स्मृतिसूक्तयः (राजा)
<poem> १. अन्यथावादिनो यस्य
- दूतास्तस्य पराजयः । - विष्णुस्मृतिः,पृ.४५४
२. अभयस्य हि यो दाता
- स पूज्यः सततं नृपः । - वैदिकमनुस्मृतिः ८/१८२
३. अदण्ड्यदण्डनं लोके
- यशोघ्नं कीर्तिनाशनम् । - व्यवहारनिर्णयः,पृ. ५२६
४. अदण्ड्यान् दण्डयन् राजा
- दण्ड्यांश्चैवाप्यदंडयन् ।
- अयशो महदाप्नोति ।
- नरकं चैव गच्छति ॥ - मनुस्मृतिः,८/१२८
५. कल्पद्रुमो न जानाति
- न ददाति बृहस्पतिः ।
- अयं तु जगती जानि-
- र्जानाति च ददाति च ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १२४२
६. जानन्ति पशवो गन्धाद्
- वेदाज्जानन्ति पण्डिताः ।
- चाराज्जानन्ति राजान्-
- श्चक्षुर्भ्यामितरे जनाः ॥ - शार्ङ्गधरसंहिता, श्लोकः १४४८
७. दण्ड्येषु दण्डं विदधाति भूभृत्
- साम्यं स विदधाति पुरन्दरस्य । - बृहत्पराशरस्मृतिः,१२/८४
८. दुर्बलानामनाथानां
- बालवृद्धतपस्विनाम् ।
- अन्यायैः परिभूतानां
- सर्वेषां पार्थिवो गतिः ॥ - शंखलिखितस्मृतिः, श्लोकः २५
९. धर्मेणैव सदा राजा
- पालयेत् पृथिवीमिमाम् । - वृद्धहारीतस्मृतिः, ४/२६०
१०. न राजानमराजा हन्यात् । - याज्ञवल्क्यस्मृतिः, मिताक्षरा, आचाराध्यायः श्लोकः ३२६
११. न व्रतैर्नोपवासैश्च
- न च यज्ञैः पृथग्विधैः ।
- राजा स्वर्गमवाप्नोति
- प्राप्नोति परिपालनात् ॥ - शंखस्मृतिः, ५/९
१२. नादण्ड्यो नाम राज्ञोऽस्ति
- यः स्वधर्मे न तिष्ठति । - वैदिकमनुस्मृतिः, ८/२०४
१३. नातः परतरो धर्मः
- नृपाणां नरशालिनाम् ।
- युद्धलब्धा महीशस्य
- दीयते नृपसत्तमैः । - वृद्धहारीतस्मृतिः, ४/२१९
१४. निर्गुणोऽपि यथा स्त्रीणां
- सदा पूज्यः पतिर्भवेत् ।
- तथा राजाऽपि लोकानां
- पूज्यः स्याद् विगुणोऽपि सन् ॥ - बृहत्पराशरस्मृतिः १२/७
१५. निकटस्थायिनो नित्यं
- जानन्ति चेष्टितं प्रभोः ।
- तस्मात्ते यत्नतो रक्ष्या
- भेदमूलं यतस्त्वमी ॥ - बृहत्पराशरस्मृतिः १२/३१
१६. नोपेक्षेत क्षणमपि
- राजा साहसिकं नरम् । - वैदिकमनुस्मृतिः ८/२०९
१७. पक्षिणां बलमाकाशं
- मत्स्यानामुदकं बलम् ।
- दुर्बलस्य बलं राजा
- बालस्य रुदितं बलम् ॥ - शंखलिखितस्मृतिः श्लोकः २८
१८. पीड्यमानाः प्रजा रक्षेत्
- कायस्थैश्च विशेषतः । - याज्ञवल्क्यस्मृतिः, आचाराध्यायः, श्लोकः ३३६
१९. म्रियमाणोऽप्याददीत
- न राजा श्रोत्रियात्करम् । - मनुस्मृतिः ७/१३३
२०. यस्य राज्ञस्तु विषये
- श्रोत्रियः सीदति क्षुधा ।
- तस्यापि तत्क्षुधा राष्ट्र –
- मचिरेणैव सीदति ॥ - मनुस्मृतिः ७/१३४
२१. यस्य मन्त्रं न जानन्ति
- समागम्य पृथग्जनाः ।
- स कृत्स्नां पृथिवीं भुङ्क्ते
- कोशहीनोऽपि पार्थिवः ॥ - मनुस्मृतिः ७/१४८
२२. यावानवध्यस्य वधे
- तावान्वध्यस्य मोक्षणे ।
- अधर्मो नृपतेर्दृष्टो
- धर्मस्तु विनियच्छतः ॥ - मनुस्मृतिः ९/२४९
२३. येन येन यथाङ्गेन
- स्तेनो नृषु विचेष्टते ।
- तत्तदेव हरेत्तस्य
- प्रत्यादेशाय पार्थिवः ॥ - मनुस्मृतिः ८/३३४
२४. राजा पिता च माता च
- राजा च परमो गुरुः ।
- राजा च सर्वभूतानां - परित्राता गुरुर्मतः ॥ - शंखलिखितस्मृतिः, श्लोकः २६
२५. राजा हि युगमुच्यते । - वैदिकमनुस्मृतिः, ९/१३७
२६. राजा सर्वस्येष्टे ब्राह्मणवर्जम् । - गौतमस्मृतिः एकादश अध्यायः
२७. शरीर कर्षणात्प्राणाः
- क्षीयन्ते प्राणिनां यथा ।
- तथा राज्ञामपि प्राणाः
- क्षीयन्ते राष्ट्रकर्षणात् ॥ - मनुस्मृतिः, ७/११२
२८. सदा चोद्यमिना भाव्यं
- नृपेण विजिगीषुणा । - बृहत्पराशरस्मृतिः १२/६५
२९. सर्वतो धर्मषड्भागं
- राज्ञो भवति रक्षतः ।
- अधर्मादपि षड्भागो
- भवत्यस्य ह्यरक्षतः ॥ - मनुस्मृतिः ८/३०४
३०. सन्धिं छित्त्वा तु ये चौर्यं
- रात्रौ कुर्वन्ति तस्कराः ।
- तेषां छित्त्वा नृपो हस्तौ
- तीक्ष्णे शूले निवेशयेत् ॥ - मनुस्मृतिः, ९/२७६
३१. साधून् सम्मानयेद् राजा
- विपरीतांस्तु घातयेत् । - याज्ञवल्क्यस्मृतिः आचाराध्यायः, श्लोकः ३३८
३२. दुष्टस्य दण्डः सुजनस्य पूजा
- न्यायेन कोषस्य च सम्प्रवृद्धिः ।
- अपक्षपातोऽर्थिषु राष्ट्ररक्षा
- पञ्चैव यज्ञाः कथिताः नृपाणाम् ॥ - अत्रिसंहिता, श्लोकः २८
३३. रागादज्ञानतो वापि
- लोभाद्वा योऽन्यथा वदेत् ।
- सभ्योऽसभ्यः स विज्ञेय-
- स्तं पापं विनयेन्नृपः ॥ - नारदस्मृतिः,१/६७
३४. राजा दण्डधरः स्मृतः । - नारदस्मृतिः १/२