स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ - तैत्तिरीयोपनिषत् ३-१०-६

अस्मिन् पुरुषे यः आत्मा अस्ति, आदित्ये च यः
आत्मा अस्ति सः एक एव ।

उपाधिषु उच्चनीचभावः भवेत्, उपहितं तत्त्वं तु एकमेव
भवति । शर्करया निर्मिताः मधुराः पदार्थाः भिन्नभिन्नैः
नामरुपाकारैः अवभासन्ते । मैसूर्पाक्, जामून्, लाडु, जिलेबि
इत्याद्याः खाद्याः नामरूपैः परस्परं भिन्नाः । अपि तु
सर्वेष्वपि एतेषु खाद्येषु समाना सारभूता शर्करा एव,
माधुर्यमेव । माधुर्ये भेदो नास्ति ॥

एवमेव आत्मा एक एव, उपाधिषु उच्चनीचभावो दृश्येत ।
अस्मिन् पुरुषे मनुष्ये; पुरुषो नाम क्रिमिकीटादिः जीवः इत्यपि
भवेत्; तस्मिन् । तथा आदित्ये सूर्ये हिरण्यगर्भे ।
अस्मिन् सामान्ये मुनुष्ये तथा अतिश्रेष्ठे आदित्ये ।
द्वयोरपि उपाध्योः विद्यमानः आत्मा तु समः, एकः निर्विशेषः,
परिपूर्णश्च । निरुपाधिकः निरवयवश्च आत्मा अहमेवेति
यो विजानाति स एव ब्रह्मज्ञानीति कथ्यते ॥

"https://sa.wikiquote.org/w/index.php?title=स_यश्चायं_पुरुषे...&oldid=16417" इत्यस्माद् प्रतिप्राप्तम्