स्मृतिसूक्तयः (वैराग्यम्)

<poem> १. अत्यन्तमलिनः कायो

नवच्छिद्रसमन्वितः । - दक्षस्मृतिः २/७

२. असत्सङ्गाद् गुणज्ञोऽपि

विषयासक्तमानसः ।
अकस्मात् प्रलयं याति
गीतरक्तो यथा मृगः ॥ - शार्ङ्गधरपद्धतिः श्लोकः ४१८९

३. आत्माधीनशरीराणां

स्वपतां निद्रया स्वया ।
कदन्नमपि मर्त्याना-
ममृतत्वाय कल्पते ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ३१८

४. इच्छानुरूपो विभवः

कदा कस्य भविष्यति । - व्यासस्मृतिः, ४/२३

५. इन्द्रियाणां जये शूरः । - व्यासस्मृतिः ४/६०

६. इन्द्रियाणां प्रसंगेन

दोषमृच्छत्यसंशयम् । - मनुस्मृतिः, २/ ६८

७. उदारस्य तृणं वित्तं

शूरस्य मरणं तृणम् ।
विरक्तस्य तृणं भार्या
निःस्पृहस्य तृणं जगत् ॥ - शार्ङ्गधरपद्धतिः श्लोकः ३८९

८. उपहरणं विभवानां

संहरणं सकलदुरितजालस्य । - शार्ङ्गधरपद्धतिः श्लोकः ९२

९. एकाकी विचरेन्नित्यम् । - विष्णुस्मृतिः, ४/१०

१०. एकेऽद्य प्रातरपरे

पश्चादन्ये पुनः परे ।
सर्वे निःसीम्नि संसारे
यान्ति कः केन शोच्यते ॥ - शार्ङ्गधरपद्धतिः श्लोकः ४१३७

११. एता यः प्रेक्षसे लक्ष्मी-

श्छत्रचामरचंचलाः
स्वप्न एष महाबुद्धे
दिनानि त्रीणि पंच वा ॥ - शार्ङ्गधरपद्धतिः श्लोकः ४११९

१२. कः प्रार्थ्यते मदनविह्वलया युवत्या । - शार्ङ्गधरपद्धतिः श्लोकः ५५५

१३. कृतकृत्याः प्रतीक्षन्ते

मृत्युं प्रियमिवातिथिम् । - वृद्धगौतमस्मृतिः ८/६

१४. गर्भवासे च जनने

बाल्ये वास्य कुतः सुखम् ।
अस्वतन्त्रस्येव परै-
र्यन्त्रितस्येव पक्षिणः ॥ - ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम्, योगपादः, श्लोकः ३३

१५. च्युता दन्ताः सिताः केशाः

दृङ्निरोधः पदे पदे ।
पतिसज्जमिमं देहं
तृष्णा साध्वी न मुञ्चति ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ४२३

१६. जगदेतन्निराक्रन्दं

निस्सारकमनर्थकम् । - शंखस्मृतिः, ७/१०

१७. जितेन्द्रियस्य किं शौचैः । - बृहत्पराशरस्मृतिः, ६/२१८

१८. जीर्यन्ति जीर्यतः केशाः

दन्ताः जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्रे च जीर्यन्ति
तृष्णैका निरुपद्रवाः ॥ - ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम्, योगपादः, पृ.६०९

१९. जीवन्ति जीविते यस्य

विप्रमित्राणि बान्धवाः ।
जीवितं सफलं तस्य
चात्मार्थे को न जीवति ॥ - व्यासस्मृतिः ४/२१

२०. त्यागाच्छान्तिरनुत्तमा । - बृहद्योगियाज्ञवल्क्यस्मृतिः, ९/१९८

२१. त्यागेनैवामृतत्वं हि

प्राप्तुं शक्यं मनीषिभिः । - ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम्, पृ.६१०

२२. त्वङ्मांसरक्तवाष्पाम्बु

पृथक् कृत्वा विलोचने ।
समालोकय रम्यं चेत्
किं मुधा परिमुह्यसि ॥ - श्रुतिसिद्धान्तसारसंग्रहः साधनप्रकरणं, श्लोकः ९३

२३. दरिद्रोऽर्थं ततो राज्यं

तथेन्द्रत्वं ततोऽक्षयम् ।
पदं वाञ्छति नान्तोऽस्ति
तस्मात्तृष्णां परित्यजेत् ॥ - व्यासस्मृतिः स्मृतिचन्द्रिका द्वितीयखण्डः,पृ. ४५९

२४. देहे चेत्प्रीयते कश्चित्

प्रीयते नरकेऽपि सः । - ईशानशिवगुरुदेवपद्धतिः, प्रथमपटलः योगपादम्, श्लोकः २४

२५. नहि प्रमाणं जन्तूना-

मुत्तरक्षण जीवने ।
तस्मादात्महितं नित्यं
चिन्तयन्नेव तच्चरेत् ॥ - पूर्वांगिरसस्मृतिः, श्लोकः ३१५

२६. नित्यं सन्निहितो मृत्युः

कर्तव्यो धर्मसंग्रहः । - व्यासस्मृतिः, ४/१९

२७. पतनान्ता समुच्छ्रयाः । - कात्यायनस्मृतिः २२/८

२८. परिष्वक्तो नरो नार्या

ह्लादमेति यथा युवा ।
तल्पस्थोऽपि सकामां तां
भावहीनो न कामयेत् ॥ - बृहत्पराशरस्मृतिः, १२/३५२

२९. पशवोऽपि हि जीवन्ति

केवलात्मोदरम्भराः ।
किं कायेन सुगुप्तेन
बलिना चिरजीविना ॥ - व्यासस्मृतिः, ४/२२

३०. फलं हि मोक्षो योगस्य । - ईशानशिवगुरुदेवपद्धतिः, योगपादः तृतीयपटलम्, श्लोकः ९४

३१. बलवानिन्द्रियग्रामो

विद्वान्समपि कर्षति । - मनुस्मृतिः,२/१९०

३२. मनसि च परितुष्टे

कोऽर्थवान् को दरिद्रः । - शार्ङ्गधरपद्धतिः श्लोकः ३०८

३३. मरणान्तं हि जीवितम् । - कात्यायनस्मृतिः, २२/८

३४. मानुष्ये कदलीस्तम्भे

निस्सारे सारमार्गणम् ।
यः करोति स सम्मूढो
जलबुद्बुद्सन्निभे ॥ - कात्यायनस्मृतिः, २२/५

३५. मृत्युकाले मतिर्या स्यात्

तां गतिं याति मानवः । - बृहत्पराशरस्मृतिः, १२/३५४

३६. मोक्षमार्गः परो योगः

साङ्गः साध्यो विपश्चिता । - ईशानशिवगुरुदेवपद्धतिः,पृ,६१०

३७. यतो यतो निवर्तते

ततस्ततः सुखी भवेत् ।
निवर्तनाद्धि सर्वतो
न वेत्ति दुःखमण्वपि ॥ - ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम्, श्लोकः ४४

३८. यत्पृथिव्यां ब्रीहियवं

हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तु यत् –
स्तां तृष्णां दूरतस्त्यजेत् ॥ - ईशानशिवगुरुदेवपद्धतिः योगपादः, प्रथमपटलम्,पृ,६०९

३९. यथा यथा निषेवन्ते

विषयान्विषयात्मकाः ।
तथा तथा कुशलता
तेषां तेषूपजायते ॥ - मनुस्मृतिः, १२/७३

४०. यदा भावेन भवति

सर्वभावेषु निः स्पृहः ।
तदा सुखमवाप्नोति
प्रेत्य चेह च शाश्वतम् ॥ - मनुस्मृतिः ६/ ८०

४१. यदि नाम न धर्माय

न कामाय न कीर्तये ।
यत्परित्यज्य गन्तव्यं
तद्धनं किं न दीयते ॥ - व्यासस्मृतिः ४/२०

४२. यद् यद् गृहे तन्मनसि

यत्र तत्रावतिष्ठतः ।
नाशव्ययादिभीत्या
क्व परिग्रहवतां सुखम् ॥ - ईशानशिवगुरुदेवपद्धतिः योगपादः, प्रथमपटलम्, श्लोकः ४३

४३. यद्वर्धयितुमिच्छन्ति

तच्छरीरमशाश्वतम् । - व्यासस्मृतिः ४/१८

४४. यावतः कुरुते जन्तुः

सम्बन्धान् मनसः प्रियान् ।
तावन्तोऽस्य निखन्यन्ते
हृदये शोकशङ्कवः ॥ - ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम्, श्लोकः ४२

४५. यौवनेऽनिष्ट संयोगा-

दिष्टलाभे वियोगतः ।
रागाद्याक्रान्तचित्तस्य
कुतः सौख्यं शरीरिणः ॥ - ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम् योगपादः, श्लोकः ३४

४६. यः कालाकालविद्विप्रो

नैनः स्पर्शी स कर्हिचित् । - बृहत्पराशरस्मृतिः, ६/९०

४७. वर्तमानं क्षणातीतं

सम्बन्धः कस्य केन वा । - शार्ङ्गधरपद्धतिः, श्लोकः ४१२६

४८. विषं विषयवैषम्यं

न विषं विषमुच्यते ।
जन्मान्तरघ्ना विषयाः
एक जन्महरं विषम् ॥ - श्रुतिसिद्धान्तसारसंग्रहः साधनप्रकरणं, श्लोकः १२५

४९. वेषलंघनमात्रेण

देही मोक्षं कथं व्रजेत् । - ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम् ,श्लोकः ४७

५०. व्रतानि यम धर्माश्च

सर्वे सङ्कल्पजाः स्मृताः । - मनुस्मृतिः २/३

५१. व्रणादेस्तु यथा पूय –

मूत्रादेर्निगमात् सुखम् ।
पापकण्डूतिसौख्यं वा
तत्तुल्यं सुरते सुखम् ॥ - ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम् योगपादः, श्लोकः २७

५२. संयोगा विप्रयोगान्ताः । - कात्यायनस्मृतिः २२/८

५३. सततं स्रवतेऽमेध्यं

किं देहस्योच्यते शुभम् । - बृहत्पराशरस्मृतिः, १२/१८५

५४. सर्वस्त्विन्द्रियलौल्येन

संकटान्यवगाहते । - व्यासस्मृतिः स्मृतिचन्द्रिका द्वितीयखण्ड, पृ. ४५९

५५. सर्वे क्षयान्ता निचयाः । - कात्यायनस्मृतिः २२/८

५६. सौख्यं त्वगस्थिमांसादौ

कतरत्स्यान्मनोहरम् । - ईशानशिवगुरुदेवपद्धतिः, प्रथमपटलम् योगपादम्, श्लोकः २९

५७. हा कष्टं पुरुषस्य् जीर्णवयसः

पुत्रोऽप्यमित्रायते । - शार्ङ्गधरपद्धतिः, श्लोकः ४१६१

५८. हृदि सर्वं प्रतिष्ठितम् । - शंखस्मृतिः, ७/१५

५९. हृदिस्था देवताः सर्वाः । - शंखस्मृतिः