन्नदानं परो धर्मः ।

परमसंहिता, १२/ ४४

१०. अन्नं प्राणो मनुष्याणा-

मन्नदः प्राणदो भवेत् ।
तस्मादन्नं विशेषेण
दातव्यं भूतिमिच्छता ॥
वृद्धगौतमस्मृतिः, ६/७३

११. अन्नाद् दशगुणं पुण्यं

लभेद् दाता न संशयः ।
लघ्वाश्वलायनस्मृतिः श्लोकः १५१

१२. अन्नदो भवति श्रीमान् ।

लौगाक्षिस्मृतिः,पृ. ३३८

१३. अन्नं ब्रह्म समाख्यातं

यतो भूतानि तेन वै ।
लौगाक्षिस्मृतिः, पृ.३३८

१४. अन्ने श्रितानि भूतानि

अन्नं प्राणमिति श्रुतिः ।
तस्मादन्नं प्रदातव्य-
मन्नं हि परमं हविः ॥
बोधायनस्मृतिः २/३/६८

१५. अपुण्यस्थाने यद्दत्तं

वृथा दानं प्रकीर्तितम् ।
बृहत्पराशरस्मृतिः १०/ ३१७

१६. अपात्रेषु तु यद्दत्तं

दहत्यासप्तमं कुलम् ।
अत्रिस्मृतिः श्लोकः,१४९

१७. अयाचित प्रदाता वै

स याति गतिमुत्तमाम् ।
वृद्धगौतमस्मृतिः ३४/४७

१८. अयाचितं धनं पूतं

शुक्लवृत्त्या समागतम् ।
प्रजापतिस्मृतिः श्लोकः ४६

१९. अर्थिने सततं देयम् ।

मार्कण्डेयस्मृतिः,पृ.१०१

२०. अश्रोत्रिये वृथा दानं

वृथा श्राद्धमदक्षिणम् ।
व्याघ्रपादस्मृतिः, श्लोकः२१७

२१. अस्नात्वाऽश्नन् मलं भुङ्क्ते

अजप्त्वा पूयशोणितम्
अजुह्वंश्च कृमीन् कीटान्
अददंश्च शकृत्तथा ॥
बृहत्पराशरस्मृतिः, २/ २२५

२२. आतुरस्य भिषङ्मित्रं

दानं मित्रं मरिष्यतः ।
शातातपस्मृतिः स्मृतिचन्द्रिका, अशोचकाण्डः,पृ,७९

२३. इष्टो वा यदि वा मूर्खो

द्वेष्यः पण्डित एव वा ।
प्राप्तस्तु वैश्वदेवान्ते
सोऽतिथिः स्वर्गसंक्रमः ।
शंखलिखितस्मृतिः, श्लोकः ६

२४. ऊषरे वापितं बीजं

भिन्नभाण्डेषु गोदुहम् ।
हुतं भस्मनि हव्यं च
मूर्खे दानमशाश्वतम् ॥
व्यासस्मृतिः ४/६३

२५. एकमप्यक्षरं यस्तु

गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं
यद् दत्त्वा त्वनृणीभवेत् ॥
लघुहारीतस्मृतिः,पृ.१७८

२६. कपिला सर्वपापघ्नी ।

मार्कण्डेयस्मृतिः,पृ.११३

२७. कामधुग्धेनुवद्दानं

फलत्याभीप्सितं फलम् ।
मार्कण्डेयस्मृतिः,पृ.९१

२८. कुटुम्बिने दरिद्राय

श्रोत्रियाय विशेषतः ।
यद्दानं दीयते तस्मै
तद्दानं शुभकारणम् ॥
पराशरस्मृतिः १२/४८

२९. कुटुम्बिने दरिद्राय

श्रोत्रियाय विशेषतः ।
यद्दानं दीयते तस्मै
तदायुर्वृद्धिकारकम् ॥
पराशरस्मृतिः, १२/४५

३०. केवलं धर्मबुद्ध्या यद्

धर्मदानं तदुच्यते ।
मार्कण्डेयस्मृतिः,पृ.९५

३१. केवलाघो भवति केवलादी । बोधायनस्मृतिः, २/ ७/ २३

३२. कृपणेन शवेनेव

मृतेनापि न दीयते ।
मांसं वर्धयता तेन
काकस्योपकृतिः कृता ॥
शार्ङ्गधरपद्धतिः, श्लोकः ३८८

३३. गुणान्विताय दातव्यं

नास्ति मूर्खे व्यतिक्रमः ।
व्यासस्मृतिः ४/३३

३४. गृहदानं महादानं

न दानं तु गृहात्परम् ।
येन दानेन अरुण !
सर्वदत्तं कृतं स्मृतम् ॥
अरुणस्मृतिः, श्लोकः३७

३५. चन्द्रसूर्यग्रहे चैव

दत्तं भवति चाक्षयम् ।
संवर्तस्मृतिः श्लोकः २०८

३६. तपः परं कृतयुगे

त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहु –
र्दानमेव कलौ युगे ॥
मार्कण्डेयस्मृतिः,पृष्ठम् ९१

३७. त्रायते दानमप्येकं

पात्रभूते कृते द्विजे ॥
वृद्धगौतमस्मृतिः ३/८०

३८. त्रीण्याहु रतिदानानि

गावः पृथ्वी सरस्वती ।
मनुस्मृतिपरिशिष्टम्

३९. त्रीण्याहुरतिदानानि

धेनुः पृथ्वी सरस्वती ।
मार्कण्डेयस्मृतिः ,पृ.११२

४०. दत्तं नैव पुनर्दद्यात् ।

लघ्वाश्वलायनस्मृतिः, श्लोकः १५३

४१. दत्तं पितॄणां किल चाक्षयं स्यात् ।

प्रजापतिस्मृतिः श्लोकः २३

४२. दरिद्रायैव हि दातव्यं

न सम्मृद्धाय पाण्डव !
वृद्धहारीतस्मृतिः, ६/९

४३. दाता नहि स्मरेद् दानम् ।

बृहत्पराशरस्मृतिः, ६/ २४२

४४. दातारः किं विचारेण

गुणवान्निर्गुणी भवेत् ।
समं वर्षति पर्जन्यः
सस्यादपि तृणादपि ॥
शंखलिखितस्मृतिः, श्लोकः ७

४५. दातारः स्युः श्रियान्विताः ।

मार्कण्डेयस्मृतिः, पृ.९२

४६. दातुः पालयितुः स्वर्गं

हर्तुर्नरकमेव च ।
व्यवहारप्रकाशः, पृ.८०

४७. दातृहस्तो भवेदूर्ध्वं

ग्रहीतुश्च भवेदधः ।
दातृयाचकयोर्भेदो
हस्ताभ्यामेव सूचितः ॥
बृहत्पराशरस्मृतिः, ६/२४५

४८. दानपालनयोर्मध्ये

दानाच्छ्रेयोऽनुपालनम् ।
दानात्स्वर्गमवाप्नोति
पालनादच्युतं पदम् ॥
व्यवहारप्रकाशः, पृ.८०

४९. दानं बन्धुर्मनुष्याणां

दानं कोशो ह्यनुत्तमः ।
मार्कण्डेयस्मृतिः पृ.९१

५०. दानमेव कलौ युगे ।

पराशरस्मृतिः, श्लोकः २३

५१. दानं दातव्यमित्येव

मतिं कृत्वा द्विजाय वै ।
उपकारवियुक्ताय
दत्तं यत्तद्धि सात्त्विकम् ॥
वृद्धगौतमस्मृतिः, ३/३७

५२. दानहोमफलं धनम् ॥

बृद्धगौतमस्मृतिः, १४/४५

५३. दानं हि विधिना देयं

काले पात्रे गुणान्विते ।
दक्षस्मृतिः ३/२५

५४. दानादृते नोपकारः ।

मार्कण्डेयस्मृतिः,पृ.९१

५५. दानानामुत्तमं दानं

विद्यादानंविदुर्बुधाः ।
मार्कण्डेयस्मृतिः,पृ.११६

५६. दानेन प्राप्यते स्वर्गो

दानेन सुखमश्नुते ।
इहामुत्र च दानेन
पूज्यो भवति मानवः ।
बृहत्पराशरस्मृतिः, १०/२

५७. दानेन भोगी भवति

मेधावी वृद्धसेवया ।
अहिंसया च दीर्घायु-
रिति प्राहुर्महर्षयः ॥
मार्कण्डेयस्मृतिः,पृ.९१

५८. दानेन लभ्यते विद्या ।

मार्कण्डेयस्मृतिः,पृ.९१

५९. दानेन शत्रून् जयति ।

मार्कण्डेयस्मृतिः,पृ.९१

६०. दीक्षाचर्या यज्ञचर्याः

सर्वचर्याः क्षणान्नृणाम् ।
दानतः सम्भवन्त्येव
तस्माद् दानपरो भवेत् ॥
मार्कण्डेयस्मृतिः,पृ. ९१

६१. द्रव्यं गुणवते देयम् ।

दक्षस्मृतिः, ३/३२

६२. धनं पवित्रं विप्राणा

मस्ति तीर्थसमर्पितम् ।
प्रजापतिस्मृतिः श्लोकः४४

६३. धनं फलति दानेन ।

बृहस्पतिस्मृतिः, श्लोकः ७१

६४. धर्मार्थे ब्राह्मणे दानं

यशोऽर्थे तदनर्थकम् ।
मनुस्मृतिपरिशिष्टम्, श्लोकः २४५

६५. न गतिर्मूर्खदानेन

न तारोऽम्बुनि चाश्मनः ।
तस्मात्तस्य न दातव्यं
सह दात्रा स मज्जति ॥
बृहत्पराशरस्मृतिः ६/२१९

६६. न ददाति द्विजो होत्रे

लोभाद् यज्ञाङ्गदक्षिणाम् ।
वित्ते सति कृतं कर्म
निष्फलं स्याद् धनक्षयः ।
लघ्वाश्वलायनस्मृतिः, श्लोकः १०/४४

६७. न दानं परिकीर्तयेत् ।

संवर्तस्मृतिः, श्लोकः ९४

६८. न दानात् परमो धर्म-

स्त्रिषु लोकेषु विद्यते ।
बृहत्पराशरस्मृतिः, १०/३

६९. न दानेन विना किञ्चित्

प्रार्थितं फलमश्नुते ।
मार्कण्डेयस्मृतिः पृ. ९१

७०. न विद्या न तपो यस्य

ह्यादत्ते च प्रतिग्रहम् ।
निपातयन् स दातार-
मात्मानमप्यधो नयेत् ॥
बृहत्पराशरस्मृतिः, ६/२२४

७१. नष्टशौचे व्रतभ्रष्टे

विप्रे वेद विवर्जिते ।
दीयमानं रुदत्यन्नं
भयाद्वै दुष्कृतं कृतम् ॥
व्यासस्मृतिः ४/५१

७२. नारुन्तुदः स्यादार्तोऽपि ।

मनुस्मृतिः, २/१६१

७३. नास्ति दानात्परं मित्र

मिह लोके परत्र च ।
अत्रिसंहिता, श्लोकः १५१

७४. नाल्पत्वं वा बहुत्वं वा

दानस्याभ्युदयावहम् ।
श्रद्धा भक्तिश्च दानानां
वृद्धिक्षयकरे स्मृते ॥
मार्कण्डेयस्मृतिः ,पृ.९४

७५. नित्यं ददाति यः साधु-

रन्नं वेदविदो मुखे ।
मुक्तः स्याद् दुरितात्पापाद्
ब्रह्मसायुज्यमश्नुते ॥
लघ्वाश्वलायनस्मृतिः, श्लोकः १५०

७६. निः स्वेभ्यो देयमेतेभ्यो

दानं विद्या विशेषतः ।
वैदिक::::मनुस्मृतिः, १०/२९

७७. न्यायेनार्जनमर्थानां

वर्धनं चाभिरक्षणम्
सत्पात्रे प्रतिपत्तिश्च
सर्वशास्त्रेषु पठ्यते ॥
मार्कण्डेयस्मृतिः ,पृ.९१

७८. परस्परस्य दानानि

लोकयात्रा न धर्मतः ।
व्यासस्मृतिः, ४/२७

७९ परदत्तापहारेण

स्वदत्तं निष्फलं भवेत् ।
मार्कण्डेयस्मृतिः,पृ.११६

८०. पापं प्रतिग्रहीतारं

प्रदा तुरुपगच्छति ।
प्रतिग्रहीतुर्यत्पुण्यं
प्रदातारमुपैति तत् ॥
वृद्धगौतमस्मृतिः ४/५२

८१. पात्रस्य हि विशेषेण

दानस्यापि फलोत्तरम् ।
मार्कण्डेयस्मृतिः,पृ.१४४

८२. पापकर्मसमायुक्ते

पतनान्नरके नरम् ।
त्रायते दानमेवैकं
पात्रभूते द्विजे कृतम् ॥
मार्कण्डेयस्मृतिः,पृ.९१

८३. पाशको मत्स्यघाती च

व्याधः शाकुनिकस्तथा ।
अदाता कर्षकश्चैव
पञ्चैते समभागिनः ।
पराशरस्मृतिः, २/१३

८४. पितॄणां नरकस्थानां

जलं तीर्थस्य दुर्लभम् ।
प्रजापतिस्मृतिः, श्लोकः २९

८५. प्रयत्नेन हि दातव्यो

महादानमयो निधिः ।
वृद्धगौतमस्मृतिः, ४/ ५३

८६. प्राप्तानामनुरूपाणां

पात्राणां दानकर्मणः
देशे कृत्स्नेऽपि काले वा
नादेयं ह्यस्ति किञ्चन ॥
मार्कण्डेयस्मृतिः, पृ. ९२

८७. प्रच्छन्नानि च दानानि

ज्ञानं च निरहंकृतम् ।
जप्यानि च सुगुप्तानि
तेषां फलमनन्तकम् ॥
बृहत्पराशरस्मृतिः, ४/६७

८८. प्रतिग्रहो न दातव्यो

न शिला तारयेच्छिलाम् ॥
स्मृतिचन्द्रिका,पृ.१६३

८९. ब्रह्मचारिगतं भैक्षं

नित्यं मेध्यमिति स्थितिः ।
बोधायनस्मृतिः, १/५/५६

९०. ब्राह्मणातिक्रमो नास्ति

विप्रे वेदविवर्जिते ।
ज्वलन्तमग्निमुत्सृज्य
नहि भस्मनि हूयते ॥
व्यासस्मृतिः, ४/३५

९१. ब्राह्मणेषु च यद्दत्तं

यच्च वैश्वानरे हुतम् ।
तद् धनं धनमाख्यातं
धनं शेषं निरर्थकम् ॥
व्यासस्मृतिः ४/३९

९२. भिक्षां ददाति विप्राय

यतये ब्रह्मचारिणे ।
स सर्वांल्लभते कामां-
स्ततो याति परां गतिम् ॥
लघ्वाश्वलायनस्मृतिः, श्लोकः १५२

९३. महदप्यफलं दानं

श्रद्धया परिवर्जितम् ।
मार्कण्डेयस्मृतिः, पृ० ९५

९४. मातापित्रोर्गुरौ मित्रे

विनीते चोपकारिणि ।
दीनानाथविशिष्टेषु
दत्तं तत्सफलं भवेत् ॥
दक्षस्मृतिः ३/१६

१५. यत्तु प्रत्युपकारार्थं

फलमुद्दिश्य वा पुनः ।
दीयते च् परिक्लिष्टं
तद् दानं राजसं स्मृतम् ।
मार्कण्डेयस्मृतिः,पृ,९७

९६. यथा जनित्री क्षीरेण

पुत्रं पुष्णाति सर्वदा ।
अनुगृह्णाति दातारं
तथा सर्वरसैर्मही ॥
मार्कण्डेयस्मृतिःपृ.११४

९७. यथेरिणे बीजमुप्त्वा

न वप्ता लभते फलम् ।
तथाऽनृचे हविर्दत्त्वा
न दाता लभते फलम् ॥
मनुस्मृतिः ३/ १४२

९८. यद् ददाति यदश्नाति

तदेव धनिनो धनम् ।
अन्ये मृतस्य क्रीडन्ति
दारैरपि धनैरपि ॥
व्यासस्मृतिः ४/१७

९९. यद् ददाति विशिष्टेभ्यो

यच्चाश्नाति दिने दिने ।
तच्च वित्तमहं मन्ये
शेषं कस्यापि रक्षति ॥
व्यासस्मृतिः ४/१६

१००. यद् दानं दीयते भक्त्या

तद् भवेत्सुमहत्फलम् ।
संवर्तस्मृतिः,श्लोकः ४९

१०१. यज्ञोऽनृतेन क्षरति

तपः क्षरति विस्मयात् ।
आयुर्विप्रापवादेन
दानं च परिकीर्तनात् ।
संवर्तस्मृतिः, श्लोकः ९५

१०२. त्यत्किंचिदपि दातव्यं

याचितेनानुसूयया ।
उत्पत्स्यते हि तत्पात्रं
यत्तारयति सर्वतः ॥
मनुस्मृतिः ४/२२८

१०३. यथाऽन्धकारं भुवनेषु लग्नं

दीपो हि निर्वापयति प्रदीप्तः ।
तथा नरे पापमपि प्रलीनं
निर्वापयेद्धि कपिला प्रदानम् ॥
वृद्धगौतमस्मृतिः, १०/७९

१०४. यथा त्वचं स्वां भुजगो विहाय

पुनर्नवं रूपमुपैति पुण्यम् ।
तथैव मुक्तः पुरुषः स्वपापाद्
विराजते वै कपिला प्रदानात् ॥
वृद्धगौतमस्मृतिः, १०/७८

१०५. यथैव दृष्ट्वा भुजगाः सुपर्ण्ं

नश्यन्ति दूराद्विवशा भयार्ताः ।
तथैव दृष्ट्वा कपिला प्रदानं
नश्यन्ति पापानि नरस्य शीघ्रम् ॥
वृद्धगौतमस्मृतिः १०/७७

१०६. यथौषधं मन्त्रकृतं नरस्य

प्रयुक्तमात्रं विनिहन्ति रोगम् ।
तथैव दत्ता कपिला सुपात्रे
पापं निहन्त्याशु नरस्य सर्वम् ॥
वृद्धगौतमस्मृतिः ९/७६

१०७. यथा जनित्री क्षीरेण

पुत्रं वर्धयति स्वकम् ।
दातारमनुगृह्णाति
दत्ता ह्येवं वसुन्धरा ॥
वृद्धगौतमस्मृतिः ६/१२०

१०८. यथा बिभर्ति गौर्वत्सं

सृजति क्षीरमात्मनः ।
तथा सर्वगुणोपेतं
भूमिदं पाति सम्पदा ॥
वृद्धगौतमस्मृतिः , ६/१२१

१०९. यथोदयस्थ सूर्यस्तु

तमः सर्वं व्यपोहति ।
तथा पापान्नरस्येह
भूमिदानं व्यपोहति ॥
वृद्धगौतमस्मृतिः ६/१२३

११०. यथा भस्म तथा मूर्खो

विद्वान् प्रज्वलिताग्निवत् ।
होतव्यं च समिद्धेऽग्नौ
जुहुयात् को नु भस्मनि ॥
बृहत्पराशरस्मृतिः ६/ २२०

१११. यथा हि क्षुधिता बाला

मातरं पर्युपासते ।
तथा सर्वाणि भूतानि
ह्यन्नमेव उपासते ॥
बृहद्योगियाज्ञवल्क्यस्मृतिः ९/१४८

११२. यस्मादन्नात्प्रजाः सर्वाः

कल्पे कल्पेऽसृजत्प्रभुः ।
तस्मादन्नात्परं दानं
विद्यते नहि किंचन ॥
संवर्तस्मृतिः श्लोकः ८१

११३. यस्मादन्नात्प्रवर्तन्ते

धर्मार्थकामाश्चैव हि ।
तस्मादन्नात्परं दानं
नामुत्रेह च पाण्डव ॥
वृद्धागौतम स्मृतिः, ६/२८

११४. यस्य वित्तं न दानाय

नोपभोगाय कल्प्यते ।
नापि कीर्त्यै न धर्माय
तस्य वित्तं निरर्थकम् ॥
मार्कण्डॆयस्मृतिः,पृ.९१

११५. यान्ग्रासान् क्षुधितो भुङ्क्ते

ते ग्रासाः क्रतुभिः समाः
शंखलिखितस्मृतिः श्लोकः

११६. येन येन तु भावेन

यद् यद् दानं प्रयच्छति ।
तत्तत्तेनैव भावेन
प्राप्नोति प्रतिपूजितः ।
मनुस्मृतिः ४/ २३४

११७. वस्त्रदात सुवेषः स्याद्

रूप्यदो रूपमेव च ।
हिरण्यदः सम्मृद्धिं च
तेजश्चायुश्च विन्दति ॥
संवर्तस्मृतिः श्लोकः ५२

११८. वर्षाणां हि तडागेषु

फलं नैव पयोधिषु ।
वृद्धगौतमस्मृतिः ७/१४

११९. वदन्ति दानं मुनयः प्रधानं

कलौ युगे नान्यदिहास्ति किंचित् ।
बृहत्पराशरस्मृतिः, १/४३

१२०. विद्यादानं महादानम् ।

ब्रह्मोक्तयाज्ञवल्क्यस्मृतिः ११/६६

१२१. विद्यादानेन पुण्येन

ब्रह्मलोके महीयते ।
संवर्तस्मृतिः, श्लोकः ८९

१२२. विद्यादानं महीदानं

कन्यादानमिदं त्रयम् ।
सर्वदानोत्तमं ज्ञेयं
तद्धि चोभयतारकम् ॥
मार्कण्डेयस्मृतिः, पृ.११६

१२३. विद्या कामदुधा धेनुः ।

मार्कण्डेयस्मृतिः,पृ.११६

१२४. वेदाक्षर विहीनाय

यत्तु पूर्वोपकारिणे ।
सम्मृद्धाय च यददानं
तद् राजसमुदाहृतम् ॥
वृद्धगौतमस्मृतिः, ३/३९

१२५. व्यर्थमब्राह्मणे दानं

पतिते तस्करेऽपि च ।
बृहत्पराशरस्मृतिः, १०/३१८

१२६. व्याधिर्दानेन नश्यति ।

मार्कण्डेयस्मृतिः,पृ.९१

१२७. वैश्वदेव विहीनाय

यद्दानं श्रोत्रियाय च
दीयते तस्करायापि
तद्दानं तामसं स्मृतम् ॥
वृद्धगौतमस्मृतिः,३/४१

१२८. राज्ञः प्रतिग्रहस्त्याज्यो

लोकत्रयजिगीषुभिः ।
बृहद्य्मस्मृतिः, ५/५९

१२९. राज्ञः प्रतिग्रहाच्चैव

ब्राह्मण्यं हि विलुप्यते ।
बृहद्यमस्मृतिः, ५/५९

१३०. लावण्य गुणसम्पत्ति –

र्दानादेव हि लभ्यते ।
दानेन लभ्यते स्वर्गः
श्रीर्दानेन हि लभ्यते ॥
मार्कण्डेयस्मृतिः,पृ.९१

१३१. शतेषु जायते शूरः

सहस्त्रेषु च पण्डितः ।
वक्ता शतसहस्त्रेषु
दाता भवति वा न वा ॥
व्यासस्मृतिः, ४/५८

१३२. शुश्रूषाऽपि परं दानं

मुक्तस्य महात्मनः ।
परमसंहिता, १२/५१

१३३. श्रद्धापूतां प्रदातव्यं

पात्रे दानं समर्चितम् ।
बृहत्पराशरस्मृतिः, ६/३०५

१३४. श्रद्धया स्वल्पमात्रं च

दत्तं कोटिगुणं भवेत् ।
प्रजापतिस्मृतिः श्लोकः २५

१३५. श्रद्धयाऽन्नं प्रदातव्य-

मिति पौराणिकी श्रुतिः ।
वृद्धगौतमस्मृतिः १२/४५

१३६. श्रोत्रियायैव देयानि

हव्यकव्यानि दातृभिः ।
मनुस्मृतिः, ३/१२८

१३७. सन्ध्याहीना व्रतभ्रष्टाः

पिशुना विषयात्मकाः ।
तेभ्यो दत्तं निष्फलं स्यात्
नात्र कार्या विचारणा ॥
बृहद्यमस्मृतिः, ५/५६

१३८. सममब्राह्मणे दानं

द्विगुणं ब्राह्मणब्रुवे ।
सहस्त्रगुणमाचार्ये
त्वनन्तं वेदपारगे ।
दक्षस्मृतिः, ३/२७

१३९. समर्थो यस्य यस्तु स्या-

दन्नं दद्यात्तु देहिनाम् ।
बृहत्पराशरस्मृतिः, ६/ ३२९

१४०. सममब्राह्मणे दानं

द्विगुणं ब्राह्मणब्रुवे ।
श्रोत्रिये शतसाहस्त्र् –
मनन्तं वेदपारगे ॥
मार्कण्डेयस्मृतिः,प्. १४४

१४१. सर्वेषामेव दानानां

ज्ञानदानं विशिष्यते ।
परमसंहिता, ३१/ ५५

१४२. सर्वेषामेव दानाना-

मन्नदानं परं स्मृतम् ।
संवर्तस्मृतिः, श्लोकः ८१

१४३. सर्वदानफलं वक्तुं

शक्यते किल केवलम् ।
न तु कन्यादानफलं
वक्तुं युगशतेन वै ।
मार्कण्डॆयस्मृतिः,पृ.११६

१४४. सर्वं गवादिकं दानं

पात्रे दातव्यमर्चितम् ।
बृहत्पराशरस्मृतिः, ६/२२७

१४५. सात्त्विकं भावमास्थाय

दानं दद्याद् विचक्षणः ।
संवर्तस्मृतिः,श्लोकः २११

१४६. सात्त्विकानां तु दानाना-

मुत्तमं फलमिष्यते ।
वृद्धगौतमस्मृतिः, ३/४५

१४७. सागराः सरितः शैला-

स्तीर्थानि विविधानि च ।
सर्वाणि भूमिदानस्य
कलां नार्हन्ति षोडशीम् ॥
मार्कण्डेयस्मृतिः

१४८. सुवर्णदानं गोदानं

भूमिदानं तथैव च ।
नाशयत्याशु पापानि
ह्यन्य जन्म कृतान्यपि ।
संवर्तस्मृतिः, श्लोकः २०४

१४९. सुक्षेत्रे च सुपात्रे च

ह्युप्तं दत्तं न नश्यति ।
पराशरस्मृतिः श्लोकः १/४७

१५०. सुवर्णदानं भूदानं

गोदानं चैव वासव ।
एतत्प्रयच्छमानस्तु
सर्वपापैः प्रमुच्यते ॥
बृहस्पतिस्मृतिः, श्लोकः ४

१५१. हतं श्राद्धमदक्षिणम् ।

वशिष्ठस्मृतिः १/१२
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः_(दानम्)&oldid=8498" इत्यस्माद् प्रतिप्राप्तम्