स्मृतिसूक्तयः (सत्यम्)
<poem> १. अश्वमेधसहस्त्राद्धि
- सत्यमेवातिरिच्यते ।
- व्यवहारप्रकाशः पृ.१२२
२. इहैव तस्य देवत्वं
- यस्य सत्ये स्थिता मतिः ।
- मनुस्मृतिः परिशिष्टम्, श्लोकः ६२
३. रक्षेत्सत्यं समाहितः ।
- याज्ञवल्क्यस्मृतिः, आचाराध्यायः, श्लोकः ३५२
४. सत्यं जयति नानृतम् ।
- वृद्धगौतमस्मृतिः ८/११८
५. धर्मो वृथा यत्र न सत्यमस्ति
- सत्यं न तद्यन्न हृदानुविद्धम् ।
- बृहत्पराशरस्मृतिः ८/७३