स एष एक एकवृदेक एव ॥ (अथर्ववेदः १३-४-२०) सम्पाद्यताम्

परमात्मशक्तिः एका एव । निश्चयेन एका एव ।

इतोऽपि स्पष्टोक्तिः कथं शक्येत ?!! इदमेव वचनं महात्मानः काले काले उद्घोषितवन्तः सन्ति ।
तथापि कोट्यधिकाः देवदेवताः परिकल्प्य तेषां रूपाकाराधिकम् आरोप्य ताः अस्माभिः एव निर्मितेषु भवनेषु बन्धीकृत्य विविधान् व्यवहारान् निर्वहन्तः स्मः । तेभ्यः अपि पति-पत्नी-सुतादीन् परिकल्प्य कल्याणोत्सव-पूजादीः निर्वर्तयन्तः उदरम्भरणं कुर्वन्तः स्मः । तस्मै उत्कोचदानपूर्वकं पापनिवारणे, पुण्यसम्पादने च नितराम् उद्युक्ताः स्मः । देवस्य नाम्ना क्रियमाणैः एतैः सर्वैः अव्यवहारैः अलम् । उत्तमरीत्या मानवसेवां जनसेवां च कुर्वन्तः पुण्यं सम्पादयेम । कृतस्य पापस्य फलम् अनुभूय ऋणात् मुक्ताः भवेम । देवतानां मतसम्प्रदायादीनां नाम्ना क्रियमाणम् अशान्तेः प्रसारं स्थगयेम ।
"https://sa.wikiquote.org/w/index.php?title=स_एष_एक_एकवृदेक_एव_॥&oldid=3801" इत्यस्माद् प्रतिप्राप्तम्