स्वम् अपीतो भवति, तस्मादेनं ‘स्वपिति’ इत्याचक्षते, स्वं हि अपीतो भवति । - छान्दोग्योपनिषत् ६-८-१

निद्रासमये आत्मानमेव सङ्गच्छते । तस्मादेव कारणात् निद्रागतं पुरुषं ‘स्वपिति’ इति वदन्ति । यतः
'स्वं हि अपीतो भवति इति स्वपिति' इति व्युत्पत्तिः अस्ति ॥

संस्कृतभाषायां ‘स्वपिति’ इति क्रियापदम् अस्ति । ‘स्वपिति’ इति निद्रां करोति इत्यर्थः । गाढनिद्रासमये
अयं जीवः सर्वान् द्वैतव्यवहारान् विहाय स्वयं स्वरूपस्थः सन् नैजस्वरूपं प्रतिपन्नः खलु ? तस्मादेव कारणात्
सुप्तं ‘स्वपिति’ इत्येव कथयन्ति जनाः ॥

जीवः जाग्रदवस्थायाम् अविद्याकल्पितैः नामरूपक्रियावर्ण आश्रमसम्प्रदायमतविद्याअधिकारादिभिः उपाधिभिः
संसारधर्मैः विराजते । अहं हिन्दुः, अहं महम्मदीयः, अहं ब्राह्मणः, अहं वैश्यः, गृहस्थः, राजा, सेवकः, पुत्रः,
मित्रम् इत्यादिभिः शताधिकैः बन्धनैः बद्धः सन् संसरति । सुषुप्तौ तु एतेषां बन्धनानाम् अन्यतममपि नास्ति ।
तदा अयं स्वस्वरूपे भवति । इदमेव ‘स्वम् अपीतो भवति इति स्वपिति’ इत्युच्यते । ‘स्वपिति’ शब्दस्य
रहस्यमिदम् !

"https://sa.wikiquote.org/w/index.php?title=स्वम्_अपीतो_भवति...&oldid=16390" इत्यस्माद् प्रतिप्राप्तम्