स्मृतिसूक्तयः (ब्राह्मणः)
१. अग्रं वृक्षस्य राजानो
- मूलं वृक्षस्य ब्राह्मणाः ।
- तस्मान्मूलं न हिंसीया –
- न्मूलादग्रं प्ररोहति ॥ - शंखलिखितस्मृतिः, श्लोकः २२
२. अनभ्यासेन वेदाना-
- माचारस्य च वर्जनात्
- आलस्यादन्नदोषाच्च
- मृत्युर्विप्रान् जिघांसति ॥ - मनुस्मृतिः ५/४
३. अनूचानो मुनिः श्रेयान्
- सर्वेषां च तपस्विनाम् । - अहिर्बुध्न्यसंहिता, ३३/ ६१
४. अब्रह्मण्यं हतं क्षात्रम् । - वशिष्ठस्मृतिः, १/१२
५. अविद्वांश्चैव विद्वांश्च
- ब्राह्मणो दैवतं महत् । - मनुस्मृतिः, ९/ ३१७
६. असत्पथेन विप्रस्य गमनं हि विरुध्यते । - वृहद्योगियाज्ञवल्क्यस्मृतिः, १२/४३
७. आतुरो दुःखितो वापि
- भयार्तो वा बुभुक्षितः ।
- भुञ्जन्नविधिना विप्रः
- प्रायश्चित्तीयते न च ॥ - वृद्धगौतमस्मृतिः १४/४
८. एतद्देशप्रसूतस्य
- सकाशादग्रजन्मनः
- स्वं स्वं चरित्रं शिक्षेरन्
- पृथिव्यां सर्वमानवाः ॥ - मनुस्मृतिः,१/१३९
९. कलिधर्म परो न स्याद्
- ब्राह्मणो वैदिकोत्तमः । - लौगाक्षिस्मृतिः,पृ. ३६४
१०. कर्तव्यं यत्नतः शौचं
- शौचमूला द्विजातयः । - बृहत्पराशरस्मृतिः, ६/२१२
११. कैवल्यं ब्राह्मणस्यैव
- ज्ञानेनैव न चान्यतः । - मार्कण्डेयस्मृतिः, पृ. १८
१२. गावो भूमिः कलत्रं च
- ब्रह्मस्व हरणं तथा ।
- यस्तु न त्रायते राजा
- तमाहुर्ब्रह्मघातकम् ॥ - शंखलिखितस्मृतिः, श्लोकः २४
१३. ग्रामस्थानं यथा शून्यं
- यथा कूपस्तु निर्जलः ।
- यथा हुतमनग्नौ च
- अमन्त्रो ब्राह्मणस्तथा ॥ - पराशरस्मृतिः, ८/२४
१४. जन्मना ब्राह्मणो ज्ञेयः
- संस्काराद् द्विज उच्यते । - अत्रिसंहिता, श्लोकः १४०
१५. तेषां वाक्योदकेनैव
- शुध्यन्ति मलिना जनाः । - शातातपस्मृतिः, श्लोकः ३०
१६. त्रिपदा चैव गायत्री
- विज्ञेयं ब्राह्मणो मुखम् । - मनुस्मृतिः २/८१
१७. दहत्यग्निस्तेजसा च
- सूर्यो दहति रश्मिना ।
- राजा दहति दण्डेन
- विप्रो दहति मन्युना ॥ - शंखलिखितस्मृतिः,श्लोकः ३०
१८. धर्मशास्त्ररथारूढा
- वेदखङ्गधरा द्विजाः ।
- क्रीडार्थमपि यद् ब्रूयुः
- स धर्मः परमो मतः ॥ - बोधायनस्मृतिः १/१/१४
१९. नन्दन्त्योषधयः सर्वा
- वेदज्ञे गृहमागते ।
- वयमेतत्कुक्षिगता
- यास्यामः परमां गतिम् ॥ - लौगाक्षिस्मृतिः,पृ,३६५
२०. नवमान्या द्विजाः प्राज्ञै-
- र्देवरूपा हि ते द्विजाः । - वृद्धगौतमस्मृतिः, ४/३९
२१. न विद्यया केवलया
- तपसा वापि पात्रता ।
- पात्रमित्युच्यते विप्र-
- स्तपो विद्या समन्वितः ॥ - वृद्धहारीतस्मृतिः, ४/ २२१
२२. न शारीरो ब्राह्मणस्य
- दण्डो भवति कर्हिचित् । - व्यवहारनिर्णयः पृ. ४९५
२३. नाब्रह्म क्षत्रमृध्नोति
- नाक्षत्रं ब्रह्म वर्धते ।
- ब्रह्म क्षत्रं च सम्पृक्त-
- मिह चामुत्र वर्धते ॥ - मनुस्मृतिः, ९/ ३२२
२४. नास्ति विप्रात् परं तीर्थं
- न पुण्यं ब्राह्मणात्परम् ॥ - वृद्धगौतमस्मृतिः, ३/७८
२५. नित्यं योगरतो विद्वान्
- समलोष्टाश्म कांचनः । - शंखस्मृतिः १४/८
२६. निवृत्तः पापकर्मभ्यः
- प्रवृत्तः पुण्यकर्मसु ।
- यो विप्रस्तस्य सिध्यन्ति ।
- विना यत्नैरपि क्रियाः ॥ - बोधायनस्मृतिः, ४/७/१
२७. पन्था देयो ब्राह्मणाय
- गवे राज्ञे ह्यचक्षुषे ।
- वृद्धाय भारतप्ताय
- गर्भिण्यै दुर्बलाय च । - बोधायनस्मृतिः,२/३/५७
२८. परद्रव्य परक्षेत्र
- परदार पराङ्मुखान् ।
- गृह्णीयात्सर्वकृत्येषु
- ब्राह्मणान् ब्रह्मवादितः ॥ - मार्कण्डेयस्मृतिः, पृ. ५९ क्
२९. ब्रह्म चैव धनं येषां
- को हिंस्यात्तान् जिजीविषुः । - मनुस्मृतिः, ९/ ३१६
३०. ब्राह्मणानां धनं वेदाः
- ॠग्यजुः सामनामकाः । - लौगाक्षिस्मृतिः,पृ.३६४
३१. ब्राह्मणान्न परीक्षेत
- दैवे कर्मणि धर्मवित् । - शंखस्मृतिः १४/१
३२. ब्राह्मणार्थे गवार्थे वा
- यस्तु प्राणान् परित्यजेत् ।
- मुच्यते ब्रह्महत्याद्यै-
- र्गोप्ता गोब्राह्मणस्य च ॥ - पराशरस्मृतिः, ८/४२
३३. ब्राह्मणस्वं न हर्तव्यं
- क्षत्रियेण कदाचन । - मनुस्मृतिः,११/८
३४. भूतानां प्राणिनः श्रेष्ठाः
- प्राणिनां बुद्धिजीविनः ।
- बुद्धिमत्सुः नराः श्रेष्ठाः
- नरेषु ब्राह्मणाः स्मृताः ॥ - मनुस्मृतिः, १/९६
३५. मन्त्रार्थो ब्राह्मणमुखाद्
- विज्ञेयो नान्यवर्त्मना । - मार्कण्डेयस्मृतिः,पृ.६०
३६. यथाऽन्नं मधुसर्पिभ्यां
- संयुक्तं स्वादुतां व्रजेत् ।
- एवं विद्या तपो योगै-
- र्ब्राह्मणः पात्रतां व्रजेत् ॥ - बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/ २४
३७. यथा काष्ठमयो हस्ती
- यथा चर्ममयो मृगः ।
- ब्राह्मणस्त्वनधीयान् –
- स्त्रयस्ते नामधारकाः ॥ - पराशरस्मृतिः,८/ २४
३८. यथा सर्वास्ववस्थासु
- पावको दैवतं महत् ।
- तथा सर्वास्ववस्थासु
- ब्राह्मणो दैवतं महत् ॥ - वृद्धगौतमस्मृतिः ३/६७
३९. यद् धनं यज्ञशीलानां
- देवस्वं तद्विदुर्बुधाः । - मनुस्मृतिः ११/२०
४०. यस्तु प्रव्रजितो भूत्वा
- पुनः सेवेत मैथुनम् ।
- षष्टि वर्षसहस्त्राणि
- विष्ठायां जायते कृमिः ॥ - लघुशातातपस्मृतिः,श्लोकः ६०
४१. युगे युगे तु ये धर्मा-
- स्तेषु तेषु च ये द्विजाः ।
- तेषां निन्दा न कर्त्तव्या
- युगरूपा हि ते द्विजाः ॥ - पराशरस्मृतिः ११/५२
४२. येषामध्ययनं नास्ति
- ये च केचिदनग्नयः ।
- न कुलं श्रोत्रियं येषां
- सर्वे ते शूद्रधर्मिणः ॥ - लघुशातातपस्मृतिः, श्लोकः ५१
४३. योऽनधीत्य द्विजो वेद-
- मन्यत्र कुरुते श्रमम् ।
- स जीवन्नेव शूद्रत्व –
- माशु गच्छति सान्वयः ॥ - मनुस्मृतिः, २/ १४३
४४. श्रोत्रियेभ्यः परं नास्ति
- दैवतं तारणं महत् । - वृद्धगौतमस्मृतिः, ७/ १३३
४५. लक्षणानि तु विप्रस्य
- दमो दानं दयाऽपि च । - अत्रिसंहिता, श्लोकः ३३
४६. विद्या तपश्च योगश्च
- ब्राह्मणस्यैव लक्षणम् । - मार्कण्डेयस्मृतिः,पृ.१४२
४७. विद्या विनय सम्पन्नः
- पात्रभूतो द्विजोत्तमः । - बृहद्यमस्मृतिः, श्लोकः ३/४२
४८. विप्राणां ज्ञानतो ज्येष्ठ्यम् - मनुस्मृतिः, २/१३०
४९. वेदः कृत्स्नोऽधिगन्तव्यः
- सरहस्यो द्विजन्मना ॥ - मनुस्मृतिः,२/१६५
५०. वेदाभ्यासो हि विप्रस्य
- तपः परमिहोच्यते ॥ - मनुस्मृतिः,२/१४१
५१. शस्त्रं द्विजातिभिर्ग्राह्यं
- धर्मो यत्रोपरुध्यते । - वैदिकमनुस्मृतिः,८/२१३
५२. शौचमूलो द्विजः स्मृतः । - दक्षस्मृतिः, ५/२
५३. श्रोत्रिया न पराधीनाः । - व्यासस्मृतिः, तृतीयखण्डः,पृ. १७४
५४. सन्ध्यां नोपासते यस्तु
- ब्राह्मणस्तु विशेषतः ।
- स जीवन्नेव शूद्रः स्या-
- न्मृतः श्वा चैव जायते ॥ - दक्षस्मृतिः, २/२२
५५. सन्ध्यां नोपासते विप्राः
- कथं ते ब्राह्मणाः स्मृताः । - बोधायनस्मृतिः, २/४/१९
५६. सम्मानाद् ब्राह्मणो नित्य-
- मुद्विजेत विषादिव । - मनुस्मृतिः २/ १३७
५७. सर्वं वै ब्राह्मणोऽर्हति । - मनुस्मृतिः , १/१००
५८. सर्वेषामेव वै मान्यो
- वेदविद् द्विज एव हि । - लघ्वाश्वलायनस्मृतिः, २२/२
५९. स्वयमेव ब्राह्मणो भुङ्क्ते
- स्वं वस्ते स्वं ददाति च । - मनुस्मृतिः, १/१०१
६०. हिताय हि प्रवर्तन्ते
- ब्राह्मणाः सततं सदा । - मार्कण्डेयस्मृतिः,पृ.२२
६१. चक्रात् तीक्ष्णतरो मन्युः । - शंखलिखितस्मृतिः, श्लोकः ३१
६२. दुर्लभो ब्राह्मणोत्तमः । - मार्कण्डेयस्मृतिः,पृ.१४४
६३. न विप्राः शस्त्रपाणयः । - वृद्धगौतमस्मृतिः, ३/६९
६४. नास्ति विप्रात् परा गतिः । - वृद्धगौतमस्मृतिः ३/७८
६५. प्राणसंकटे ब्राह्मणोऽपि शस्त्रमाददीत । - गौतमस्मृतिः, सप्तमोऽध्यायः
६६. मनो दाम्यं सदा द्विजैः । - बृहत्पराशरस्मृतिः, ६/२५३
६७. राजा सर्वस्येष्टे ब्राह्मणवर्जम् । - गौतमस्मृतिः, अध्यायः ११
६८. वयसा लघवोऽपि स्युर्वृद्धा धर्मविदो जनाः । - वृहत्पराशरस्मृतिः, ८/ ७१
६९. विप्रत्वमतिदुर्लभम् । - मार्कण्डेयस्मृतिः