स जयति जगति...


स जयति जगति सनातनधर्म:

सत्यमिदं सत्यम् ॥
उपदेश: खलु यस्य मनोज्ञ:
नित्यनवीनोऽयम्ऽऽ ॥सत्यमिदं सत्यम् ॥


निर्मलभक्त्या कर्मविशुद्धं
कुरुताविरतं फलमविचिन्त्य ।
अयमिह धर्म: रक्षत धर्मं
रक्षति धर्मो हिऽऽ ॥१॥


अर्चत विष्णुं शङ्करमथवा
जिनमाचार्यं बुद्धमथान्यम् ।
एको देवो नाम विभिन्नं
नास्ति विवादोऽत्रऽऽ ॥२॥


अयमिह स्पृश्य: अयमस्पृश्य:
उच्चो ह्येक: नीचोऽप्यपर: ।
एवंरूप: भिन्नो भाव:
कल्पित एवायम्ऽऽ ॥३॥


भूतलमेकं यत्र निवास:
कुलमप्येकं मनुकुलजानाम् ।
तस्मात्सर्वे भ्रातर यूयं
मा विस्मरतेदम्ऽऽ ॥४॥


जातिरभिन्ना नीतिरभिन्ना
लक्ष्यमभिन्नं कार्यमभिन्नम् ।
तस्मात्सर्वे सङ्गच्छध्वं
सङ्घे शक्तिरिहऽऽ ॥५॥


द्वेषं त्यक्त्वा भेदं हित्वा
लक्ष्यं सततं चेतसि कृत्वा ।
क्रियते कार्यं यदि युष्माभि:
भविता सिद्धिरिहऽऽ ॥६॥


धैर्ये रक्ति: कर्मणि सक्ति:
दैवे भक्ति: पापविरक्ति: ।
सर्वेषामपि भवभयतरणे
एषा युक्तिरिहऽऽ ॥७॥


मनसा सततं ध्यायत भद्रं
वचसा सततं निगदत भद्रम् ।
कृत्या सततं कुरुत च भद्रं

भवति हि वो भद्रंऽऽ ॥८॥
- मञ्जुनाथशर्मा


"https://sa.wikiquote.org/w/index.php?title=स_जयति_जगति...&oldid=15403" इत्यस्माद् प्रतिप्राप्तम्